Balakanda Sarga 13 – बालकाण्ड त्रयोदशः सर्गः (१३)



॥ यज्ञशालाप्रवेशः ॥

पुनः प्राप्ते वसन्ते तु पूर्णः संवत्सरोऽभवत् ।
प्रसवार्थं गतो यष्टुं हयमेधेन वीर्यवान् ॥ १ ॥

अभिवाद्य वसिष्ठं च न्यायतः प्रतिपूज्य च ।
अब्रवीत्प्रश्रितं वाक्यं प्रसवार्थं द्विजोत्तमम् ॥ २ ॥

यज्ञो मे प्रीयतां ब्रह्मन्यथोक्तं मुनिपुङ्गव । [क्रियतां]
यथा न विघ्नः क्रियते यज्ञाङ्गेषु विधीयताम् ॥ ३ ॥

भवान् स्निग्धः सुहृन्मह्यं गुरुश्च परमो महान् ।
वोढव्यो भवता चैव भारो यज्ञस्य चोद्यतः ॥ ४ ॥

तथेति च स राजानमब्रवीद्द्विजसत्तमः ।
करिष्ये सर्वमेवैतद्भवता यत्समर्थितम् ॥ ५ ॥

ततोऽब्रवीद्द्विजान्वृद्धान्यज्ञकर्मसु निष्ठितान् ।
स्थापत्ये निष्ठितांश्चैव वृद्धान्परमधार्मिकान् ॥ ६ ॥

कर्मान्तिकान् शिल्पकरान्वर्धकीन्खनकानपि ।
गणकान् शिल्पिनश्चैव तथैव नटनर्तकान् ॥ ७ ॥

तथा शुचीन् शास्त्रविदः पुरुषान्सुबहुश्रुतान् ।
यज्ञकर्म समीहन्तां भवन्तो राजशासनात् ॥ ८ ॥

इष्टका बहुसाहस्रा शीघ्रमानीयतामिति ।
औपकार्याः क्रियन्तां च राज्ञां बहुगुणान्विताः ॥ ९ ॥

ब्राह्मणावसथाश्चैव कर्तव्याः शतशः शुभाः ।
भक्ष्यान्नपानैर्बहुभिः समुपेताः सुनिष्ठिताः ॥ १० ॥

तथा पौरजनस्यापि कर्तव्या बहुविस्तराः ।
[* अधिकपाठः –
आगतानां सुदूराच्च पार्थिवानां पृथक् पृथक् ।
वाजिवारणशालाश्च तथा शय्यागृहाणि च ।
भटानां महदावासा वैदेशिकनिवासिनाम् ।
*]
आवासा बहुभक्ष्या वै सर्वकामैरुपस्थिताः ॥ ११ ॥

तथा जानपदस्यापि जनस्य बहुशोभनम् ।
दातव्यमन्नं विधिवत्सत्कृत्य न तु लीलया ॥ १२ ॥

सर्वे वर्णा यथा पूजां प्राप्नुवन्ति सुसत्कृताः ।
न चावज्ञा प्रयोक्तव्या कामक्रोधवशादपि ॥ १३ ॥

यज्ञकर्मसु ये व्यग्राः पुरुषाः शिल्पिनस्तथा ।
तेषामपि विशेषेण पूजा कार्या यथाक्रमम् ॥ १४ ॥

ते च स्युः सम्भृताः सर्वे वसुभिर्भोजनेन च ।
यथा सर्वं सुविहितं न किञ्चित्परिहीयते ॥ १५ ॥

तथा भवन्तः कुर्वन्तु प्रीतिस्निग्धेन चेतसा ।
ततः सर्वे समागम्य वसिष्ठमिदमब्रुवन् ॥ १६ ॥

यथोक्तं तत्सुविहितं न किञ्चित्परिहीयते ।
ततः सुमन्त्रमाहूय वसिष्ठो वाक्यमब्रवीत् ॥ १७ ॥

निमन्त्रयस्व नृपतीन्पृथिव्यां ये च धार्मिकाः ।
ब्राह्मणान् क्षत्रियान् वैश्यान् शूद्रांश्चैव सहस्रशः ॥ १८ ॥

समानयस्व सत्कृत्य सर्वदेशेषु मानवान् ।
मिथिलाधिपतिं शूरं जनकं सत्यविक्रमम् ॥ १९ ॥

निष्ठितं सर्वशास्त्रेषु तथा वेदेषु निष्ठितम् ।
तमानय महाभागं स्वयमेव सुसत्कृतम् ॥ २० ॥

पूर्व सम्बन्धिनं ज्ञात्वा ततः पूर्वं ब्रवीमि ते ।
तथा काशीपतिं स्निग्धं सततं प्रियवादिनम् ॥ २१ ॥

सद्वृत्तं देवसङ्काशं स्वयमेवानयस्व ह ।
तथा केकयराजानं वृद्धं परमधार्मिकम् ॥ २२ ॥

श्वशुरं राजसिंहस्य सपुत्रं त्वमिहानय ।
अङ्गेश्वरं महाभागं रोमपादं सुसत्कृतम् ॥ २३ ॥

वयस्यं राजसिंहस्य समानय यशस्विनम् ।
प्राचीनान्सिन्धुसौवीरान्सौराष्ट्रेयांश्च पार्थिवान् ॥ २४ ॥

दाक्षिणात्यान्नरेन्द्राश्च समस्तानानयस्व ह ।
सन्ति स्निग्धाश्च ये चान्ये राजानः पृथिवीतले ॥ २५ ॥

तानानय ततः क्षिप्रं सानुगान्सहबान्धवान् ।
[* एतान् दूतैः महाभागैः आनयस्व नृपाज्ञ्या । *]
वसिष्ठवाक्यं तच्छ्रुत्वा सुमन्त्रस्त्वरितस्तदा ॥ २६ ॥

व्यादिशत्पुरुषांस्तत्र राज्ञामानयने शुभान् ।
स्वयमेव हि धर्मात्मा प्रययौ मुनिशासनात् ॥ २७ ॥

सुमन्त्रस्त्वरितो भूत्वा समानेतुं महीक्षितः ।
ते च कर्मान्तिकाः सर्वे वसिष्ठाय च धीमते ॥ २८ ॥

सर्वं निवेदयन्ति स्म यज्ञे यदुपकल्पितम् ।
ततः प्रीतो द्विजश्रेष्ठस्तान्सर्वानिदमब्रवीत् ॥ २९ ॥

अवज्ञया न दातव्यं कस्यचिल्लीलयापि वा ।
अवज्ञया कृतं हन्याद्दातारं नात्र संशयः ॥ ३० ॥

ततः कैश्चिदहोरात्रैरुपयाता महीक्षितः ।
बहूनि रत्नान्यादाय राज्ञो दशरथस्य ह ॥ ३१ ॥

ततो वसिष्ठः सुप्रीतो राजानमिदमब्रवीत् ।
उपयाता नरव्याघ्र राजानस्तव शासनात् ॥ ३२ ॥

मया च सत्कृताः सर्वे यथार्हं राजसत्तमाः ।
यज्ञियं च कृतं राजन्पुरुषैः सुसमाहितैः ॥ ३३ ॥

निर्यातु च भवान्यष्टुं यज्ञायतनमन्तिकात् ।
सर्वकामैरुपहृतैरुपेतं वै समन्ततः ॥ ३४ ॥

द्रष्टुमर्हसि राजेन्द्र मनसेव विनिर्मितम् ।
तथा वसिष्ठवचनाद्दृश्यशृङ्गस्य चोभयोः ॥ ३५ ॥

शुभे दिवसनक्षत्रे निर्यातो जगतीपतिः ।
ततो वसिष्ठप्रमुखाः सर्व एव द्विजोत्तमाः ॥ ३६ ॥

ऋश्यशृङ्गं पुरस्कृत्य यज्ञकर्मारभंस्तदा ।
यज्ञवाटगताः सर्वे यथाशास्त्रं यथाविधि ।
श्रीमांश्च सहपत्नीभी राजा दीक्षामुपाविशत् ॥ ३७ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रयोदशः सर्गः ॥ १३ ॥

बालकाण्ड चतुर्दशः सर्गः (१४) >>


सम्पूर्ण वाल्मीकि रामायणे बालकाण्ड पश्यतु ।


మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed