Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
गजास्या सिंहवक्त्रा च गृध्रास्या काकतुण्डिका ।
उष्ट्रास्याऽश्वखरग्रीवा वाराहास्या शिवानना ॥ १ ॥
उलूकाक्षी घोररवा मायूरी शरभानना ।
कोटराक्षी चाष्टवक्त्रा कुब्जा च विकटानना ॥ २ ॥
शुष्कोदरी ललज्जिह्वा श्वदंष्ट्रा वानरानना ।
ऋक्षाक्षी केकराक्षी च बृहत्तुण्डा सुराप्रिया ॥ ३ ॥
कपालहस्ता रक्ताक्षी शुकी श्येनी कपोतिका ।
पाशहस्ता दण्डहस्ता प्रचण्डा चण्डविक्रमा ॥ ४ ॥
शिशुघ्नी पाशहन्त्री च काली रुधिरपायिनी ।
वसापाना गर्भभक्षा शवहस्ताऽऽन्त्रमालिका ॥ ५ ॥
ऋक्षकेशी महाकुक्षिर्नागास्या प्रेतपृष्ठका ।
दग्धशूकधरा क्रौञ्ची मृगशृङ्गा वृषानना ॥ ६ ॥
फाटितास्या धूम्रश्वासा व्योमपादोर्ध्वदृष्टिका ।
तापिनी शोषिणी स्थूलघोणोष्ठा कोटरी तथा ॥ ७ ॥
विद्युल्लोला बलाकास्या मार्जारी कटपूतना ।
अट्टहास्या च कामाक्षी मृगाक्षी चेति ता मताः ॥ ८ ॥
फलश्रुतिः –
चतुःषष्टिस्तु योगिन्यः पूजिता नवरात्रके ।
दुष्टबाधां नाशयन्ति गर्भबालादिरक्षिकाः ॥ ९ ॥
न डाकिन्यो न शाकिन्यो न कूष्माण्डा न राक्षसाः ।
तस्य पीडां प्रकुर्वन्ति नामान्येतानि यः पठेत् ॥ १० ॥
रणे राजकुले वापि विवादे जयदान्यपि ।
बलिपूजोपहारैश्च धूपदीपसमर्पणैः ।
क्षिप्रं प्रसन्ना योगिन्यो प्रयच्छेयुर्मनोरथान् ॥ ११ ॥
इति श्रीलक्ष्मीनारायण संहितायां कृतयुगसन्तानाख्यानं नाम प्रथम खण्डे त्र्यशीतितमोऽध्याये चतुःषष्टियोगिनी स्तवराजः ।
इतर देवी स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.