Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
अस्य श्री बालात्रिपुरसुन्दर्यष्टोत्तरशतनाम स्तोत्रमहामन्त्रस्य दक्षिणामूर्तिः ऋषिः, अनुष्टुप् छन्दः, श्रीबालात्रिपुरसुन्दरी देवता, ऐं बीजं, सौः शक्तिः, क्लीं कीलकं, श्रीबालात्रिपुरसुन्दरी प्रसादसिद्ध्यर्थे नामपारायणे विनियोगः ।
न्यासः – ओं ऐं अङ्गुष्ठाभ्यां नमः । क्लीं तर्जनीभ्यां नमः । सौः मध्यमाभ्यां नमः । ऐं अनामिकाभ्यां नमः । क्लीं कनिष्ठिकाभ्यां नमः । सौः करतलकरपृष्ठाभ्यां नमः । ऐं हृदयाय नमः । क्लीं शिरसे स्वाहा । सौः शिखायै वषट् । ऐं कवचाय हुम् । क्लीं नेत्रत्रयाय वौषट् । सौः अस्त्राय फट् । भूर्भुवस्सुवरोमिति दिग्बन्धः ।
ध्यानम् ।
पाशाङ्कुशे पुस्तकाक्षसूत्रे च दधती करैः ।
रक्ता त्र्यक्षा चन्द्रफाला पातु बाला सुरार्चिता ॥
लमित्यादि पञ्चपूजा ।
लं पृथिव्यात्मिकायै गन्धं समर्पयामि ।
हं आकाशात्मिकायै पुष्पाणि समर्पयामि ।
यं वाय्वात्मिकायै धूपमाघ्रापयामि ।
रं अग्न्यात्मिकायै दीपं दर्शयामि ।
वं अमृतात्मिकायै अमृतोपहारं निवेदयामि ।
सं सर्वात्मिकायै सर्वोपचारपूजाः समर्पयामि ॥
स्तोत्रम् ।
कल्याणी त्रिपुरा बाला माया त्रिपुरसुन्दरी ।
सुन्दरी सौभाग्यवती क्लीङ्कारी सर्वमङ्गला ॥ १ ॥
ह्रींकारी स्कन्दजननी परा पञ्चदशाक्षरी ।
त्रिलोकी मोहनाधीशा सर्वेशी सर्वरूपिणी ॥ २ ॥
सर्वसङ्क्षोभिणी पूर्णा नवमुद्रेश्वरी शिवा ।
अनङ्गकुसुमा ख्याता ह्यनङ्गभुवनेश्वरी ॥ ३ ॥
जप्या स्तव्या श्रुतिर्नित्या नित्यक्लिन्नाऽमृतोद्भवा ।
मोहिनी परमानन्दा कामेशी तरुणी कला ॥ ४ ॥
कलावती भगवती पद्मरागकिरीटिनी ।
सौगन्धिनी सरिद्वेणी मन्त्रिणी मन्त्ररूपिणी ॥ ५ ॥
तत्त्वत्रयी तत्त्वमयी सिद्धा त्रिपुरवासिनी ।
श्रीर्मतिश्च महादेवी कौलिनी परदेवता ॥ ६ ॥
कैवल्यरेखा वशिनी सर्वेशी सर्वमातृका ।
विष्णुष्वसा देवमाता सर्वसम्पत्प्रदायिनी ॥ ७ ॥
आधारा हितपत्नीका स्वाधिष्ठानसमाश्रया ।
आज्ञापद्मासनासीना विशुद्धस्थलसंस्थिता ॥ ८ ॥
अष्टत्रिंशत्कलामूर्तिः सुषुम्ना चारुमध्यमा ।
योगीश्वरी मुनिध्येया परब्रह्मस्वरूपिणी ॥ ९ ॥
चतुर्भुजा चन्द्रचूडा पुराण्यागमरूपिणी ।
ओङ्कारादिमहाविद्या महाप्रणवरूपिणी ॥ १० ॥
भूतेश्वरी भूतमयी पञ्चाशद्वर्णरूपिणी ।
षोढान्यासमहाभूषा कामाक्षी दशमातृका ॥ ११ ॥
आधारशक्तिररुणा लक्ष्मीः श्रीपुरभैरवी ।
त्रिकोणमध्यनिलया षट्कोणपुरवासिनी ॥ १२ ॥
नवकोणपुरावासा बिन्दुस्थलसमन्विता ।
अघोरामन्त्रितपदा भामिनी भवरूपिणी ॥ १३ ॥
एषां सङ्कर्षिणी धात्री चोमा कात्यायनी शिवा ।
सुलभा दुर्लभा शास्त्री महाशास्त्री शिखण्डिनी ॥ १४ ॥
नाम्नामष्टोत्तरशतं पठेन्न्याससमन्वितम् ।
सर्वसिद्धिमवाप्नोति साधकोऽभीष्टमाप्नुयात् ॥ १५ ॥
भूर्भुवस्सुवरोमिति दिग्विमोकः ।
इति श्रीरुद्रयामले उमामहेश्वरसंवादे श्री बाला अष्टोत्तरशतनाम स्तोत्रम् ।
इतर श्री बाला स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.