Goda Chathusloki – गोदा चतुश्श्लोकी


नित्याभूषा निगमशिरसां निस्समोत्तुङ्गवार्ता
कान्तोयस्याः कचविलुलितैः कामुको माल्यरत्नैः ।
सूक्त्या यस्याः श्रुतिसुभगया सुप्रभाता धरित्री
सैषा देवी सकलजननी सिञ्चितान्मामपाङ्गैः ॥ १ ॥

माता चेत्तुलसी पिता यदि तव श्रीविष्णुचित्तो महान्
भ्राता चेद्यतिशेखरः प्रियतमः श्रीरङ्गधामा यदि ।
ज्ञातारस्तनयास्त्वदुक्ति सरसस्तन्येन संवर्धिताः
गोदादेवि! कथं त्वमन्य सुलभा साधारणा श्रीरसि ॥ २ ॥

कल्पदौ हरिणा स्वयं जनहितं दृष्टेन सर्वात्मनां
प्रोक्तं स्वस्यच कीर्तनं प्रपदनं स्वस्मै प्रसूनार्पणम् ।
सर्वेषां प्रकटं विधातुमनिशं श्रीधन्विनव्ये पुरे
जातां वैदिकविष्णुचित्त तनयां गोदामुदारां स्तुमः ॥ ३ ॥

आकूतस्य परिष्क्रियामनुपमामासेचनं चक्षुषोः
आनन्दस्य परम्परामनुगुणामारामशैलेशितुः ।
तद्दोर्मध्यकिरीट कोटिघटितस्वोच्छिष्टकस्तूरिका
माल्यामोदसमेधितात्म विभवां गोदा मुदारां स्तुमः ॥ ४ ॥

स्वोच्छिष्टमालिकाबन्धरजिष्णवे ।
विष्णु चित्त तनूजायै गोदायै नित्यमङ्गलं ॥ ५ ॥

मादृशाकिञ्चनत्राणबद्धकङ्कणपाणये ।
विष्णुचित्त तनूजायै गोदायै नित्यमङ्गलम् ॥ ६ ॥


इतर विविध स्तोत्राणि पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed