Ashvattha Stotram – अश्वत्थ स्तोत्रम्


श्री नारद उवाच ।
अनायासेन लोकोऽयं सर्वान्कामानवाप्नुयात् ।
सर्वदेवात्मकं चैवं तन्मे ब्रूहि पितामह ॥ १ ॥

ब्रह्मोवाच ।
शृणु देव मुनेऽश्वत्थं शुद्धं सर्वात्मकं तरुं ।
यत्प्रदक्षिणतो लोकः सर्वान्कामान्समश्नुते ॥ २ ॥

अश्वत्थाद्दक्षिणे रुद्रः पश्चिमे विष्णुराश्रितः ।
ब्रह्मा चोत्तरदेशस्थः पूर्वेत्विन्द्रादिदेवताः ॥ ३ ॥

स्कन्धोपस्कन्धपत्रेषु गोविप्रमुनयस्तथा ।
मूलं वेदाः पयो यज्ञाः संस्थिता मुनिपुङ्गव ॥ ४ ॥

पूर्वादिदिक्षु सम्याता नदीनदसरोऽब्धयः ।
तस्मात्सर्वप्रयत्नेन ह्यश्वत्थं सम्श्रयेद्बुधः ॥ ५ ॥

त्वं क्षीर्यफलकश्चैव शीतलश्च वनस्पते ।
त्वामाराध्य नरो विन्द्यादैहिकामुष्मिकं फलम् ॥ ६ ॥

चलद्दलाय वृक्षाय सर्वदाश्रितविष्णवे ।
बोधिसत्त्वाय देवाय ह्यश्वत्थाय नमो नमः ॥ ७ ॥

अश्वत्थ यस्मात्त्वयि वृक्षराज
नारायणस्तिष्ठति सर्वकाले ।
अथः शृतस्त्वं सततं तरूणां
धन्योऽसि चारिष्टविनाशकोऽसि ॥ ८ ॥

क्षीरदस्त्वं च येनेह येन श्रीस्त्वां निषेवते ।
सत्येन तेन वृक्षेन्द्र मामपि श्रीर्निषेवताम् ॥ ९ ॥

एकादशात्मा रुद्रोऽसि वसुनाथशिरोमणिः ।
नारायणोऽसि देवानां वृक्षराजोऽसि पिप्पल ॥ १० ॥

अग्निगर्भः शमीगर्भो देवगर्भः प्रजापतिः ।
हिरण्यगर्भो भूगर्भो यज्ञगर्भो नमोऽस्तु ते ॥ ११ ॥

आयुर्बलं यशो वर्चः प्रजाः पशुवसूनि च ।
ब्रह्मज्ञानं च मेधां च त्वं नो देहि वनस्पते ॥ १२ ॥

सततं वरुणो रक्षेत् त्वामाराद्वृष्टिराश्रयेत् ।
परितस्त्वां निषेवन्तां तृणानि सुखमस्तु ते ॥ १३ ॥

अक्षिस्पन्दं भुजस्पन्दं दुस्स्वप्नं दुर्विचिन्तनं ।
शत्रूणां समुत्थानं ह्यश्वत्थ शमय प्रभो ॥ १४ ॥

अश्वत्थाय वरेण्याय सर्वैश्वर्य प्रदायिने ।
नमो दुस्स्वप्ननाशाय सुस्वप्नफलदायिने ॥ १५ ॥

मूलतो ब्रह्मरूपाय मध्यतो विष्णुरूपिणे ।
अग्रतः शिवरूपाय वृक्षराजाय ते नमः ॥ १६ ॥

यं दृष्ट्वा मुच्यते रोगैः स्पृष्ट्वा पापैः प्रमुच्यते ।
यदाश्रयाच्चिरञ्जीवी तमश्वत्थं नमाम्यहम् ॥ १७ ॥

अश्वत्थ सुमहाभाग सुभग प्रियदर्शन ।
इष्टकामाम्श्च मे देहि शत्रुभ्यस्तु पराभवम् ॥ १८ ॥

आयुः प्रजां धनं धान्यं सौभाग्यं सर्वसम्पदं ।
देहि देव महावृक्ष त्वामहं शरणं गतः ॥ १९ ॥

ऋग्यजुस्साममन्त्रात्मा सर्वरूपी परात्परः ।
अश्वत्थो वेदमूलोऽसौ ऋषिभिः प्रोच्यते सदा ॥ २० ॥

ब्रह्महा गुरुहा चैव दरिद्रो व्याधिपीडितः ।
आवृत्त्य लक्षसङ्ख्यं तत् स्तोत्रमेतत्सुखी भवेत् ॥ २१ ॥

ब्रह्मचारी हविर्ह्य़ाशी त्वदश्शायी जितेन्द्रियः ।
पापोपहतचित्तोपि व्रतमेतत्समाचरेत् ॥ २२ ॥

एकहस्तं द्विहस्तं वा कुर्य़ाद्गोमयलेपनं ।
अर्चेत्पुरुषसूक्तेन प्रणवेन विशेषतः ॥ २३ ॥

मौनी प्रदक्षिणं कुर्यात्प्रागुक्तफलभाग्भवेत् ।
विष्णोर्नामसहस्रेण ह्यच्युतस्यापि कीर्तनात् ॥ २४ ॥

पदे पदान्तरं गत्वा करचेष्टाविवर्जितः ।
वाचा स्तोत्रं मनो ध्याने चतुरङ्गं प्रदक्षिणम् ॥ २५ ॥

अश्वत्थः स्थापितो येन तत्कुलं स्थापितं ततः ।
धनायुषां समृद्धिस्तु नरकात्तारयेत्पितॄन् ॥ २६ ॥

अश्वत्थमूलमाश्रित्य शाकान्नोदकदानतः ।
एकस्मिन् भोजिते विप्रे कोटिब्राह्मणभोजनम् ॥ २७ ॥

अश्वत्थमूल माश्रित्य जपहोमसुरार्चनात् ।
अक्षयं फलमाप्नोति ब्रह्मणो वचनं तथा ॥ २८ ॥

एवमाश्वासितोऽश्वत्थः सदाश्वासाय कल्पते ।
यज्ञार्थं छेदितेऽश्वत्थे ह्यक्षयं स्वर्गमाप्नुयात् ॥ २९ ॥

छिन्नो येन वृथाऽश्वत्थश्छेदिताः पितृदेवताः ।
अश्वत्थः पूजितो यत्र पूजिताः सर्वदेवताः ॥ ३० ॥

इति श्री ब्रह्म नारद संवादे अश्वत्थ स्तोत्रं सम्पूर्णं


इतर विविध स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed