Balakanda Sarga 13 – बालकाण्ड त्रयोदशः सर्गः (१३)


॥ यज्ञशालाप्रवेशः ॥

पुनः प्राप्ते वसन्ते तु पूर्णः संवत्सरोऽभवत् ।
प्रसवार्थं गतो यष्टुं हयमेधेन वीर्यवान् ॥ १ ॥

अभिवाद्य वसिष्ठं च न्यायतः प्रतिपूज्य च ।
अब्रवीत्प्रश्रितं वाक्यं प्रसवार्थं द्विजोत्तमम् ॥ २ ॥

यज्ञो मे प्रीयतां ब्रह्मन्यथोक्तं मुनिपुङ्गव । [क्रियतां]
यथा न विघ्नः क्रियते यज्ञाङ्गेषु विधीयताम् ॥ ३ ॥

भवान् स्निग्धः सुहृन्मह्यं गुरुश्च परमो महान् ।
वोढव्यो भवता चैव भारो यज्ञस्य चोद्यतः ॥ ४ ॥

तथेति च स राजानमब्रवीद्द्विजसत्तमः ।
करिष्ये सर्वमेवैतद्भवता यत्समर्थितम् ॥ ५ ॥

ततोऽब्रवीद्द्विजान्वृद्धान्यज्ञकर्मसु निष्ठितान् ।
स्थापत्ये निष्ठितांश्चैव वृद्धान्परमधार्मिकान् ॥ ६ ॥

कर्मान्तिकान् शिल्पकरान्वर्धकीन्खनकानपि ।
गणकान् शिल्पिनश्चैव तथैव नटनर्तकान् ॥ ७ ॥

तथा शुचीन् शास्त्रविदः पुरुषान्सुबहुश्रुतान् ।
यज्ञकर्म समीहन्तां भवन्तो राजशासनात् ॥ ८ ॥

इष्टका बहुसाहस्रा शीघ्रमानीयतामिति ।
औपकार्याः क्रियन्तां च राज्ञां बहुगुणान्विताः ॥ ९ ॥

ब्राह्मणावसथाश्चैव कर्तव्याः शतशः शुभाः ।
भक्ष्यान्नपानैर्बहुभिः समुपेताः सुनिष्ठिताः ॥ १० ॥

तथा पौरजनस्यापि कर्तव्या बहुविस्तराः ।
[* अधिकपाठः –
आगतानां सुदूराच्च पार्थिवानां पृथक् पृथक् ।
वाजिवारणशालाश्च तथा शय्यागृहाणि च ।
भटानां महदावासा वैदेशिकनिवासिनाम् ।
*]
आवासा बहुभक्ष्या वै सर्वकामैरुपस्थिताः ॥ ११ ॥

तथा जानपदस्यापि जनस्य बहुशोभनम् ।
दातव्यमन्नं विधिवत्सत्कृत्य न तु लीलया ॥ १२ ॥

सर्वे वर्णा यथा पूजां प्राप्नुवन्ति सुसत्कृताः ।
न चावज्ञा प्रयोक्तव्या कामक्रोधवशादपि ॥ १३ ॥

यज्ञकर्मसु ये व्यग्राः पुरुषाः शिल्पिनस्तथा ।
तेषामपि विशेषेण पूजा कार्या यथाक्रमम् ॥ १४ ॥

ते च स्युः सम्भृताः सर्वे वसुभिर्भोजनेन च ।
यथा सर्वं सुविहितं न किञ्चित्परिहीयते ॥ १५ ॥

तथा भवन्तः कुर्वन्तु प्रीतिस्निग्धेन चेतसा ।
ततः सर्वे समागम्य वसिष्ठमिदमब्रुवन् ॥ १६ ॥

यथोक्तं तत्सुविहितं न किञ्चित्परिहीयते ।
ततः सुमन्त्रमाहूय वसिष्ठो वाक्यमब्रवीत् ॥ १७ ॥

निमन्त्रयस्व नृपतीन्पृथिव्यां ये च धार्मिकाः ।
ब्राह्मणान् क्षत्रियान् वैश्यान् शूद्रांश्चैव सहस्रशः ॥ १८ ॥

समानयस्व सत्कृत्य सर्वदेशेषु मानवान् ।
मिथिलाधिपतिं शूरं जनकं सत्यविक्रमम् ॥ १९ ॥

निष्ठितं सर्वशास्त्रेषु तथा वेदेषु निष्ठितम् ।
तमानय महाभागं स्वयमेव सुसत्कृतम् ॥ २० ॥

पूर्व सम्बन्धिनं ज्ञात्वा ततः पूर्वं ब्रवीमि ते ।
तथा काशीपतिं स्निग्धं सततं प्रियवादिनम् ॥ २१ ॥

सद्वृत्तं देवसङ्काशं स्वयमेवानयस्व ह ।
तथा केकयराजानं वृद्धं परमधार्मिकम् ॥ २२ ॥

श्वशुरं राजसिंहस्य सपुत्रं त्वमिहानय ।
अङ्गेश्वरं महाभागं रोमपादं सुसत्कृतम् ॥ २३ ॥

वयस्यं राजसिंहस्य समानय यशस्विनम् ।
प्राचीनान्सिन्धुसौवीरान्सौराष्ट्रेयांश्च पार्थिवान् ॥ २४ ॥

दाक्षिणात्यान्नरेन्द्राश्च समस्तानानयस्व ह ।
सन्ति स्निग्धाश्च ये चान्ये राजानः पृथिवीतले ॥ २५ ॥

तानानय ततः क्षिप्रं सानुगान्सहबान्धवान् ।
[* एतान् दूतैः महाभागैः आनयस्व नृपाज्ञ्या । *]
वसिष्ठवाक्यं तच्छ्रुत्वा सुमन्त्रस्त्वरितस्तदा ॥ २६ ॥

व्यादिशत्पुरुषांस्तत्र राज्ञामानयने शुभान् ।
स्वयमेव हि धर्मात्मा प्रययौ मुनिशासनात् ॥ २७ ॥

सुमन्त्रस्त्वरितो भूत्वा समानेतुं महीक्षितः ।
ते च कर्मान्तिकाः सर्वे वसिष्ठाय च धीमते ॥ २८ ॥

सर्वं निवेदयन्ति स्म यज्ञे यदुपकल्पितम् ।
ततः प्रीतो द्विजश्रेष्ठस्तान्सर्वानिदमब्रवीत् ॥ २९ ॥

अवज्ञया न दातव्यं कस्यचिल्लीलयापि वा ।
अवज्ञया कृतं हन्याद्दातारं नात्र संशयः ॥ ३० ॥

ततः कैश्चिदहोरात्रैरुपयाता महीक्षितः ।
बहूनि रत्नान्यादाय राज्ञो दशरथस्य ह ॥ ३१ ॥

ततो वसिष्ठः सुप्रीतो राजानमिदमब्रवीत् ।
उपयाता नरव्याघ्र राजानस्तव शासनात् ॥ ३२ ॥

मया च सत्कृताः सर्वे यथार्हं राजसत्तमाः ।
यज्ञियं च कृतं राजन्पुरुषैः सुसमाहितैः ॥ ३३ ॥

निर्यातु च भवान्यष्टुं यज्ञायतनमन्तिकात् ।
सर्वकामैरुपहृतैरुपेतं वै समन्ततः ॥ ३४ ॥

द्रष्टुमर्हसि राजेन्द्र मनसेव विनिर्मितम् ।
तथा वसिष्ठवचनाद्दृश्यशृङ्गस्य चोभयोः ॥ ३५ ॥

शुभे दिवसनक्षत्रे निर्यातो जगतीपतिः ।
ततो वसिष्ठप्रमुखाः सर्व एव द्विजोत्तमाः ॥ ३६ ॥

ऋश्यशृङ्गं पुरस्कृत्य यज्ञकर्मारभंस्तदा ।
यज्ञवाटगताः सर्वे यथाशास्त्रं यथाविधि ।
श्रीमांश्च सहपत्नीभी राजा दीक्षामुपाविशत् ॥ ३७ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रयोदशः सर्गः ॥ १३ ॥

बालकाण्ड चतुर्दशः सर्गः (१४) >>


सम्पूर्ण वाल्मीकि रामायणे बालकाण्ड पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed