Sri Dakshinamurthy Ashtakam 2 (Vyasa Krutam) – श्री दक्षिणामूर्त्यष्टकम् – २ (व्यास कृतम्)


श्रीव्यास उवाच ।
श्रीमद्गुरो निखिलवेदशिरोनिगूढ
ब्रह्मात्मबोध सुखसान्द्रतनो महात्मन् ।
श्रीकान्तवाक्पति मुखाखिलदेवसङ्घ
स्वात्मावबोधक परेश नमो नमस्ते ॥ १ ॥

सान्निध्यमात्रमुपलभ्यसमस्तमेत-
-दाभाति यस्य जगदत्र चराचरं च ।
चिन्मात्रतां निज कराङ्गुलि मुद्रया यः
स्वस्यानिशं वदति नाथ नमो नमस्ते ॥ २ ॥

जीवेश्वराद्यखिलमत्र विकारजातं
जातं यतः स्थितमनन्तसुखे च यस्मिन् ।
येनोपसंहृतमखण्डचिदेकशक्त्या
स्वाभिन्नयैव जगदीश नमो नमस्ते ॥ ३ ॥

यः स्वांशजीवसुखदुःखफलोपभोग-
-हेतोर्वपूंषि विविधानि च भौतिकानि ।
निर्माय तत्र विशता करणैः सहान्ते
जीवेन साक्ष्यमत एव नमो नमस्ते ॥ ४ ॥

हृत्पुण्डरीकगतचिन्मणिमात्मरूपं
यस्मिन् समर्पयति योगबलेन विद्वान् ।
यः पूर्णबोधसुखलक्षण एकरूप
आकाशवद्विभुरुमेश नमो नमस्ते ॥ ५ ॥

यन्मायया हरिहर द्रुहिणा बभूवुः
सृष्ट्यादिकारिण इमे जगतामधीशाः ।
यद्विद्ययैव परयात्रहि वश्यमाया
स्थैर्यं गता गुरुवरेश नमो नमस्ते ॥ ६ ॥

स्त्रीपुंनपुंसकसमाह्वय लिङ्गहीनो-
-ऽप्यास्तेत्रिलिङ्गक उमेशतया य एव ।
सत्यप्रबोध सुखरूपतया त्वरूप-
-वत्त्वे न च त्रिजगदीश नमो नमस्ते ॥ ७ ॥

जीवत्रयं भ्रमति वै यदविद्ययैव
संसारचक्र इह दुस्तर दुःखहेतौ ।
यद्विद्ययैव निजबोधरतं स्ववश्या
विद्यं च तद्भवति साम्ब नमो नमस्ते ॥ ७ ॥

इति श्रीव्यासकृत श्री दक्षिणामूर्त्यष्टकम् ।


इतर श्री शिव स्तोत्राणि पश्यतु । इतर श्री दक्षिणामूर्ति स्तोत्राणि पश्यतु ।


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed