Daridrya Dahana Shiva Stotram – दारिद्र्यदहन शिव स्तोत्रम्
Language : తెలుగు : ಕನ್ನಡ : தமிழ் : देवनागरी : English (IAST)
दारिद्र्यदहन शिव स्तोत्रम्
विश्वेश्वराय नरकार्णव तारणाय
कर्णामृताय शशिशेखरधारणाय ।
कर्पूरकान्तिधवलाय जटाधराय
दारिद्र्यदुःखदहनाय नमः शिवाय ॥ १ ॥
गौरीप्रियाय रजनीशकलाधराय
कालान्तकाय भुजगाधिपकङ्कणाय ।
गङ्गाधराय गजराजविमर्दनाय
दारिद्र्यदुःखदहनाय नमः शिवाय ॥ २ ॥
भक्तिप्रियाय भवरोगभयापहाय
उग्राय दुःखभवसागरतारणाय ।
ज्योतिर्मयाय गुणनामसुनृत्यकाय
दारिद्र्यदुःखदहनाय नमः शिवाय ॥ ३ ॥
चर्माम्बराय शवभस्मविलेपनाय
फालेक्षणाय मणिकुण्डलमण्डिताय ।
मञ्जीरपादयुगलाय जटाधराय
दारिद्र्यदुःखदहनाय नमः शिवाय ॥ ४ ॥
पञ्चाननाय फणिराजविभूषणाय
हेमांशुकाय भुवनत्रयमण्डिताय ।
आनन्दभूमिवरदाय तमोमयाय [*तमोपहाय*]
दारिद्र्यदुःखदहनाय नमः शिवाय ॥ ५ ॥
भानुप्रियाय भवसागरतारणाय
कालान्तकाय कमलासनपूजिताय ।
नेत्रत्रयाय शुभलक्षण लक्षिताय
दारिद्र्यदुःखदहनाय नमः शिवाय ॥ ६ ॥
रामप्रियाय रघुनाथवरप्रदाय
नागप्रियाय नरकार्णवतारणाय ।
पुण्येषु पुण्यभरिताय सुरार्चिताय
दारिद्र्यदुःखदहनाय नमः शिवाय ॥ ७ ॥
मुक्तीश्वराय फलदाय गणेश्वराय
गीतप्रियाय वृषभेश्वरवाहनाय ।
मातङ्गचर्मवसनाय महेश्वराय
दारिद्र्यदुःखदहनाय नमः शिवाय ॥ ८ ॥
वसिष्ठेन कृतं स्तोत्रम् सर्वरोगनिवारणम् ।
सर्वसम्पत्करं शीघ्रं पुत्रपौत्रादिवर्धनम् ॥ ९
त्रिसन्ध्यं यः पठेन्नित्यं स हि स्वर्गमवाप्नुयात् ।
इति श्री वसिष्ठ विरचितं दारिद्र्यदहन स्तोत्रम् ।