Sri Chandrasekharendra Saraswati (Paramacharya) Stuti – श्री चन्द्रशेखरेन्द्र सरस्वती स्तुति


शृतिस्मृतिपुराणोक्त धर्ममार्गरतं गुरुम् ।
भक्तानां हित वक्तारं नमस्ये चित्तशुद्धये ॥ १ ॥

अद्वैतानन्दभरितं साधूनामुपकारिणम् ।
सर्वशास्त्रविदं शान्तं नमस्ये चित्तशुद्धये ॥ २ ॥

धर्मभक्तिज्ञानमार्गप्रचारे बद्धकङ्कणम् ।
अनुग्रहप्रदातारं नमस्ये चित्तशुद्धये ॥ ३ ॥

भगवत्पादपादाब्जविनिवेशित चेतसः ।
श्रीचन्द्रशेखरगुरोः प्रसादो मयिजायताम् ॥ ४ ॥

क्षेत्रतीर्थकथाभिज्ञः सच्चिदानन्दविग्रहः ।
चन्द्रशेखर्यवर्योमे सन्निधत्ता सदाहृदि ॥ ५ ॥

पोषणे वेदशास्त्राणां दत्तचित्तमहर्निशम् ।
क्षेत्रयात्रारतं वन्दे सद्गुरुं चन्द्रशेखरम् ॥ ६ ॥

वेदज्ञान् वेदभाष्यज्ञान् कर्तुं यस्य समुद्यमः ।
गुरुर्यस्य महादेवः तं वन्दे चन्द्रशेखरम् ॥ ७ ॥

मणिवाचक गोदादि भक्ति वागमृतैर्बृशम् ।
बालानां भगवद्भक्तिं वर्धयन्तं गुरुं भजे ॥ ८ ॥

लघूपदेशैर्नास्तिक्य भावमर्दन कोविदम् ।
शिवं स्मितमुखं शान्तं प्रणतोऽस्मि जगद्गुरुम् ॥ ९ ॥

विनयेन प्रार्थयेऽहं विद्यां बोधयमे गुरो ।
मार्गमन्यं नजानेऽहं भवन्तं शरणङ्गतः ॥ १० ॥


इतर श्री गुरु स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed