Aranya Kanda Sarga 3 – अरण्यकाण्ड तृतीयः सर्गः (३)


॥ विराधप्रहारः ॥

अथोवाच पुनर्वाक्यं विराधः पूरयन्वनम् ।
आत्मानं पृच्छते ब्रूतं कौ युवां क्व गमिष्यथः ॥ १ ॥

तमुवाच ततो रामो राक्षसं ज्वलिताननम् ।
पृच्छन्तं सुमहातेजा इक्ष्वाकुकुलमात्मनः ॥ २ ॥

क्षत्रियौ वृत्तसम्पन्नौ विद्धि नौ वनगोचरौ ।
त्वां तु वेदितुमिच्छावः कस्त्वं चरसि दण्डकान् ॥ ३ ॥

तमुवाच विराधस्तु रामं सत्यपराक्रमम् ।
हन्त वक्ष्यामि ते राजन्निबोध मम राघव ॥ ४ ॥

पुत्रः किल जयस्याहं मम माता शतह्रदा ।
विराध इति मामाहुः पृथिव्यां सर्वराक्षसाः ॥ ५ ॥

तपसा चापि मे प्राप्ता ब्रह्मणो हि प्रसादजा ।
शस्त्रेणावध्यता लोकेऽच्छेद्याभेद्यत्वमेव च ॥ ६ ॥

उत्सृज्य प्रमदामेनामनपेक्षौ यथागतम् ।
त्वरमाणौ पलायेथां न वां जीवितमाददे ॥ ७ ॥

तं रामः प्रत्युवाचेदं कोपसंरक्तलोचनः ।
राक्षसं विकृताकारं विराधं पापचेतसम् ॥ ८ ॥

क्षुद्र धिक्त्वां तु हीनार्थं मृत्युमन्वेषसे ध्रुवम् ।
रणे सम्प्राप्स्यसे तिष्ठ न मे जीवन्गमिष्यसि ॥ ९ ॥

ततः सज्यं धनुः कृत्वा रामः सुनिशितान् शरान् ।
सुशीघ्रमभिसन्धाय राक्षसं निजघान ह ॥ १० ॥

धनुषा ज्यागुणवता सप्त बाणान्मुमोच ह ।
रुक्मपुङ्खान् महावेगान् सुपर्णानिलतुल्यगान् ॥ ११ ॥

ते शरीरं विराधस्य भित्त्वा बर्हिणवाससः ।
निपेतुः शोणितादिग्धा धरण्यां पावकोपमाः ॥ १२ ॥

स विद्धो न्यस्य वैदेहीं शूलमुद्यम्य राक्षसः ।
अभ्यद्रवत्सुसङ्क्रुद्धस्तदा रामं सलक्ष्मणम् ॥ १३ ॥

स विनद्य महानादं शूलं शक्रध्वजोपमम् ।
प्रगृह्याशोभत तदा व्यात्तानन इवान्तकः ॥ १४ ॥

अथ तौ भ्रातरौ दीप्तं शरवर्षं ववर्षतुः ।
विराधे राक्षसे तस्मिन्कालान्तकयमोपमे ॥ १५ ॥

स प्रहस्य महारौद्रः स्थित्वाऽजृम्भत राक्षसः ।
जृम्भमाणस्य ते बाणाः कायान्निष्पेतुराशुगाः ॥ १६ ॥

स्पर्शात्तु वरदानेन प्राणान् संरोध्य राक्षसः । [बलात्तु]
विराधः शूलमुद्यम्य राघवावभ्यधावत ॥ १७ ॥

तच्छूलं वज्रसङ्काशं गगने ज्वलनोपमम् ।
द्वाभ्यां शराभ्यां चिच्छेद रामः शस्त्रभृतां वरः ॥ १८ ॥

तद्रामविशिखच्छिन्नं शूलं तस्य कराद्भुवि ।
पपाताशनिना छिन्नं मेरोरिव शिलातलम् ॥ १९ ॥

तौ खड्गौ क्षिप्रमुद्यम्य कृष्णसर्पोपमौ शुभौ ।
तूर्णमापततस्तस्य तदा प्राहरतां बलात् ॥ २० ॥

स वध्यमानः सुभृशं बाहुभ्यां परिरभ्य तौ ।
अप्रकम्प्यौ नरव्याघ्रौ रोद्रः प्रस्थातुमैच्छत ॥ २१ ॥

तस्याभिप्रायमाज्ञाय रामो लक्ष्मणमब्रवीत् ।
वहत्वयमलं तावत्पथाऽनेन तु राक्षसः ॥ २२ ॥

यथा चेच्छति सौमित्रे तथा वहतु राक्षसः ।
अयमेव हि नः पन्था येन याति निशाचरः ॥ २३ ॥

स तु स्वबलवीर्येण समुत्क्षिप्य निशाचरः ।
बालाविव स्कन्धगतौ चकारातिबलौ ततः ॥ २४ ॥

तावारोप्य ततः स्कन्धं राघवौ रजनीचरः ।
विराधो निनदन्घोरं जगामाभिमुखो वनम् ॥ २५ ॥

वनं महामेघनिभं प्रविष्टो
द्रुमैर्महद्भिर्विविधैरुपेतम् ।
नानाविधैः पक्षिशतैर्विचित्रं
शिवायुतं व्यालमृगैर्विकीर्णम् ॥ २६ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे तृतीयः सर्गः ॥ ३ ॥


सम्पूर्ण वाल्मीकि रामायणे अरण्यकाण्ड पश्यतु ।


గమనిక: శరన్నవరాత్రుల సందర్భంగా "శ్రీ లలితా స్తోత్రనిధి" మరియు "శ్రీ దుర్గా స్తోత్రనిధి" పుస్తకములు కొనుగోలుకు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed