Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
मूलेवटस्य मुनिपुङ्गवसेव्यमानं
मुद्राविशेषमुकुलीकृतपाणिपद्मम् ।
मन्दस्मितं मधुरवेषमुदारमाद्यं
तेजस्तदस्तु हृदि मे तरुणेन्दुचूडम् ॥ १ ॥
शान्तं शारदचन्द्रकान्तिधवलं चन्द्राभिरामाननं
चन्द्रार्कोपमकान्तिकुण्डलधरं चन्द्रावदातांशुकम् ।
वीणां पुस्तकमक्षसूत्रवलयं व्याख्यानमुद्रां करै-
-र्बिभ्राणं कलये हृदा मम सदा शास्तारमिष्टार्थदम् ॥ २ ॥
कर्पूरगात्रमरविन्ददलायताक्षं
कर्पूरशीतलहृदं करुणाविलासम् ।
चन्द्रार्धशेखरमनन्तगुणाभिराम-
-मिन्द्रादिसेव्यपदपङ्कजमीशमीडे ॥ ३ ॥
द्युद्रोरधः स्वर्णमयासनस्थं
मुद्रोल्लसद्बाहुमुदारकायम् ।
सद्रोहिणीनाथकलावतंसं
भद्रोदधिं कञ्चन चिन्तयामः ॥ ४ ॥
उद्यद्भास्करसन्निभं त्रिणयनं श्वेताङ्गरागप्रभं
बालं मौञ्जिधरं प्रसन्नवदनं न्यग्रोधमूलेस्थितम् ।
पिङ्गाक्षं मृगशाबकस्थितिकरं सुब्रह्मसूत्राकृतिं
भक्तानामभयप्रदं भयहरं श्रीदक्षिणामूर्तिकम् ॥ ५ ॥
श्रीकान्त द्रुहिणोपमन्यु तपन स्कन्देन्द्र नन्द्यादयः
प्राचीनागुरवोऽपि यस्य करुणालेशाद्गतागौरवम् ।
तं सर्वादिगुरुं मनोज्ञवपुषं मन्दस्मितालङ्कृतं
चिन्मुद्राकृतिमुग्धपाणिनलिनं चित्ते शिवं कुर्महे ॥ ६ ॥
कपर्दिनं चन्द्रकलावतंसं
त्रिणेत्रमिन्दुं प्रतिमक्षताज्वलम् ।
चतुर्भुजं ज्ञानदमक्षसूत्र-
-पुस्ताग्निहस्तं हृदि भावयेच्छिवम् ॥ ७ ॥
वामोरूपरिसंस्थितां गिरिसुतामन्योन्यमालिङ्गितां
श्यामामुत्पलधारिणीं शशिनिभां चालोकयन्तं शिवम् ।
आश्लिष्टेन करेण पुस्तकमथो कुम्भं सुधापूरितं
मुद्रां ज्ञानमयीं दधानमपरैर्मुक्ताक्षमालं भजे ॥ ८ ॥
वटतरुनिकटनिवासं पटुतरविज्ञानमुद्रितकराब्जम् ।
कञ्चनदेशिकमाद्यं कैवल्यानन्दकन्दलं वन्दे ॥ ९ ॥
इति श्री दक्षिणामूर्ति नवरत्नमाला स्तोत्रम् ।
इतर श्री शिव स्तोत्राणि पश्यतु । इतर श्री दक्षिणामूर्ति स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.