Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
सर्वलोकैकजननी सर्वाभीष्टफलप्रदे ।
रक्ष मां क्षुद्रजालेभ्यः पातकेभ्यश्च सर्वदा ॥ १ ॥
जगद्धिते जगन्नेत्रि जगन्मातर्जगन्मये ।
जगद्दुरितजालेभ्यो रक्ष मामहितं हर ॥ २ ॥
वाङ्मनः कायकरणैर्जन्मान्तरशतार्जितम् ।
पापं नाशय देवेशि पाहि मां कृपयाऽनिशम् ॥ ३ ॥
जन्मान्तरसहस्रेषु यत्कृतं दुष्कृतं मया ।
तन्निवारय मां पाहि शरण्ये भक्तवत्सले ॥ ४ ॥
मया कृतान्यशेषाणि मदीयैश्च कृतानि च ।
पापानि नाशयस्वाद्य पाहि मां परदेवते ॥ ५ ॥
ज्ञानाज्ञानकृतैः पापैः साम्प्राप्तं दुरितं क्षणात् ।
निवारय जगन्मातरखिलैरनिवारितम् ॥ ६ ॥
असत्कार्य निवृत्तिं च सत्कार्यस्य प्रवर्तनम् ।
देवतात्मानुसन्धानं देहि मे परमेश्वरि ॥ ७ ॥
सर्वावरणविद्यानां सन्धानेनानुचिन्तनम् ।
देशिकाङ्घ्रिस्मृतिं चैव देहि मे जगदीश्वरि ॥ ८ ॥
अनुस्यूतपरब्रह्मानन्दामृतनिषेवणम् ।
अत्यन्तनिश्चलं चित्तं देहि मे परमेश्वरि ॥ ९ ॥
सदाशिवाद्यैर्धात्र्यन्तैः देवताभिर्मुनीश्वरैः ।
उपासितं पदं यत्तद्देहि मे परमेश्वरि ॥ १० ॥
इन्द्रादिभिरशेषैश्च देवैरसुरराक्षसैः ।
कृतं विघ्नं निवार्याशु कृपया रक्ष रक्ष माम् ॥ ११ ॥
आत्मानमात्मनः स्निग्धमाश्रितं परिचारकम् ।
द्रव्यदं बन्धुवर्गं च देवेशि परिरक्ष नः ॥ १२ ॥
उपासकस्य यो यो मे यथाशक्त्यनुकूलकृत् ।
सुहृदं रक्ष तं नित्यं द्विषन्तमनुकूलय ॥ १३ ॥
दैहिकादैहिकान्नानाहेतुकात्केवलाद्भयात् ।
पाहि मां प्रणतापत्तिभञ्जने विश्वलोचने ॥ १४ ॥
नित्यानन्दमयं सौख्यं निर्मलं निरूपाधिकम् ।
देहि मे निश्चलां भक्तिं निखिलाभिष्टसिद्धिदे ॥ १५ ॥
यन्मया सकलोपायैः करणीयमितः परम् ।
तत्सर्वं बोधयस्वाम्ब सर्वलोकहिते रते ॥ १६ ॥
प्रदेहि बुद्धियोगं तं येन त्वामुपयाम्यहम् ।
कामानां हृद्यसंरोहं देहि मे कृपयेश्वरि ॥ १७ ॥
भवाब्धौ पतितं भीतमनाथं दीनमानसम् ।
उद्धृत्य कृपया देवि निधेहि चरणाम्बुजे ॥ १८ ॥
इति श्री बाला रक्षा स्तोत्रम् ।
इतर श्री बाला स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.