Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
माणिक्यं –
ततो रावणनीतायाः सीतायाः शत्रुकर्शनः ।
इयेष पदमन्वेष्टुं चारणाचरिते पथि ॥ १ ॥
मुत्यं –
यस्य त्वेतानि चत्वारि वानरेन्द्र यथा तव ।
स्मृतिर्मतिर्धृतिर्दाक्ष्यं स कर्मसु न सीदति ॥ २ ॥
प्रवालं –
अनिर्वेदः श्रियो मूलं अनिर्वेदः परं सुखम् ।
अनिर्वेदो हि सततं सर्वार्थेषु प्रवर्तकः ॥ ३ ॥
मरकतं –
नमोऽस्तु रामाय सलक्ष्मणाय
देव्यै च तस्यै जनकात्मजायै ।
नमोऽस्तु रुद्रेन्द्रयमानिलेभ्यः
नमोऽस्तु चन्द्रार्कमरुद्गणेभ्यः ॥ ४ ॥
पुष्यरागं –
प्रियान्न सम्भवेद्दुःखं अप्रियादधिकं भयम् ।
ताभ्यां हि ये वियुज्यन्ते नमस्तेषां महात्मनाम् ॥ ५ ॥
हीरकं –
रामः कमलपत्राक्षः सर्वसत्त्वमनोहरः ।
रूपदाक्षिण्यसम्पन्नः प्रसूतो जनकात्मजे ॥ ६ ॥
इन्द्रनीलं –
जयत्यतिबलो रामो लक्ष्मणश्च महाबलः ।
राजा जयति सुग्रीवो राघवेणाभिपालितः ।
दासोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः ।
हनुमान् शत्रुसैन्यानां निहन्ता मारुतात्मजः ॥ ७ ॥
गोमेधिकं –
यद्यस्ति पतिशुश्रूषा यद्यस्ति चरितं तपः ।
यदि वास्त्येकपत्नीत्वं शीतो भव हनूमतः ॥ ८ ॥
वैडूर्यं –
निवृत्तवनवासं तं त्वया सार्धमरिन्दमम् ।
अभिषिक्तमयोध्यायां क्षिप्रं द्रक्ष्यसि राघवम् ॥ ९ ॥
इति श्री आञ्जनेय नवरत्नमाला स्तोत्रम् ।
इतर श्री हनुमान् स्तोत्राणि पश्यतु ।
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.