Kishkindha Kanda Sarga 29 – किष्किन्धाकाण्ड एकोनत्रिंशः सर्गः (२९)



॥ हनुमत्प्रतिबोधनम् ॥

समीक्ष्य विमलं व्योम गतविद्युद्बलाहकम् ।
सारसारवसङ्घुष्टं रम्यज्योत्स्नानुलेपनम् ॥ १ ॥

समृद्धार्थं च सुग्रीवं मन्दधर्मार्थसङ्ग्रहम् ।
अत्यर्थमसतां मार्गमेकान्तगतमानसम् ॥ २ ॥

निर्वृत्तकार्यं सिद्धार्थं प्रमदाभिरतं सदा ।
प्राप्तवन्तमभिप्रेतान् सर्वानेव मनोरथान् ॥ ३ ॥

स्वां च पत्नीमभिप्रेतां तारां चापि समीप्सिताम् ।
विहरन्तमहोरात्रं कृतार्थं विगतज्वरम् ॥ ४ ॥

क्रीडन्तमिव देवेन्द्रं नन्दनेऽप्सरसां गणैः ।
मन्त्रिषु न्यस्तकार्यं च मन्त्रिणामनवेक्षकम् ॥ ५ ॥

उत्सन्नराज्यसन्देहं कामवृत्तमवस्थितम् ।
निश्चितार्थोऽर्थतत्त्वज्ञः कालधर्मविशेषवित् ॥ ६ ॥

प्रसाद्य वाक्यैर्मधुरैर्हेतुमद्भिर्मनोरमैः ।
वाक्यविद्वाक्यतत्त्वज्ञं हरीशं मारुतात्मजः ॥ ७ ॥

हितं तत्त्वं च पथ्यं च सामधर्मार्थनीतिमत् ।
प्रणयप्रीतिसम्युक्तं विश्वासकृतनिश्चयम् ॥ ८ ॥

हरीश्वरमुपागम्य हनुमान् वाक्यमब्रवीत् ।
राज्यं प्राप्तं यशश्चैव कौली श्रीरपि वर्धिता ॥ ९ ॥

मित्राणां सङ्ग्रहः शेषस्तं भवान् कर्तुमर्हति ।
यो हि मित्रेषु कालज्ञः सततं साधु वर्तते ॥ १० ॥

तस्य राज्यं च कीर्तिश्च प्रतापश्चाभिवर्धते ।
यस्य कोशश्च दण्डश्च मित्राण्यात्मा च भूमिप ॥ ११ ॥

समवेतानि सर्वाणि स राज्यं महदश्नुते ।
तद्भवान् वृत्तसम्पन्नः स्थितः पथि निरत्यये ॥ १२ ॥

मित्रार्थमभिनीतार्थं यथावत्कर्तुमर्हति ।
सन्त्यज्य सर्वकर्माणि मित्रार्थे योऽनुवर्तते ॥ १३ ॥

सम्भ्रमाद्धि कृतोत्साहः सोऽनर्थैर्नावरुध्यते ।
यस्तु कालव्यतीतेषु मित्रकार्येषु वर्तते ॥ १४ ॥

स कृत्वा महतोऽप्यर्थान्न मित्रार्थेन युज्यते ।
यदिदं वीर कार्यं नो मित्रकार्यमरिन्दम ॥ १५ ॥

क्रियतां राघवस्यैतद्वैदेह्याः परिमार्गणम् ।
न च कालमतीतं ते निवेदयति कालवित् ॥ १६ ॥

त्वरमाणोऽपि सन् प्राज्ञस्तव राजन् वशानुगः ।
कुलस्य हेतुः स्फीतस्य दीर्घबन्धुश्च राघवः ॥ १७ ॥

अप्रमेयप्रभावश्च स्वयं चाप्रतिमो गुणैः ।
तस्य त्वं कुरु वै कार्यं पूर्वं तेन कृतं तव ॥ १८ ॥

हरीश्वर हरिश्रेष्ठानाज्ञापयितुमर्हसि ।
न हि तावद्भवेत्कालो व्यतीतश्चेदनादृते ॥ १९ ॥

चोदितस्य हि कार्यस्य भवेत्कालव्यतिक्रमः ।
अकर्तुरपि कार्यस्य भवान् कर्ता हरीश्वर ॥ २० ॥

किं पुनः प्रतिकर्तुस्ते राज्येन च धनेन च ।
शक्तिमानपि विक्रान्तो वानरर्क्षगणेश्वर ॥ २१ ॥

कर्तुं दाशरथेः प्रीतिमाज्ञायां किं न सज्जसे ।
कामं खलु शरैः शक्तः सुरासुरमहोरगान् ॥ २२ ॥

वशे दाशरथिः कर्तुं त्वत्प्रतिज्ञां तु काङ्क्षते ।
प्राणत्यागाविशङ्केन कृतं तेन तव प्रियम् ॥ २३ ॥

तस्य मार्गाम वैदेहीं पृथिव्यामपि चाम्बरे ।
न देवा न च गन्धर्वा नासुरा न मरुद्गणाः ॥ २४ ॥

न च यक्षा भयं तस्य कुर्युः किमुत राक्षसाः ।
तदेवं शक्तियुक्तस्य पूर्वं प्रियकृतस्तव ॥ २५ ॥

रामस्यार्हसि पिङ्गेश कर्तुं सर्वात्मना प्रियम् ।
नाधस्तादवनौ नाप्सु गतिर्नोपरि चाम्बरे ॥ २६ ॥

कस्यचित्सज्जतेऽस्माकं कपीश्वर तवाज्ञया ।
तदाज्ञापय कः किं ते कृते कुत्र व्यवस्यतु ॥ २७ ॥

हरयो ह्यप्रधृष्यास्ते सन्ति कोट्यग्रतोऽनघाः ।
तस्य तद्वचनं श्रुत्वा काले साधु निवेदितम् ॥ २८ ॥

सुग्रीवः सत्त्वसम्पन्नश्चकार मतिमुत्तमाम् ।
स सन्दिदेशाभिमतं नीलं नित्यकृतोद्यमम् ॥ २९ ॥

दिक्षु सर्वासु सर्वेषां सैन्यानामुपसङ्ग्रहे ।
यथा सेना समग्रा मे यूथपालाश्च सर्वशः ॥ ३० ॥

समागच्छन्त्यसङ्गेन सेनाग्राणि तथा कुरु ।
ये त्वन्तपालाः प्लवगाः शीघ्रगा व्यवसायिनः ॥ ३१ ॥

समानयन्तु ते सैन्यं त्वरिताः शासनान्मम ।
स्वयं चानन्तरं सैन्यं भवानेवानुपश्यतु ॥ ३२ ॥

त्रिपञ्चरात्रादूर्ध्वं यः प्राप्नुयान्नेह वानरः ।
तस्य प्राणान्तिको दण्डो नात्र कार्या विचारणा ॥ ३३ ॥

हरींश्च वृद्धानुपयातु साङ्गदो
भवान्ममाज्ञामधिकृत्य निश्चिताम् ।
इति व्यवस्थां हरिपुङ्गवेश्वरो
विधाय वेश्म प्रविवेश वीर्यवान् ॥ ३४ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे एकोनत्रिंशः सर्गः ॥ २९ ॥


सम्पूर्ण वाल्मीकि रामायणे किष्किन्धकाण्ड पश्यतु ।


మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed