Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
॥ ऋश्यमूकमार्गकथनम् ॥
निदर्शयित्वा रामाय सीतायाः प्रतिपादने ।
वाक्यमन्वर्थमर्थज्ञः कबन्धः पुनरब्रवीत् ॥ १ ॥
एष राम शिवः पन्था यत्रैते पुष्पिता द्रुमाः ।
प्रतीचीं दिशमाश्रित्य प्रकाशन्ते मनोरमाः ॥ २ ॥
जम्बूप्रियालपनसप्लक्षन्यग्रोधतिन्दुकाः ।
अश्वत्थाः कर्णिकाराश्च चूताश्चान्ये च पादापाः ॥ ३ ॥
धन्वना नागवृक्षाश्च तिलका नक्तमालकाः ।
नीलाशोकाः कदम्बाश्च करवीराश्च पुष्पिताः ॥ ४ ॥
अग्निमुख्या अशोकाश्च सुरक्ताः पारिभद्रकाः ।
तानारूह्याथवा भूमौ पातयित्वा च तान् बलात् ॥ ५ ॥
फलान्यमृतकल्पानि भक्षयन्तौ गमिष्यथः ।
तदतिक्रम्य काकुत्स्थ वनं पुष्पितपादपम् ॥ ६ ॥
नन्दनप्रतिमं चान्यत् कुरवो ह्युत्तरा इव ।
सर्वकामफला वृक्षाः पादपास्तु मधुस्रवाः ॥ ७ ॥
सर्वे च ऋतवस्तत्र वने चैत्ररथे यथा ।
फलभारानतास्तत्र महाविटपधारिणः ॥ ८ ॥
शोभन्ते सर्वतस्तत्र मेघपर्वतसन्निभाः ।
तानारुह्याथ वा भूमौ पातयित्वा यथासुखम् ॥ ९ ॥
फलान्यमृतकल्पानि लक्ष्मणस्ते प्रदास्यति ।
चङ्क्रमन्तौ वरान् देशान् शैलाच्छैलं वनाद्वनम् ॥ १० ॥
ततः पुष्करिणीं वीरौ पम्पां नाम गमिष्यथः ।
अशर्करामविभ्रंशां समतीर्थामशैवलाम् ॥ ११ ॥
राम सञ्जातवालूकां कमलोत्पलशालिनीम् ।
तत्र हंसाः प्लवाः क्रौञ्चाः कुरराश्चैव राघव ॥ १२ ॥
वल्गुस्वना निकूजन्ति पम्पासलिलगोचराः ।
नोद्विजन्ते नरान् दृष्ट्वा वधस्याकोविदाः शुभाः ॥ १३ ॥
घृतपिण्डोपमान् स्थूलांस्तान् द्विजान् भक्षयिष्यथः ।
रोहितान् वक्रतुण्डांश्च नडमीनांश्च राघव ॥ १४ ॥
पम्पायामिषुभिर्मत्स्यांस्तत्र राम वरान् हतान् ।
निस्त्वक्पक्षानयस्तप्तानकृशानेककण्टकान् ॥ १५ ॥
तव भक्त्या समायुक्तो लक्ष्मणः सम्प्रदास्यति ।
भृशं ते खादतो मत्स्यान् पम्पायाः पुष्पसञ्चये ॥ १६ ॥
पद्मगन्धि शिवं वारि सुखशीतमनामयम् ।
उद्धृत्य सतताक्लिष्टं रौप्यस्फाटिकसन्निभम् ॥ १७ ॥
असौ पुष्करपर्णेन लक्ष्मणः पाययिष्यति ।
स्थूलान् गिरिगुहाशय्यान् वराहान् वनचारिणः ॥ १८ ॥
अपां लोभादुपावृत्तान् वृषभानिव नर्दतः ।
रूपान्वितांश्च पम्पायां द्रक्ष्यसि त्वं नरोत्तम ॥ १९ ॥
सायाह्ने विचरन् राम विटपीन् माल्यधारिणः ।
शीतोदकं च पम्पाया दृष्ट्वा शोकं विहास्यसि ॥ २० ॥
सुमनोभिश्चितांस्तत्र तिलकान्नक्तमालकान् ।
उत्पलानि च फुल्लानि पङ्कजानि च राघव ॥ २१ ॥
न तानि कश्चिन्माल्यानि तत्रारोपयिता नरः ।
न च वै म्लानतां यान्ति न च शीर्यन्ति राघव ॥ २२ ॥
मतङ्गशिष्यास्तत्रासन्नृषयः सुसमाहिताः ।
तेषां भाराभितप्तानां वन्यमाहरतां गुरोः ॥ २३ ॥
ये प्रपेतुर्महीं तूर्णं शरीरात् स्वेदबिन्दवः ।
तानि जातानि माल्यानि मुनीनां तपसा तदा ॥ २४ ॥
स्वेदबिन्दुसमुत्थानि न विनश्यन्ति राघव ।
तेषामद्यापि तत्रैव दृश्यते परिचारिणी ॥ २५ ॥
श्रमणी शबरी नाम काकुत्स्थ चिरजीविनी ।
त्वां तु धर्मे स्थिता नित्यं सर्वभूतनमस्कृतम् ॥ २६ ॥
दृष्ट्वा देवोपमं राम स्वर्गलोकं गमिष्यति ।
ततस्तद्राम पम्पायास्तीरमाश्रित्य पश्चिमम् ॥ २७ ॥
आश्रमस्थानमतुलं गुह्यं काकुत्स्थ पश्यसि ।
न तत्राक्रमितुं नागाः शक्नुवन्ति तमाश्रमम् ॥ २८ ॥
विविधास्तत्र वै नागा वने तस्मिंश्च पर्वते ।
ऋषेस्तस्य मतङ्गस्य विधानात्तच्च काननम् ॥ २९ ॥
मतङ्गवनमित्येव विश्रुतं रघुनन्दन ।
तस्मिन्नन्दनसङ्काशे देवारण्योपमे वने ॥ ३० ॥
नानाविहगसङ्कीर्णे रंस्यसे राम निर्वृतः ।
ऋश्यमूकश्च पम्पायाः पुरस्तात् पुष्पितद्रुमः ॥ ३१ ॥
सुदुःखारोहणो नाम शिशुनागाभिरक्षितः ।
उदारो ब्रह्मणा चैव पूर्वकाले विनिर्मितः ॥ ३२ ॥
शयानः पुरुषो राम तस्य शैलस्य मूर्धनि ।
यत्स्वप्ने लभते वित्तं तत्प्रबुद्धोऽधिगच्छति ॥ ३३ ॥
न त्वेनं विषमाचारः पापकर्माधिरोहति ।
यस्तु तं विषमाचारः पापकर्माधिरोहति ॥ ३४ ॥
तत्रैव प्रहरन्त्येनं सुप्तमादाय राक्षसाः ।
तत्रापि शिशुनागानामाक्रन्दः श्रूयते महान् ॥ ३५ ॥
क्रीडतां राम पम्पायां मतङ्गारण्यवासिनाम् ।
सिक्ता रुधिरधाराभिः संहृत्य परमद्विपाः ॥ ३६ ॥
प्रचरन्ति पृथक्कीर्णा मेघवर्णास्तरस्विनः ।
ते तत्र पीत्वा पानीयं विमलं शीतमव्ययम् ॥ ३७ ॥
निर्वृताः संविगाहन्ते वनानि वनगोचराः ।
ऋक्षांश्च द्वीपिनश्चैव नीलकोमलकप्रभान् ॥ ३८ ॥
रुरूनपेतापजयान् दृष्ट्वा शोकं जहिष्यसि ।
राम तस्य तु शैलस्य महती शोभते गुहा ॥ ३९ ॥
शिलापिधाना काकुत्स्थ दुःखं चास्याः प्रवेशनम् ।
तस्या गुहायाः प्राग्द्वारे महान् शीतोदको ह्रदः ॥ ४० ॥
फलमूलान्वितो रम्यो नानामृगसमावृतः ।
तस्यां वसति सुग्रीवश्चतुर्भिः सह वानरैः ॥ ४१ ॥
कदाचिच्छिखरे तस्य पर्वतस्यावतिष्ठते ।
कबन्धस्त्वनुशास्यैवं तावुभौ रामलक्ष्मणौ ॥ ४२ ॥
स्रग्वी भास्करवर्णाभः खे व्यरोचत वीर्यवान् ।
तं तु खस्थं महाभागं कबन्धं रामलक्ष्मणौ ॥ ४३ ॥
प्रस्थितौ त्वं व्रजस्वेति वाक्यमूचतुरन्तिके ।
गम्यतां कार्यसिद्ध्यर्थमिति तावब्रवीत्स च ।
सुप्रीतौ तावनुज्ञाप्य कबन्धः प्रस्थितस्तदा ॥ ४४ ॥
स तत्कबन्धः प्रतिपद्य रूपं
वृतः श्रिया भास्करतुल्यदेहः ।
निदर्शयन् राममवेक्ष्य खस्थः
सख्यं कुरुष्वेति तदाऽभ्युवाच ॥ ४५ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे त्रिसप्ततितमः सर्गः ॥ ७३ ॥
सम्पूर्ण वाल्मीकि रामायणे अरण्यकाण्ड पश्यतु ।
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.