Ayodhya Kanda Sarga 66 – अयोध्याकाण्ड षट्षष्ठितमः सर्गः (६६)


॥ तैलद्रोण्यधिशयनम् ॥

तमग्निमिव संशान्तमम्बु हीनमिवार्णवम् ।
हतप्रभमिवादित्यं स्वर्गस्थं प्रेक्ष्य पार्थिवम् ॥ १ ॥

कौसल्या बाष्पपूर्णाक्षी विविधं शोककर्शिता ।
उपगृह्य शिरः राज्ञः कैकेयीं प्रत्यभाषत ॥ २ ॥

सकामा भव कैकेयि भुङ्क्ष्व राज्यमकण्टकम् ।
त्यक्त्वा राजानमेकाग्रा नृशंसे दुष्टचारिणि ॥ ३ ॥

विहाय मां गतः रामः भर्ता च स्वर्गतः मम ।
विपथे सार्थहीनेव नाहं जीवितुमुत्सहे ॥ ४ ॥

भर्तारं तं परित्यज्य का स्त्री दैवतमात्मनः ।
इच्चेज्जीवितुमन्यत्र कैकेय्यास्त्यक्तधर्मणः ॥ ५ ॥

न लुब्धो बुध्यते दोषान् किम्पाकमिव भक्षयन् ।
कुब्जानिमित्तं कैकेय्या राघवाणां कुलं हतम् ॥ ६ ॥

अनियोगे नियुक्तेन राज्ञा रामं विवासितम् ।
सभार्यं जनकः श्रुत्वा परितप्स्यत्यहं यथा ॥ ७ ॥

स मामनाथां विधवां नाद्य जानाति धार्मिकः ।
रामः कमलपत्राक्षो जीवनाशमितः गतः ॥ ८ ॥

विदेहराजस्य सुता तथा सीता तपस्विनी ।
दुःखस्यानुचिता दुःखं वने पर्युद्विजिष्यति ॥ ९ ॥

नदतां भीमघोषाणां निशासु मृगपक्षिणाम् ।
निशम्य नूनं सन्त्रस्ता राघवं संश्रयिष्यति ॥ १० ॥

वृद्धश्चैवाल्प पुत्रश्च वैदेहीमनिचिन्तयन् ।
सोऽपि शोकसमाविष्टर्ननु त्यक्ष्यति जीवितम् ॥ ११ ॥

साऽहमद्यैव दिष्टान्तं गमिष्यामि पतिव्रता ।
इदं शरीरमालिङ्ग्य प्रवेक्ष्यामि हुताशनम् ॥ १२ ॥

तां ततः सम्परिष्वज्य विलपन्तीं तपस्विनीम् ।
व्यपनिन्युः सुदुह्खार्तां कौसल्यां व्यावहारिकाः ॥ १३ ॥ [व्यपनीय]

तैलद्रोण्यामथामात्याः संवेश्य जगतीपतिम् ।
राज्ञः सर्वाण्यथादिष्टाश्चक्रुः कर्माण्यनन्तरम् ॥ १४ ॥

न तु सङ्कलनं राज्ञो विना पुत्रेण मन्त्रिणः ।
सर्वज्ञाः कर्तुमीषुस्ते ततः रक्षन्ति भूमिपम् ॥ १५ ॥

तैलद्रोण्यां तु सचिवैः शायितं तं नराधिपम् ।
हा मृतोऽयमिति ज्ञात्वा स्त्रियस्ताः पर्यदेवयन् ॥ १६ ॥

बाहूनुद्यम्य कृपणा नेत्रप्रस्रवणैः मुखैः ।
रुदन्त्यः शोकसन्तप्ताः कृपणं पर्यदेवयन् ॥ १७ ॥

हा महाराज रामेण सततं प्रियवादिना ।
विहीनाः सत्यसन्धेन किमर्थं विजहासि नः ॥ १८ ॥

कैकेय्या दुष्टभावायाः राघवेण वियोजिताः ।
कथं पतिघ्न्या वत्स्यामः समीपे विधवा वयम् ॥ १९ ॥

स हि नाथः सदाऽस्माकं तव च प्रभुरात्मवान् ।
वनं रामो गतः श्रीमान् विहाय नृपतिश्रियम् ॥ २० ॥

त्वया तेन च वीरेण विना व्यसनमोहिताः ।
कथं वयं निवत्स्यामः कैकेय्या च विदूषिताः ॥ २१ ॥

यया तु राजा रामश्च लक्ष्मणश्च महाबलः ।
सीतया सह सन्त्यक्ताः सा कमन्यं न हास्यति ॥ २२ ॥

ता बाष्पेण च संवीताः शोकेन विपुलेन च ।
व्यवेष्टन्त निरानन्दा राघवस्य वरस्त्रियः ॥ २३ ॥

निशा चन्द्रविहीनेव स्त्रीव भर्तृविवर्जिता ।
पुरी नाराजतायोध्या हीना राज्ञा महात्मना ॥ २४ ॥

बाष्प पर्याकुलजना हाहाभूतकुलाङ्गना ।
शून्यचत्वरवेश्मान्ता न बभ्राज यथापुरम् ॥ २५ ॥

गते तु शोकात् त्रिदिवं नराधिपे
महीतलस्थासु नृपाङ्गनासु च ।
निवृत्तचारः सहसा गतो रविः
प्रवृत्तचारा राजनी ह्युपस्थिता ॥ २६ ॥

ऋते तु पुत्राद्दहनं महीपतेः
नरोचयन्ते सुहृदः समागताः ।
इतीव तस्मिन् शयने न्यवेशयन्
विचिन्त्य राजानमचिन्त्य दर्शनम् ॥ २७ ॥

गतप्रभा द्यौरिव भास्करं विना
व्यपेतनक्षत्रगणेव शर्वरी ।
पुरी बभासे रहिता महात्मना
न चास्र कण्ठाकुल मार्गचत्वरा ॥ २८ ॥

नराश्च नार्यश्च समेत्य सङ्घः
विगर्हमाणा भरतस्य मातरम् ।
तदा नगर्यां नरदेवसङ्क्षये
बभूवुरार्ता न च शर्म लेभिरे ॥ २९ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे षट्षष्ठितमः सर्गः ॥ ६६ ॥

अयोध्याकाण्ड सप्तषष्ठितमः सर्गः (६७) >>


सम्पूर्ण वाल्मीकि रामायणे अयोध्यकाण्ड पश्यतु ।

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed
%d bloggers like this: