Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
श्रेयस्करि श्रमनिवारिणि सिद्धविद्ये
स्वानन्दपूर्णहृदये करुणातनो मे ।
चित्ते वस प्रियतमेन शिवेन सार्धं
माङ्गल्यमातनु सदैव मुदैव मातः ॥ १ ॥
श्रेयस्करि श्रितजनोद्धरणैकदक्षे
दाक्षायणि क्षपित पातकतूलराशे ।
शर्मण्यपादयुगले जलजप्रमोदे
मित्रेत्रयी प्रसृमरे रमतां मनो मे ॥ २ ॥
श्रेयस्करि प्रणतपामर पारदान
ज्ञान प्रदानसरणिश्रित पादपीठे ।
श्रेयांसि सन्ति निखिलानि सुमङ्गलानि
तत्रैव मे वसतु मानसराजहंसः ॥ ३ ॥
श्रेयस्करीति तवनाम गृणाति भक्त्या
श्रेयांसि तस्य सदने च करी पुरस्तात् ।
किं किं न सिध्यति सुमङ्गलनाम मालां
धृत्वा सुखं स्वपिति शेषतनौ रमेशः ॥ ४ ॥
श्रेयस्करीति वरदेति दयापरेति
वेदोदरेति विधिशङ्कर पूजितेति ।
वाणीति शम्भुरमणीति च तारिणीति
श्रीदेशिकेन्द्र करुणेति गृणामि नित्यम् ॥ ५ ॥
श्रेयस्करी प्रकटमेव तवाभिधानं
यत्रास्ति तत्र रविवत्प्रथमानवीर्यं ।
ब्रह्मेन्द्ररुद्रमरुदादि गृहाणि सौख्यैः
पूर्णानि नाममहिमा प्रथितस्त्रिलोक्याम् ॥ ६ ॥
श्रेयस्करि प्रणतवत्सलता त्वयीति
वाचं शृणुष्व सरलां सरसां च सत्याम् ।
भक्त्या नतोऽस्मि विनतोऽस्मि सुमङ्गले त्वत्-
पादाम्बुजे प्रणिहिते मयि सन्निधत्स्व ॥ ७ ॥
श्रेयस्करीचरणसेवनतत्परेण
कृष्णेन भिक्षुवपुषा रचितं पठेद्यः ।
तस्य प्रसीदति सुरारिविमर्दनीय-
मम्बा तनोति सदनेषु सुमङ्गलानि ॥ ८ ॥
यथामति कृतस्तुतौ मुदमुपैति माता न किं
यथावि भवदानतो मुदमुपैति पात्रं न किं ।
भवानि तव संस्तुतिं विरचितुं नचाहं
क्षमस्तथापि मुदमेष्यसि प्रदिशसीष्टमम्ब त्वरात् ॥ ९ ॥
इति श्रेयस्करी स्तोत्रम् ॥
इतर देवी स्तोत्राणि पश्यतु ।
పైరసీ ప్రకటన : నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ మరియు శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు కలిసి మా రెండు పుస్తకాలను ("శ్రీ వారాహీ స్తోత్రనిధి" మరియు "శ్రీ శ్యామలా స్తోత్రనిధి") ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.