Shiva shadakshara stotram – श्री शिव षडक्षर स्तोत्रम्



१। रुद्रयामले
—————-

ओङ्कारं बिन्दुसम्युक्तं नित्यं ध्यायन्ति योगिनः ।
कामदं मोक्षदं चैव ओङ्काराय नमो नमः ॥ १ ॥

नमन्ति ऋषयो देवा नमन्त्यप्सरसां गणाः ।
नरा नमन्ति देवेशं नकाराय नमो नमः ॥ २ ॥

महादेवं महात्मानं महाध्यानपरायणम् ।
महापापहरं देवं मकाराय नमो नमः ॥ ३ ॥

शिवं शान्तं जगन्नाथं लोकानुग्रहकारकम् ।
शिवमेकपदं नित्यं शिकाराय नमो नमः ॥ ४ ॥

वाहनं वृषभो यस्य वासुकिः कण्ठभूषणम् ।
वामे शक्तिधरं देवं वकाराय नमो नमः ॥ ५ ॥

यत्र यत्र स्थितो देवः सर्वव्यापी महेश्वरः ।
यो गुरुः सर्वदेवानां यकाराय नमो नमः ॥ ६ ॥

षडक्षरमिदं स्तोत्रं यः पठेच्छिवसन्निधौ ।
शिवलोकमवाप्नोति शिवेन सह मोदते ॥ ७ ॥

२। श्रीमच्छङ्कराचार्य कृतं
—————————

ओङ्कारं बिन्दुसम्युक्तं नित्यं ध्यायन्ति योगिनः ।
कामदं मोक्षदं तस्मादोङ्काराय नमो नमः ॥ १ ॥

ओं नं,
नमन्ति मुनयस्सर्वे नमन्त्यप्सरसां गणाः ।
नराणामादिदेवाय नकाराय नमो नमः ॥ २ ॥

ओं मं,
महत्तत्त्वं महादेवप्रियं ज्ञानप्रदं परम् ।
महापापहरं तस्मान्मकाराय नमो नमः ॥ ३ ॥

ओं शिं,
शिवं शान्तं शिवाकारं शिवानुग्रहकारणम् ।
महापापहरं तस्माच्छिकाराय नमो नमः ॥ ४ ॥

ओं वां,
वाहनं वृषभो यस्य वासुकिः कण्ठभूषणम् ।
वामे शक्तिधरं देवं वकाराय नमो नमः ॥ ५ ॥

ओं यं,
यकारे संस्थितो देवो यकारं परमं शुभम् ।
यं नित्यं परमानन्दं यकाराय नमो नमः ॥ ६ ॥

यः क्षीराम्बुधि मन्थनोद्भव महाहालाहलं भीकरं
दृष्ट्वा तत्रपलायितास्सुरगणान्नारायणादीन्तदा ।
सम्पीत्वा परिपालयज्जगदिदं विश्वाधिकं शङ्करं
सेव्यो नस्सकलापदां परिहरन्कैलासवासी विभुः ॥ ७ ॥

षडक्षरमिदं स्तोत्रं यः पठेच्छिवसन्निधौ ।
तस्य मृत्युभयं नास्ति ह्यपमृत्युभयं कुतः ॥ ८ ॥

यत्कृत्यं तन्नकृतं
यदकृत्यं कृत्यवत्तदाचरितम् ।
उभयोः प्रायश्चित्तं
शिव तव नामाक्षरद्वयोच्चरितम् ॥ ९ ॥

शिवशिवेति शिवेति शिवेति वा
भवभवेति भवेति भवेति वा ।
हरहरेति हरेति हरेति वा
भजमनश्शिवमेव निरन्तरम् ॥ १० ॥

इति श्रीमच्छङ्करचार्यकृत शिवषडक्षरीस्तोत्रं सम्पूर्णम् ।


इतर श्री शिव स्तोत्राणि पश्यतु ।


మా తదుపరి ప్రచురణ: తెలుగు తాత్పర్యాలతో "శ్రీ బగళాముఖీ స్తోత్రనిధి" పుస్తకము ముద్రించుటకు ఆలోచన చేయుచున్నాము.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed