Shraddha Suktam (Rigveda) – श्रद्धा सूक्तम् (ऋग्वेदीय)


(ऋ।१०।१५१)

श्र॒द्धया॒ग्निः समि॑ध्यते श्र॒द्धया॑ हूयते ह॒विः ।
श्र॒द्धां भग॑स्य मू॒र्धनि॒ वच॒सा वे॑दयामसि ॥ १

प्रि॒यं श्र॑द्धे॒ दद॑तः प्रि॒यं श्र॑द्धे॒ दिदा॑सतः ।
प्रि॒यं भो॒जेषु॒ यज्व॑स्वि॒दं म॑ उदि॒तं कृ॑धि ॥ २

यथा॑ दे॒वा असु॑रेषु श्र॒द्धामु॒ग्रेषु॑ चक्रि॒रे ।
ए॒वं भो॒जेषु॒ यज्व॑स्व॒स्माक॑मुदि॒तं कृ॑धि ॥ ३

श्र॒द्धां दे॒वा यज॑माना वा॒युगो॑पा॒ उपा॑सते ।
श्र॒द्धां हृ॑द॒य्य॑या॒ऽऽकू॑त्या श्र॒द्धया॑ विन्दते॒ वसु॑ ॥ ४

श्र॒द्धां प्रा॒तर्ह॑वामहे श्र॒द्धां म॒ध्यन्दि॑नं॒ परि॑ ।
श्र॒द्धां सूर्य॑स्य नि॒म्रुचि॒ श्रद्धे॒ श्रद्धा॑पये॒ह न॑: ॥ ५


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed