Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
दुर्गा शिवा महालक्ष्मीर्महागौरीच चण्डिका ।
सर्वज्ञा सर्वलोकेशी सर्वकर्मफलप्रदा ॥ १ ॥
सर्वतीर्थमयी पुण्या देवयोनिरयोनिजा ।
भूमिजा निर्गुणाधारशक्तिश्चानीश्वरी तथा ॥ २ ॥
निर्गुणा निरहङ्कारा सर्वगर्वविमर्दिनी ।
सर्वलोकप्रिया वाणी सर्वविद्याधिदेवता ॥ ३ ॥
पार्वती देवमाता च वनीशा विन्ध्यवासिनी ।
तेजोवती महामाता कोटिसूर्यसमप्रभा ॥ ४ ॥
देवता वह्निरूपा च सरोजा वर्णरूपिणी ।
गुणाश्रया गुणमध्या गुणत्रयविवर्जिता ॥ ५ ॥
कर्मज्ञानप्रदा कान्ता सर्वसंहारकारिणी ।
धर्मज्ञाना धर्मनिष्ठा सर्वकर्मविवर्जिता ॥ ६ ॥
कामाक्षी कामसंहर्त्री कामक्रोधविवर्जिता ।
शाङ्करी शाम्भवी शान्ता चन्द्रसूर्याग्निलोचना ॥ ७ ॥
सुजया जयभूमिष्ठा जाह्नवी जनपूजिता ।
शास्त्रा शास्त्रमया नित्या शुभा चन्द्रार्धमस्तका ॥ ८ ॥
भारती भ्रामरी कल्पा कराली कृष्णपिङ्गला ।
ब्राह्मी नारायणी रौद्री चन्द्रामृतपरिवृता ॥ ९ ॥
ज्येष्ठेन्दिरा महामाया जगत्सृष्ट्याधिकारिणी ।
ब्रह्माण्डकोटिसंस्थाना कामिनी कमलालया ॥ १० ॥
कात्यायनी कलातीता कालसंहारकारिणी ।
योगनिष्ठा योगगम्या योगध्येया तपस्विनी ॥ ११ ॥
ज्ञानरूपा निराकारा भक्ताभीष्टफलप्रदा ।
भूतात्मिका भूतमाता भूतेशा भूतधारिणी ॥ १२ ॥
स्वधानारीमध्यगता षडाधारादिवर्धिनी ।
मोहिताम्शुभवा शुभ्रा सूक्ष्मा मात्रा निरालसा ॥ १३ ॥
निम्नगा नीलसङ्काशा नित्यानन्दा हरा परा ।
सर्वज्ञानप्रदानन्दा सत्या दुर्लभरूपिणी ॥ १४ ॥
सरस्वती सर्वगता सर्वाभीष्टप्रदायिनी ।
इति श्रीदुर्गा अष्टोत्तर शतनामस्तोत्रं सम्पूर्णम् ॥
इतर श्री दुर्गा स्तोत्राणि पश्यतु ।
Report mistakes and corrections in Stotranidhi content.