Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
अस्य श्रीहंसगायत्री स्तोत्रमहामन्त्रस्य अव्यक्तपरब्रह्म ऋषिः अव्यक्त गायत्री छन्दः, परमहंसो देवता, हंसां बीजं, हंसीं शक्तिः, हंसूं कीलकं, परमहंस प्रसादसिद्ध्यर्थे जपे विनियोगः ॥
करन्यासः –
हंसां अङ्गुष्ठाभ्यां नमः ॥
हंसीं तर्जनीभ्यां नमः ॥
हंसूं मध्यमाभ्यां नमः ॥
हंसैं अनामिकाभ्यां नमः ॥
हंसौं कनिष्ठिकाभ्यां नमः ॥
हंसः करतलकरपृष्ठाभ्यां नमः ॥
हृदयादिन्यासः –
हंसां हृदयाय नमः ॥
हंसीं शिरसे स्वाहा ॥
हंसूं शिखायै वषट् ॥
हंसैं कवचाय हुम् ॥
हंसौं नेत्रत्रयाय वौषट् ।
हंसः अस्त्राय फट् ॥
भूर्भुवस्सुवरोमिति दिग्बन्धः ।
ध्यानम् –
गमागमस्थं गमनादिशून्यं
चिद्रूपदीपं तिमिरापहारम् ।
पश्यामि ते सर्वजनान्तरस्थं
नमामि हंसं परमात्मरूपम् ॥
देहो देवालयः प्रोक्तो जीवो देवः सनातनः ।
त्यजेदज्ञाननिर्माल्यं सोऽहंभावेन पूजयेत् ॥
मनुः –
हंसहंसः प॑रमहं॒सः सो॑ऽहं हं॒सः सो॑ऽहं हं॒सः ॥
गायत्री –
हं॒स॒ हं॒साय॑ वि॒द्महे॑ परमहं॒साय॑ धीमहि ।
तन्नो॑ हंसः प्रचो॒दया᳚त् ॥
(* भूर्भुवस्सुवरोमिति दिग्विमोकः । *)
हंस हंसेति यो ब्रूयाद्धंसोनाम सदाशिवः ।
एवं न्यासविधिं कृत्वा ततः संपुटमारभेत् ॥
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.