Narayaneeyam Dasakam 23 – नारायणीयं त्रयोविंशतिदशकम्



नारायणीयं त्रयोविंशतिदशकम् (२३) – दक्षचरितं तथा चित्रकेतूपाख्यानम्

प्राचेतसस्तु भगवन्नपरोऽपि दक्ष-
-स्त्वत्सेवनं व्यधित सर्गविवृद्धिकामः ।
आविर्बभूविथ तदा लसदष्टबाहु-
-स्तस्मै वरं ददिथ तां च वधूमसिक्नीम् ॥ २३-१ ॥

तस्यात्मजास्त्वयुतमीश पुनःसहस्रं
श्रीनारदस्य वचसा तव मार्गमापुः ।
नैकत्रवासमृषये स मुमोच शापं
भक्तोत्तमस्त्वृषिरनुग्रहमेव मेने ॥ २३-२ ॥

षष्ट्या ततो दुहितृभिः सृजतः कुलौघान्
दौहित्रसूनुरथ तस्य स विश्वरूपः ।
त्वत् स्तोत्रवर्मितमजापयदिन्द्रमाजौ
देव त्वदीयमहिमा खलु सर्वजैत्रः ॥ २३-३ ॥

प्राक् शूरसेनविषये किल चित्रकेतुः
पुत्राग्रही नृपतिरङ्गिरसः प्रभावात् ।
लब्ध्वैकपुत्रमथ तत्र हते सपत्नी-
-सङ्घैरमुह्यदवशस्तव माययाऽसौ ॥ २३-४ ॥

तं नारदस्तु सममङ्गिरसा दयालुः
सम्प्राप्य तावदुपदर्श्य सुतस्य जीवम् ।
कस्यास्मि पुत्र इति तस्य गिरा विमोहं
त्यक्त्वा त्वदर्चनविधौ नृपतिं न्ययुङ्क्त ॥ २३-५ ॥

स्तोत्रं च मन्त्रमपि नारदतोऽथ लब्ध्वा
तोषाय शेषवपुषो ननु ते तपस्यन् ।
विद्याधराधिपतितां स हि सप्तरात्रे
लब्ध्वाप्यकुण्ठमतिरन्वभजद्भवन्तम् ॥ २३-६ ॥

तस्मै मृणालधवलेन सहस्रशीर्ष्णा
रूपेण बद्धनुतिसिद्धगणावृतेन ।
प्रादुर्भवन्नचिरतो नुतिभिः प्रसन्नो
दत्त्वाऽऽत्मतत्त्वमनुगृह्य तिरोदधाथ ॥ २३-७ ॥

त्वद्भक्तमौलिरथ सोऽपि च लक्षलक्षं
वर्षाणि हर्षुलमना भुवनेषु कामम् ।
सङ्गापयन् गुणगणं तव सुन्दरीभिः
सङ्गातिरेकरहितो ललितं चचार ॥ २३-८ ॥

अत्यन्तसङ्गविलयाय भवत्प्रणुन्नो
नूनं स रौप्यगिरिमाप्य महत्समाजे ।
निश्शङ्कमङ्ककृतवल्लभमङ्गजारिं
तं शङ्करं परिहसन्नुमयाऽभिशेपे ॥ २३-९ ॥

निस्सम्भ्रमस्त्वयमयाचितशापमोक्षो
वृत्रासुरत्वमुपगम्य सुरेन्द्रयोधी ।
भक्त्याऽऽत्मतत्त्वकथनैः समरे विचित्रं
शत्रोरपि भ्रममपास्य गतः पदं ते ॥ २३-१० ॥

त्वत्सेवनेन दितिरिन्द्रवधोद्यताऽपि
तान् प्रत्युतेन्द्रसुहृदो मरुतोऽभिलेभे ।
दुष्टाशयोऽपि शुभदैव भवन्निषेवा
तत्तादृशस्त्वमव मां पवनालयेश ॥ २३-११ ॥

इति त्रयोविंशदशकं समाप्तम् ॥


మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed