Devi Shatkam – देवी षट्कम्


अम्ब शशिबिम्बवदने कम्बुग्रीवे कठोरकुचकुम्भे ।
अम्बरसमानमध्ये शम्बररिपुवैरिदेवि मां पाहि ॥ १ ॥

कुन्दमुकुलाग्रदन्तां कुङ्कुमपङ्केन लिप्तकुचभारां ।
आनीलनीलदेहामम्बामखिलाण्डनायकीं वन्दे ॥ २ ॥

सरिगमपधनिसतान्तां वीणासङ्क्रान्तचारुहस्तां ताम् ।
शान्तां मृदुलस्वान्तां कुचभरतान्तां नमामि शिवकान्ताम् ॥ ३ ॥

अरटतटघटिकजूटीताडिततालीकपालताटङ्कां ।
वीणावादनवेलाकम्पितशिरसं नमामि मातङ्गीम् ॥ ४ ॥

वीणारसानुषङ्गं विकचमदामोदमाधुरीभृङ्गम् ।
करुणापूरितरङ्गं कलये मातङ्गकन्यकापाङ्गम् ॥ ५ ॥

दयमानदीर्घनयनां देशिकरूपेण दर्शिताभ्युदयाम् ।
वामकुचनिहितवीणां वरदां सङ्गीत मातृकां वन्दे ॥ ६ ॥

माणिक्यवीणा मुपलालयन्तीं मदालसां मञ्जुलवाग्विलासाम् ।
माहेन्द्रनीलद्युतिकोमलाङ्गीं मातङ्गकन्यां मनसा स्मरामि ॥ ७ ॥

इति श्रीकालिकायां देवीषट्कम् ॥


इतर देवी स्तोत्राणि पश्यतु ।


ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

Your email address will not be published.

error: Not allowed