Sri Dakshinamurthy Dashakam – श्री दक्षिणामूर्ति दशकम्


पुन्नागवारिजात-
-प्रभृतिसुमस्रग्विभूषितग्रीवः ।
पुरगर्वमर्दनचणः
पुरतो मम भवतु दक्षिणामूर्तिः ॥ १ ॥

पूजितपदाम्बुजातः
पुरुषोत्तमदेवराजपद्मभवैः ।
पूगप्रदः कलानां
पुरतो मम भवतु दक्षिणामूर्तिः ॥ २ ॥

हालाहलोज्ज्वलगलः
शैलादिप्रवरगणैर्वीतः ।
कालाहङ्कृतिदलनः
पुरतो मम भवतु दक्षिणामूर्तिः ॥ ३ ॥

कैलासशैलनिलयो
लीलालेशेन निर्मिताजाण्डः ।
बालाब्जकृतावतंसः
पुरतो मम भवतु दक्षिणामूर्तिः ॥ ४ ॥

चेलाजितकुन्ददुग्धो
लोलः शैलाधिराजतनयायाम् ।
फालविराजद्वह्निः
पुरतो मम भवतु दक्षिणामूर्तिः ॥ ५ ॥

न्यग्रोधमूलवासी
न्यक्कृतचन्द्रो मुखाम्बुजातेन ।
पुण्यैकलभ्यचरणः
पुरतो मम भवतु दक्षिणामूर्तिः ॥ ६ ॥

मन्दार आनततते-
-र्बृन्दारकबृन्दवन्दितपदाब्जः ।
वन्दारुपूर्णकरुणः
पुरतो मम भवतु दक्षिणामूर्तिः ॥ ७ ॥

मुक्तामालाभूष-
-स्त्यक्ताशप्रवरयोगिभिः सेव्यः ।
भक्ताखिलेष्टदायी
पुरतो मम भवतु दक्षिणामूर्तिः ॥ ८ ॥

मुद्रामालामृतघट-
-पुस्तकराजत्कराम्भोजः ।
मुक्तिप्रदाननिरतः
पुरतो मम भवतु दक्षिणामूर्तिः ॥ ९ ॥

स्तोकार्चनपरितुष्टः
शोकापहपादपङ्कजस्मरणः ।
लोकावनकृतदीक्षः
पुरतो मम भवतु दक्षिणामूर्तिः ॥ १० ॥

इति श्रीसच्चिदानन्दशिवाभिनवनृसिंहभारती स्वामिभिः विरचितं श्री दक्षिणामूर्ति दशकम् ।


इतर श्री शिव स्तोत्राणि पश्यतु । इतर श्री दक्षिणामूर्ति स्तोत्राणि पश्यतु ।


మా తదుపరి ప్రచురణ : శ్రీ విష్ణు స్తోత్రనిధి ముద్రించుటకు ఆలోచన చేయుచున్నాము. ఇటీవల శ్రీ దక్షిణామూర్తి స్తోత్రనిధి పుస్తకము విడుదల చేశాము. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed