Ayodhya Kanda Sarga 55 – अयोध्याकाण्ड पञ्चपञ्चाशः सर्गः (५५)


॥ यमुनातरणम् ॥

उषित्वा रजनीं तत्र राजपुत्रावरिन्दमौ ।
महर्षिमभिवाद्याथ जग्मतुस्तं गिरिं प्रति ॥ १ ॥

तेषां चैव स्वस्त्ययनं महर्षिः स चकार ह ।
प्रस्थितांश्चैव तान् प्रेक्ष्यपिता पुत्रानिवान्वगात् ॥ २ ॥

ततः प्रचक्रमे वक्तुं वचनं स महामुनिः ।
भरद्वाजो महातेजाः रामं सत्यपराक्रमम् ॥ ३ ॥

गङ्गायमुनयोः सन्धिमासाद्य मनुजर्षभौ ।
कालिन्दीमनुगच्छेतां नदीं पश्चान्मुखाश्रिताम् ॥ ४ ॥

अथासाद्य तु कालिन्दीं शीघ्रस्रोतसमापगाम् ।
तस्यास्तीर्थं प्रचरितं पुराणं प्रेक्ष्य राघवौ ॥ ५ ॥

तत्र यूयं प्लवं कृत्वा तरतांशुमतीं नदीम् ।
ततो न्यग्रोधमासाद्य महान्तं हरितच्छदम् ॥ ६ ॥

विवृद्धं बहुभिर्वृक्षैः श्यामं सिद्धोपसेवितम् ।
तस्मै सीताऽञ्जलिं कृत्वा प्रयुञ्जीताशिषः शिवाः ॥ ७ ॥

समासाद्य तु तं वृक्षं वसेद्वाऽतिक्रमेत वा ।
क्रोशमात्रं ततो गत्वा नीलं द्रक्ष्यथ काननम् ॥ ८ ॥

पलाशबदरीमिश्रं रम्यं वंशैश्च यामुनैः ।
स पन्थाश्चित्रकूटस्य गतः सुबहुशो मया ॥ ९ ॥

रम्यो मार्दवयुक्तश्च वनदावैर्विपर्जितः ।
इति पन्थानमावेद्य महर्षिः संन्यवर्ततः ॥ १० ॥

अभिवाद्य तथेत्युक्त्वा रामेण विनिवर्तितः ।
उपावृत्ते मुनौ तस्मिन् रामो लक्ष्मणमब्रवीत् ॥ ११ ॥

कृतपुण्याः स्म सौमित्रे मुनिर्यन्नोऽनुकम्पते ।
इति तौ पुरुषव्याघ्रौ मन्त्रयित्वा मनस्विनौ ॥ १२ ॥

सीतामेवाग्रतः कृत्वा कालिन्दीं जग्मतुर्नदीम् ।
अथाऽसाद्य तु कालिन्दीं शीघ्रस्रोतोवहां नदीम् ॥ १३ ॥

तौ काष्ठसङ्घाटमथो चक्रतुस्सुमहाप्लवम् ॥ १४ ॥

शुष्कैर्वंशैः समास्तीर्णमुशीरैश्च समावृतम् ।
ततो वेतसशाखाश्च जम्बूशाखाश्च वीर्यवान् ॥ १५ ॥

चकार लक्ष्मणश्छित्वा सीतायाः सुखमासनम् ।
तत्र श्रियमिवाचिन्त्यां रामो दाशरथिः प्रियाम् ॥ १६ ॥

ईषत्संलज्जमानां तामध्यारोपयत प्लवम् ।
पार्श्वे च तत्र वैदेह्या वसने भूषणानि च ॥ १७ ॥

प्लवे कठिनकाजं च रामश्चक्रे सहायुधैः ।
आरोप्य प्रथमं सीतां सङ्घाटं प्रतिगृह्य तौ ॥ १८ ॥

ततः प्रतेरतुर्यत्तौ वीरौ दशरथात्मजौ ।
कालिन्दीमध्यमायाता सीता त्वेनामवन्दत ॥ १९ ॥

स्वस्ति देवि तरामि त्वां पारयेन्मे पतिर्र्वतम् ।
यक्ष्ये त्वां गोनहस्रेण सुराघटशतेन च ॥ २० ॥

स्वस्ति प्रत्यागते रामे पुरीमिक्ष्वाकुपालिताम् ।
कालिन्दीमथ सीता तु याचमाना कृताञ्जलिः ॥ २१ ॥

तीरमेवाभिसम्प्राप्ता दक्षिणं वरवर्णिनी ।
ततः प्लवेनांशुमतीं शीघ्रगामूर्मिमालिनीम् ॥ २२ ॥

तीरजैर्बहुभिर्वृक्षैः सन्तेरुर्यमुनां नदीम् ।
ते तीर्णाः प्लवमुत्सृज्य प्रस्थाय यमुनावनात् ॥ २३ ॥

श्यामं न्यग्रोधमासेदुः शीतलं हरितच्छदम् ।
न्यग्रोधं तमुपागम्य वैदेहि वाक्यमब्रवीत् ॥ २४ ॥

नमस्तेऽस्तु महावृक्ष पारयेन्मे पतिर्व्रतम् ।
कौसल्यां चैव पश्येयं सुमित्रां च यशस्विनीम् ॥ २५ ॥

इति सीताऽञ्जलिं कृत्वा पर्यगच्छद्वनस्पतिम् ।
अवलोक्य ततः सीतामायाचन्तीमनिन्दिताम् ॥ २६ ॥

दयितां च विधेयां च रामो लक्ष्मणमब्रवीत् ।
सीतामादाय गच्छ त्वमग्रतो भरतानुज ॥ २७ ॥ [भरताग्रज]

पृष्ठतोऽहं गमिष्यामि सायुधो द्विपदां वर ।
यद्यत्फलं प्रार्थयते पुष्पं वा जनकात्मजा ॥ २८ ॥

तत्तत्प्रदद्या वैदेह्या यत्रास्य रमते मनः ।
गच्छतोस्तु तयोर्मध्ये बभूव जनकात्मजा ॥ २९ ॥

मातङ्गयोर्मध्यगता शुभा नागवधूरिव ।
एकैकं पादपं गुल्मं लतां वा पुष्पशालिनीम् ॥ ३० ॥

अदृष्टपूर्वां पश्यन्ती रामं पप्रच्छ साऽबला ।
रमणीयान् बहुविधान् पादपान् कुसुमोत्कटान् ॥ ३१ ॥

सीतावचनसंरब्दः आनयामास लक्ष्मणः ।
विचित्रवालुकजलां हंससारसनादिताम् ॥ ३२ ॥

रेमे जनकराजस्य तदा प्रेक्ष्य सुता नदीम् ।
क्रोशमात्रं ततो गत्वा भ्रातरौ रामलक्ष्मणौ ।
बहून्मेध्यान् मृगान् हत्वा चेरतुर्यमुना वने ॥ ३३ ॥

विहृत्य ते बर्हिणपूगनादिते
शुभे वने वानरवारणायुते ।
समं नदीवप्रमुपेत्य सम्मतं
निवासमाजग्मु रदीनदर्शनाः ॥ ३४ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे पञ्चपञ्चाशः सर्गः ॥ ५५ ॥

अयोध्याकाण्ड षट्पञ्चाशः सर्गः (५६) >>


सम्पूर्ण वाल्मीकि रामायणे अयोध्यकाण्ड पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed