Kanakadhara Stotram in Sanskrit – कनकधारा स्तोत्रम्


वन्दे वन्दारु मन्दारमिन्दिरानन्दकन्दलम् ।
अमन्दानन्दसन्दोह बन्धुरं सिन्धुराननम् ॥

अङ्गं हरेः पुलकभूषणमाश्रयन्ती
भृङ्गाङ्गनेव मुकुलाभरणं तमालम् ।
अङ्गीकृताखिलविभूतिरपाङ्गलीला
माङ्गल्यदास्तु मम मङ्गलदेवतायाः ॥ १ ॥

मुग्धा मुहुर्विदधती वदने मुरारेः
प्रेमत्रपाप्रणिहितानि गतागतानि ।
मालादृशोर्मधुकरीव महोत्पले या
सा मे श्रियं दिशतु सागरसम्भवायाः ॥ २ ॥

विश्वामरेन्द्रपदविभ्रमदानदक्ष-
-मानन्दहेतुरधिकं मुरविद्विषोऽपि ।
ईषन्निषीदतु मयि क्षणमीक्षणार्थ-
-मिन्दीवरोदरसहोदरमिन्दिरायाः ॥ ३ ॥

आमीलिताक्षमधिगम्य मुदा मुकुन्द-
-मानन्दकन्दमनिमेषमनङ्गतन्त्रम् ।
आकेकरस्थितकनीनिकपक्ष्मनेत्रं
भूत्यै भवेन्मम भुजङ्गशयाङ्गनायाः ॥ ४ ॥

बाह्वन्तरे मधुजितः श्रितकौस्तुभे या
हारावलीव हरिनीलमयी विभाति ।
कामप्रदा भगवतोऽपि कटाक्षमाला
कल्याणमावहतु मे कमलालयायाः ॥ ५ ॥

कालाम्बुदालिललितोरसि कैटभारे-
-र्धाराधरे स्फुरति या तटिदङ्गनेव ।
मातुस्समस्तजगतां महनीयमूर्तिः
भद्राणि मे दिशतु भार्गवनन्दनायाः ॥ ६ ॥

प्राप्तं पदं प्रथमतः खलु यत्प्रभावा-
-न्माङ्गल्यभाजि मधुमाथिनि मन्मथेन ।
मय्यापतेत्तदिह मन्थरमीक्षणार्धं
मन्दालसं च मकरालयकन्यकायाः ॥ ७ ॥

दद्याद्दयानुपवनो द्रविणाम्बुधारा-
-मस्मिन्न किञ्चन विहङ्गशिशौ विषण्णे ।
दुष्कर्मघर्ममपनीय चिराय दूरं
नारायणप्रणयिनीनयनाम्बुवाहः ॥ ८ ॥

इष्टाविशिष्टमतयोऽपि यया दयार्द्र-
-दृष्ट्या त्रिविष्टपपदं सुलभं लभन्ते ।
दृष्टिः प्रहृष्टकमलोदरदीप्तिरिष्टां
पुष्टिं कृषीष्ट मम पुष्करविष्टरायाः ॥ ९ ॥

गीर्देवतेति गरुडध्वजसुन्दरीति
शाकम्भरीति शशिशेखरवल्लभेति ।
सृष्टिस्थितिप्रलयकेलिषु संस्थितायै
तस्यै नमस्त्रिभुवनैकगुरोस्तरुण्यै ॥ १० ॥

श्रुत्यै नमोऽस्तु शुभकर्मफलप्रसूत्यै
रत्यै नमोऽस्तु रमणीयगुणार्णवायै ।
शक्त्यै नमोऽस्तु शतपत्रनिकेतनायै
पुष्ट्यै नमोऽस्तु पुरुषोत्तमवल्लभायै ॥ ११ ॥

नमोऽस्तु नालीकनिभाननायै
नमोऽस्तु दुग्धोदधिजन्मभूम्यै ।
नमोऽस्तु सोमामृतसोदरायै
नमोऽस्तु नारायणवल्लभायै ॥ १२ ॥

[* अधिक श्लोकाः –
नमोऽस्तु हेमाम्बुजपीठिकायै
नमोऽस्तु भूमण्डलनायिकायै ।
नमोऽस्तु देवादिदयापरायै
नमोऽस्तु शार्ङ्गायुधवल्लभायै ॥

नमोऽस्तु देव्यै भृगुनन्दनायै
नमोऽस्तु विष्णोरुरसिस्थितायै ।
नमोऽस्तु लक्ष्म्यै कमलालयायै
नमोऽस्तु दामोदरवल्लभायै ॥

नमोऽस्तु कान्त्यै कमलेक्षणायै
नमोऽस्तु भूत्यै भुवनप्रसूत्यै ।
नमोऽस्तु देवादिभिरर्चितायै
नमोऽस्तु नन्दात्मजवल्लभायै ॥
*]

सम्पत्कराणि सकलेन्द्रियनन्दनानि
साम्राज्यदानविभवानि सरोरुहाक्षि ।
त्वद्वन्दनानि दुरिताहरणोद्यतानि
मामेव मातरनिशं कलयन्तु मान्ये ॥ १३ ॥

यत्कटाक्षसमुपासनाविधिः
सेवकस्य सकलार्थसम्पदः ।
सन्तनोति वचनाङ्गमानसै-
-स्त्वां मुरारिहृदयेश्वरीं भजे ॥ १४ ॥

सरसिजनिलये सरोजहस्ते
धवलतमांशुकगन्धमाल्यशोभे ।
भगवति हरिवल्लभे मनोज्ञे
त्रिभुवनभूतिकरि प्रसीद मह्यम् ॥ १५ ॥

दिग्घस्तिभिः कनककुम्भमुखावसृष्ट-
-स्वर्वाहिनीविमलचारुजलप्लुताङ्गीम् ।
प्रातर्नमामि जगतां जननीमशेष-
-लोकाधिनाथगृहिणीममृताब्धिपुत्रीम् ॥ १६ ॥

कमले कमलाक्षवल्लभे त्वं
करुणापूरतरङ्गितैरपाङ्गैः ।
अवलोकय मामकिञ्चनानां
प्रथमं पात्रमकृत्रिमं दयायाः ॥ १७ ॥

[* अधिक श्लोकाः –
बिल्वाटवीमध्यलसत्सरोजे
सहस्रपत्रे सुखसन्निविष्टाम् ।
अष्टापदाम्भोरुहपाणिपद्मां
सुवर्णवर्णां प्रणमामि लक्ष्मीम् ॥

कमलासनपाणिना ललाटे
लिखितामक्षरपङ्क्तिमस्य जन्तोः ।
परिमार्जय मातरङ्घ्रिणा ते
धनिकद्वारनिवास दुःखदोग्ध्रीम् ॥

अम्भोरुहं जन्मगृहं भवत्याः
वक्षःस्थलं भर्तृगृहं मुरारेः ।
कारुण्यतः कल्पय पद्मवासे
लीलागृहं मे हृदयारविन्दम् ॥
*]

स्तुवन्ति ये स्तुतिभिरमूभिरन्वहं
त्रयीमयीं त्रिभुवनमातरं रमाम् ।
गुणाधिका गुरुतरभाग्यभाजिनो
भवन्ति ते भुवि बुधभाविताशयाः ॥ १८ ॥

[* अधिक श्लोकं –
सुवर्णधारास्तोत्रम् यच्छङ्कराचार्य निर्मितम् ।
त्रिसन्ध्यं यः पठेन्नित्यं स कुबेरसमो भवेत् ॥
*]

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ कनकधारास्तोत्रम् सम्पूर्णम् ।


इतर श्री लक्ष्मी स्तोत्राणि पश्यतु ।


Notes & References: Following variations are to be noticed.

  1. 18 Shloka version: The Works of Sri Sankaracharya, Sri Vani Vilas Edition – 1910, sringeri.net, Kamakoti.org Link-1, audio rendition by Sri Chaganti Koteswara Rao garu on YouTube.com from Sanatana Dharmam channel.
  2. 18 Shloka version (with a different sequence and without “vande vandaru” shloka): Kamakoti.org Link-2, sanskritdocuments.org. This variation is also available with us.
  3. 21 Shloka version (including 3 extra “namostu” shlokas): Audio renditions by Sri M.S.Subbulakshmi on YouTube.com from Saregama India Ltd and SVBC TTD Channel.
  4. 25 Shloka version (including 3 “namostu” shlokas, 3 extra “bilvatavi, kamalasana, ambhoruham” shlokas and 1 phalasruti shloka): PDF from SVBC TTD Channel, Audio rendition by Dr. Madugula Nagaphani Sharma garu in Avadhana Saraswati Peetam YouTube channel.

గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

2 thoughts on “Kanakadhara Stotram in Sanskrit – कनकधारा स्तोत्रम्

  1. The Phalashruti is available as the last shloka – Suvarnadhara stotram…..
    This states that whoever recites this shloka 3 times (as in early morning, noon and evening) a day becomes equivalent to Kubera himself.

Leave a Reply

error: Not allowed