Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
लोकवीरं महापूज्यं सर्वरक्षाकरं विभुम् ।
पार्वती हृदयानन्दं शास्तारं प्रणमाम्यहम् ॥ १ ॥
विप्रपूज्यं विश्ववन्द्यं विष्णुशम्भोः प्रियं सुतम् ।
क्षिप्रप्रसादनिरतं शास्तारं प्रणमाम्यहम् ॥ २ ॥
मत्तमातङ्गगमनं कारुण्यामृतपूरितम् ।
सर्वविघ्नहरं देवं शास्तारं प्रणमाम्यहम् ॥ ३ ॥
अस्मत्कुलेश्वरं देवमस्मच्छत्रुविनाशनम् ।
अस्मदिष्टप्रदातारं शास्तारं प्रणमाम्यहम् ॥ ४ ॥
पाण्ड्येशवंशतिलकं केरले केलिविग्रहम् ।
आर्तत्राणपरं देवं शास्तारं प्रणमाम्यहम् ॥ ५ ॥
पञ्चरत्नाख्यमेतद्यो नित्यं शुद्धः पठेन्नरः ।
तस्य प्रसन्नो भगवान् शास्ता वसति मानसे ॥ ६ ॥
इति श्री शास्ता पञ्चरत्नम् ।
॥ शास्ता नमस्कार श्लोकाः ॥
त्रयम्बकपुराधीशं गणाधिपसमन्वितम् ।
गजारूढमहं वन्दे शास्तारं प्रणमाम्यहम् ॥ १ ॥
शिववीर्यसमुद्भूतं श्रीनिवासतनूद्भवम् ।
शिखिवाहानुजं वन्दे शास्तारं प्रणमाम्यहम् ॥ २ ॥
यस्य धन्वन्तरिर्माता पिता देवो महेश्वरः ।
तं शास्तारमहं वन्दे महारोगनिवारणम् ॥ ३ ॥
भूतनाथ सदानन्द सर्वभूतदयापर ।
रक्ष रक्ष महाबाहो शास्त्रे तुभ्यं नमो नमः ॥ ४ ॥
इतर श्री अय्यप्प स्तोत्राणि पश्यतु ।
గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.