Mooka panchasati – Arya satakam (1) : मूकपञ्चशति – १ – आर्याशतकम्

कारणपरचिद्रूपा काञ्चीपुरसीम्नि कामपीठगता ।
काचन विहरति करुणा काश्मीरस्तबककोमलाङ्गलता ॥ १ ॥

कञ्चन काञ्चीनिलयं करधृतकोदण्डबाणसृणिपाशं ।
कठिनस्तनभरनम्रं कैवल्यानन्दकन्दमवलम्बे ॥ २ ॥

चिन्तितफलपरिपोषणचिन्तामणिरेव काञ्चिनिलया मे ।
चिरतरसुचरितसुलभा चित्तं शिशिरयतु चित्सुखाधारा ॥ ३ ॥

कुटिलकचं कठिनकुचं कुन्दस्मितकान्ति कुङ्कुमच्छायं ।
कुरुते विहृतिं काञ्च्यां कुलपर्वतसार्वभौमसर्वस्वम् ॥ ४ ॥

पञ्चशरशास्त्रबोधनपरमाचार्येण दृष्टिपातेन ।
काञ्चीसीम्नि कुमारी काचन मोहयति कामजेतारम् ॥ ५ ॥

परया काञ्चीपुरया पर्वतपर्यायपीनकुचभरया ।
परतन्त्रा वयमनया पङ्कजसब्रह्मचारिलोचनया ॥ ६ ॥

ऐश्वर्यमिन्दुमौलेरैकात्म्यप्रकृति काञ्चिमध्यगतं ।
ऐन्दवकिशोरशेखरमैदम्पर्यं चकास्ति निगमानाम् ॥ ७ ॥

श्रितकम्पासीमानं शिथिलितपरमशिवधैर्यमहिमानं ।
कलये पाटलिमानं कञ्चन कञ्चुकितभुवनभूमानम् ॥ ८ ॥

आदृतकाञ्चीनिलयामाद्यामारूढयौवनाटोपाम् ।
आगमवतंसकलिकामानन्दाद्वैतकन्दलीं वन्दे ॥ ९ ॥

तुङ्गाभिरामकुचभरशृङ्गारितमाश्रयामि काञ्चिगतम् ।
गङ्गाधरपरतन्त्रं शृङ्गाराद्वैततन्त्रसिद्धान्तम् ॥ १० ॥

काञ्चीरत्नविभूषां कामपि कन्दर्पसूतिकापाङ्गीम् ।
परमां कलामुपासे परशिववामाङ्कपीठिकासीनाम् ॥ ११ ॥

कम्पातीरचराणां करुणाकोरकितदृष्टिपातानाम् ।
केलीवनं मनो मे केषाञ्चिद्भवतु चिद्विलासानाम् ॥ १२ ॥

आम्रतरुमूलवसतेरादिमपुरुषस्य नयनपीयूषम् ।
आरब्धयौवनोत्सवमाम्नायरहस्यमन्तरवलम्बे ॥ १३ ॥

अधिकाञ्चि परमयोगिभिरादिमपरपीठसीम्नि दृश्येन ।
अनुबद्धं मम मानसमरुणिमसर्वस्वसम्प्रदायेन ॥ १४ ॥

अङ्कितशङ्करदेहामङ्कुरितोरोजकङ्कणाश्लेषैः ।
अधिकाञ्चि नित्यतरुणीमद्राक्षं काञ्चिदद्भुतां बालाम् ॥ १५ ॥

मधुरधनुषा महीधरजनुषा नन्दामि सुरभिबाणजुषा ।
चिद्वपुषा काञ्चिपुरे केलिजुषा बन्धुजीवकान्तिमुषा ॥ १६ ॥

मधुरस्मितेन रमते मांसलकुचभारमन्दगमनेन ।
मध्येकाञ्चि मनो मे मनसिजसाम्राज्यगर्वबीजेन ॥ १७ ॥

धरणिमयीं तरणिमयीं पवनमयीं गगनदहनहोतृमयीम् ।
अम्बुमयीमिन्दुमयीमम्बामनुकम्पमादिमामीक्षे ॥ १८ ॥

लीनस्थितिमुनिहृदये ध्यानस्तिमितं तपस्यदुपकम्पम् ।
पीनस्तनभरमीडे मीनध्वजतन्त्रपरमतात्पर्यम् ॥ १९ ॥

श्वेता मन्थरहसिते शाता मध्ये च वाङ्मनोऽतीता ।
शीता लोचनपाते स्फीता कुचसीम्नि शाश्वती माता ॥ २० ॥

पुरतः कदानुकरवै पुरवैरिविमर्दपुलकिताङ्गलताम् ।
पुनतीं काञ्चीदेशं पुष्पायुधवीर्यसरसपरिपाटीम् ॥ २१ ॥

पुण्या काऽपि पुरन्ध्री पुङ्खितकन्दर्पसम्पदा वपुषा ।
पुलिनचरी कम्पायाः पुरमथनं पुलकनिचुलितं कुरुते ॥ २२ ॥

तनिमाद्वैतवलग्नं तरुणारुणसम्प्रदायतनुलेखम् ।
तटसीमनि कम्पायास्तरुणिमसर्वस्वमाद्यमद्राक्षम् ॥ २३ ॥

पौष्टिककर्मविपाकं पौष्पशरं सविधसीम्नि कम्पायाः ।
अद्राक्षमात्तयौवनमभ्युदयं कञ्चिदर्धशशिमौलेः ॥ २४ ॥

संश्रितकाञ्चीदेशे सरसिजदौर्भाग्यजाग्रदुत्तंसे ।
संविन्मये विलीये सारस्वतपुरुषकारसाम्राज्ये ॥ २५ ॥

मोदितमधुकरविशिखं स्वादिमसमुदायसारकोदण्डम् ।
आदृतकाञ्चीखेलनमादिममारुण्यभेदमाकलये ॥ २६ ॥

उररीकृतकाञ्चिपुरीमुपनिषदरविन्दकुहरमधुधाराम् ।
उन्नम्रस्तनकलशीमुत्सवलहरीमुपास्महे शम्भोः ॥ २७ ॥

एणशिशुदीर्घलोचनमेनःपरिपन्थि सन्ततं भजताम् ।
एकाम्रनाथजीवितमेवम्पददूरमेकमवलम्बे ॥ २८ ॥

स्मयमानमुखं काञ्चीमयमानं कमपि देवताभेदम् ।
दयमानं वीक्ष्यमुहुर्वयमानन्दामृताम्बुधौ मग्नाः ॥ २९ ॥

कुतुकजुषि काञ्चिदेशे कुमुदतपोराशिपाकशेखरिते ।
कुरुते मनोविहारं कुलगिरिपरिबृढकुलैकमणिदीपे ॥ ३० ॥

वीक्षेमहि काञ्चिपुरे विपुलस्तनकलशगरिमपरवशितम् ।
विद्रुमसहचरदेहं विभ्रमसमवायसारसन्नाहम् ॥ ३१ ॥

कुरुविन्दगोत्रगात्रं कूलचरं कमपि नौमि कम्पायाः ।
कूलङ्कषकुचकुम्भं कुसुमायुधवीर्यसारसंरम्भम् ॥ ३२ ॥

कुट्मलितकुचकिशोरैः कुर्वाणैः काञ्चिदेशसौहार्दम् ।
कुङ्कुमशोणैर्निचितं कुशलपथं शम्भुसुकृतसम्भारैः ॥ ३३ ॥

अङ्कितकचेन केनचिदन्धङ्करणौषधेन कमलानाम् ।
अन्तःपुरेण शम्भोरलङ्क्रिया काऽपि कल्प्यते काञ्च्याम् ॥ ३४ ॥

ऊरीकरोमि सन्ततमूष्मलफालेन लालितं पुंसा ।
उपकम्पमुचितखेलनमुर्वीधरवंशसम्पदुन्मेषम् ॥ ३५ ॥

अङ्कुरितस्तनकोरकमङ्कालङ्कारमेकचूतपतेः ।
आलोकेमहि कोमलमागमसल्लापसारयाथार्थ्यम् ॥ ३६ ॥

पुञ्जितकरुणमुदञ्चितशिञ्जितमणिकाञ्चि किमपि काञ्चिपुरे ।
मञ्जरितमृदुलहासं पिञ्जरतनुरुचि पिनाकिमूलधनम् ॥ ३७ ॥

लोलहृदयोऽस्मि शम्भोर्लोचनयुगलेन लेह्यमानायाम् ।
लालितपरमशिवायां लावण्यामृततरङ्गमालायाम् ॥ ३८ ॥

मधुकरसहचरचिकुरैर्मदनागमसमयदीक्षितकटाक्षैः ।
मण्डितकम्पातीरैः मङ्गलकन्दैर्ममास्तु सारूप्यम् ॥ ३९ ॥

वदनारविन्दवक्षोवामाङ्कतटीवशंवदीभूता ।
पूरुषत्रितये त्रेधा पुरन्ध्रिरूपा त्वमेव कामाक्षि ॥ ४० ॥

बाधाकरीं भवाब्धेराधाराद्यम्बुजेषु विचरन्तीम् ।
आधारीकृतकाञ्चीं बोधामृतवीचिमेव विमृशामः ॥ ४१ ॥

कलयाम्यन्तः शशधरकलयाऽङ्कितमौलिममलचिद्वलयाम् ।
अलयामागमपीठीनिलयां वलयाङ्कसुन्दरीमम्बाम् ॥ ४२ ॥

शर्वादिपरमसाधकगुर्वानीताय कामपीठजुषे ।
सर्वाकृतये शोणिमगर्वायास्मै समर्प्यते हृदयम् ॥ ४३ ॥

समया सान्ध्यमयूखैः समया बुद्ध्या सदैव शीलितया ।
उमया काञ्चीरतया न मया लभ्यत किं नु तादात्म्यम् ॥ ४४ ॥

जन्तोस्तव पदपूजनसन्तोषतरङ्गितस्य कामाक्षि ।
बन्धो यदि भवति पुनः सिन्धोरम्भस्सुबम्भ्रमीति शिला ॥ ४५ ॥

कुण्डलि कुमारि कुटिले चण्डि चराचरसवित्रि चामुण्डे ।
गुणिनि गुहारिणि गुह्ये गुरुमूर्ते त्वां नमामि कामाक्षि ॥ ४६ ॥

अभिदाकृतिर्भिदाकृतिरचिदाकृतिरपि चिदाकृतिर्मातः ।
अनहन्ता त्वमहन्ता भ्रमयसि कामाक्षि शाश्वती विश्वम् ॥ ४७ ॥

शिव शिव पश्यन्ति समं श्रीकामाक्षीकटाक्षिताः पुरुषाः ।
विपिनं भवनममित्रं मित्रं लोष्टं च युवतिबिम्बोष्ठम् ॥ ४८ ॥

कामपरिपन्थिकामिनि कामेश्वरि कामपीठमध्यगते ।
कामदुघा भव कमले कामकले कामकोटि कामाक्षि ॥ ४९ ॥

मध्येहृदयं मध्येनिटिलं मध्येशिरोऽपि वास्तव्याम् ।
चण्डकरशक्रकार्मुकचन्द्रसमाभां नमामि कामाक्षीम् ॥ ५० ॥

अधिकाञ्चि केलिलोलैरखिलागमयन्त्रमन्त्रतन्त्रमयैः ।
अतिशीतं मम मानसमसमशरद्रोहिजीवनोपायैः ॥ ५१ ॥

नन्दति मम हृदि काचन मन्दिरयन्ती निरन्तरं काञ्चीम् ।
इन्दुरविमण्डलकुचा बिन्दुवियन्नादपरिणता तरुणी ॥ ५२ ॥

शम्पालतासवर्णं सम्पादयितुं भवज्वरचिकित्साम् ।
लिम्पामि मनसि किञ्चन कम्पातटरोहि सिद्धभैषज्यम् ॥ ५३ ॥

अनुमितकुचकाठिन्यामधिवक्षःपीठमङ्गजन्मरिपोः ।
आनन्ददां भजे तामानङ्गब्रह्मतत्वबोधसिराम् ॥ ५४ ॥

ऐक्षिषि पाशाङ्कुशधरहस्तान्तं विस्मयार्हवृत्तान्तम् ।
अधिकाञ्चि निगमवाचां सिद्धान्तं शूलपाणिशुद्धान्तम् ॥ ५५ ॥

आहितविलासभङ्गीमाब्रह्मस्तम्बशिल्पकल्पनया ।
आश्रितकाञ्चीमतुलामाद्यां विस्फूर्तिमाद्रिये विद्याम् ॥ ५६ ॥

मूकोऽपि जटिलदुर्गतिशोकोऽपि स्मरति यः क्षणं भवतीम् ।
एको भवति स जन्तुर्लोकोत्तरकीर्तिरेव कामाक्षि ॥ ५७ ॥

पञ्चदशवर्णरूपं कञ्चन काञ्चीविहारधौरेयम् ।
पञ्चशरीयं शम्भोर्वञ्चनवैदग्ध्यमूलमवलम्बे ॥ ५८ ॥

परिणतिमतीं चतुर्धा पदवीं सुधियां समेत्य सौषुम्नीम् ।
पञ्चाशदर्णकल्पितमदशिल्पां त्वां नमामि कामाक्षि ॥ ५९ ॥

आदिक्षन्मम गुरुराडादिक्षान्ताक्षरात्मिकां विद्याम् ।
स्वादिष्ठचापदण्डां नेदिष्ठामेव कामपीठगताम् ॥ ६० ॥

तुष्यामि हर्षितस्मरशासनया काञ्चिपुरकृतासनया ।
स्वासनया सकलजगद्भासनया कलितशम्बरासनया ॥ ६१ ॥

प्रेमवती कम्पायां स्थेमवती यतिमनस्सु भूमवती ।
सामवती नित्यगिरा सोमवती शिरसि भाति हैमवती ॥ ६२ ॥

कौतुकिना कम्पायां कौसुमचापेन कीलितेनान्तः ।
कुलदैवतेन महता कुट्मलमुद्रां धुनोतु नःप्रतिभा ॥ ६३ ॥

यूना केनापि मिलद्देहा स्वाहासहायतिलकेन ।
सहकारमूलदेशे संविद्रूपा कुटुम्बिनी रमते ॥ ६४ ॥

कुसुमशरगर्वसम्पत्कोशगृहं भाति काञ्चिदेशगतम् ।
स्थापितमस्मिन्कथमपि गोपितमन्तर्मया मनोरत्नम् ॥ ६५ ॥

दग्धषडध्वारण्यं दरदलितकुसुम्भसम्भृतारुण्यम् ।
कलये नवतारुण्यं कम्पातटसीम्नि किमपि कारुण्यम् ॥ ६६ ॥

अधिकाञ्चि वर्धमानामतुलां करवाणि पारणामक्ष्णोः ।
आनन्दपाकभेदामरुणिमपरिणामगर्वपल्लविताम् ॥ ६७ ॥

बाणसृणिपाशकार्मुकपाणिममुं कमपि कामपीठगतम् ।
एणधरकोणचूडं शोणिमपरिपाकभेदमाकलये ॥ ६८ ॥

किं वा फलति ममान्यैर्बिम्बाधरचुम्बिमन्दहासमुखी ।
सम्बाधकरी तमसामम्बा जागर्ति मनसि कामाक्षी ॥ ६९ ॥

मञ्चे सदाशिवमये परिशिवमयललितपौष्पपर्यङ्के ।
अधिचक्रमध्यमास्ते कामाक्षी नाम किमपि मम भाग्यम् ॥ ७० ॥

रक्ष्योऽस्मि कामपीठीलासिकया घनकृपाम्बुराशिकया ।
श्रुतियुवतिकुन्तलीमणिमालिकया तुहिनशैलबालिकया ॥ ७१ ॥

लीये पुरहरजाये माये तव तरुणपल्लवच्छाये ।
चरणे चन्द्राभरणे काञ्चीशरणे नतार्तिसंहरणे ॥ ७२ ॥

मूर्तिमति मुक्तिबीजे मूर्ध्नि स्तबकितचकोरसाम्राज्ये ।
मोदितकम्पाकूले मुहुर्मुहुर्मनसि मुमुदिषाऽस्माकम् ॥ ७३ ॥

वेदमयीं नादमयीं बिन्दुमयीं परपदोद्यदिन्दुमयीम् ।
मन्त्रमयीं तन्त्रमयीं प्रकृतिमयीं नौमि विश्वविकृतिमयीम् ॥ ७४ ॥

पुरमथनपुण्यकोटी पुञ्जितकविलोकसूक्तिरसधाटी ।
मनसि मम कामकोटी विहरतु करुणाविपाकपरिपाटी ॥ ७५ ॥

कुटिलं चटुलं पृथुलं मृदुलं कचनयनजघनचरणेषु ।
अवलोकितमवलम्बितमधिकम्पातटममेयमस्माभिः ॥ ७६ ॥

प्रत्यङ्मुख्या दृष्ट्या प्रसाददीपाङ्कुरेण कामाक्ष्याः ।
पश्यामि निस्तुलमहो पचेलिमं कमपि परशिवोल्लासम् ॥ ७७ ॥

विद्ये विधातृविषये कात्यायनि कालि कामकोटिकले ।
भारति भैरवि भद्रे शाकिनि शाम्भवि शिवे स्तुवे भवतीम् ॥ ७८ ॥

मालिनि महेशचालिनि काञ्चीखेलिनि विपक्षकालिनि ते ।
शूलिनि विद्रुमशालिनि सुरजनपालिनि कपालिनि नमोऽस्तु ॥ ७९ ॥

देशिक इति किं शङ्के तत्तादृक्तव नु तरुणिमोन्मेषः ।
कामाक्षि शूलपाणेः कामागमसमयतन्त्रदीक्षायाम् ॥ ८० ॥

वेतण्डकुम्भडम्बरवैतण्डिककुचभरार्तमध्याय ।
कुङ्कुमरुचे नमस्यां शङ्करनयनामृताय रचयामः ॥ ८१ ॥

अधिकाञ्चितमणिकाञ्चनकाञ्चीमधिकाञ्चि काञ्चिदद्राक्षम् ।
अवनतजनानुकम्पामनुकम्पाकूलमस्मदनुकूलाम् ॥ ८२ ॥

परिचितकम्पातीरं पर्वतराजन्यसुकृतसन्नाहम् ।
परगुरुकृपया वीक्षे परमशिवोत्सङ्गमङ्गलाभरणम् ॥ ८३ ॥

दग्धमदनस्य शम्भोः प्रथीयसीं ब्रह्मचर्यवैदग्धीम् ।
तव देवि तरुणिमश्रीचतुरिमपाको न चक्षमे मातः ॥ ८४ ॥

मदजलतमालपत्रा वसनितपत्रा करादृतखानित्रा ।
विहरति पुलिन्दयोषा गुञ्जाभूषा फणीन्द्रकृतवेषा ॥ ८५ ॥

अङ्के शुकिनी गीते कौतुकिनी परिसरे च गायकिनी ।
जयसि सविधेऽम्ब भैरवमण्डलिनी श्रवसि शङ्खकुण्डलिनी ॥ ८६ ॥

प्रणतजनतापवर्गा कृतबहुसर्गा ससिंहसंसर्गा ।
कामाक्षि मुदितभर्गा हतरिपुवर्गा त्वमेव सा दुर्गा ॥ ८७ ॥

श्रवणचलद्वेतण्डा समरोद्दण्डा धुतासुरशिखण्डा ।
देवि कलितान्त्रषण्डा धृतनरमुण्डा त्वमेव चामुण्डा ॥ ८८ ॥

उर्वीधरेन्द्रकन्ये दर्वीभरितेन भक्तपूरेण ।
गुर्वीमकिञ्चनार्तिं खर्वीकुरुषे त्वमेव कामाक्षि ॥ ८९ ॥

ताडितरिपुपरिपीडनभयहरण निपुणहलमुसला ।
क्रोडपतिभीषणमुखी क्रीडसि जगति त्वमेव कामाक्षि ॥ ९० ॥

स्मरमथनवरणलोला मन्मथहेलाविलासमणिशाला ।
कनकरुचिचौर्यशीला त्वमम्ब बाला कराब्जधृतमाला ॥ ९१ ॥

विमलपटी कमलकुटी पुस्तकरुद्राक्षशस्तहस्तपुटी ।
कामाक्षि पक्ष्मलाक्षी कलितविपञ्ची विभासि वैरिञ्ची ॥ ९२ ॥

कुङ्कुमरुचिपिङ्गमसृक्पङ्किलमुण्डालिमण्डितं मातः ।
जयति तव रूपधेयं जपपटपुस्तकवराभयकराब्जम् ॥ ९३ ॥

कनकमणिकलितभूषां कालायसकलहशीलकान्तिकलाम् ।
कामाक्षि शीलये त्वां कपालशूलाभिरामकरकमलाम् ॥ ९४ ॥

लोहितिमपुञ्जमध्ये मोहितभुवने मुदा निरीक्षन्ते ।
वदनं तव कुचयुगलं काञ्चीसीमां च केऽपि कामाक्षि ॥ ९५ ॥

जलधिद्विगुणितहुतवहदिशादिनेश्वरकलाश्विनेयदलैः ।
नलिनैर्महेशि गच्छसि सर्वोत्तरकरकमलदलममलम् ॥ ९६ ॥

सत्कृतदेशिकचरणाः सबीजनिर्बीजयोगनिश्श्रेण्या ।
अपवर्गसौधवलभीमारोहन्त्यम्ब केऽपि तव कृपया ॥ ९७ ॥

अन्तरपि बहिरपि त्वं जन्तुततेरन्तकान्तकृदहन्ते ।
चिन्तितसन्तानवतां सन्ततमपि तन्तनीषि महिमानम् ॥ ९८ ॥

कलमञ्जुलवागनुमितगलपञ्जरगतशुकग्रहौत्कण्ठ्यात् ।
अम्ब रदनाम्बरं ते बिम्बफलं शम्बरारिणा न्यस्तम् ॥ ९९ ॥

जय जय जगदम्ब शिवे जय जय कामाक्षि जय जयाद्रिसुते ।
जय जय महेशदयिते जय जय चिद्गगनकौमुदीधारे ॥ १०० ॥

आर्याशतकं भक्त्या पठतामार्याकृपाकटाक्षेण ।
निस्सरति वदनकमलाद्वाणी पीयूषधोरणी दिव्या ॥ १०१ ॥

Facebook Comments

You may also like...

Leave a Reply

Your email address will not be published.

error: Not allowed
%d bloggers like this: