Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
इन्द्र उवाच ।
एकं ब्रह्माद्वितीयं च परिपूर्णं परापरम् ।
इति यो गीयते वेदैस्तं वन्दे सोमसुन्दरम् ॥ १ ॥
ज्ञातृज्ञानज्ञेयरूपं विश्वव्याप्यं व्यवस्थितम् ।
यं सर्वैरप्यदृश्योयस्तं वन्दे सोमसुन्दरम् ॥ २ ॥
अश्वमेधादियज्ञैश्च यः समाराध्यते द्विजैः ।
ददाति च फलं तेषां तं वन्दे सोमसुन्दरम् ॥ ३ ॥
यं विदित्वा बुधाः सर्वे कर्मबन्धविवर्जिताः ।
लभन्ते परमां मुक्तिं तं वन्दे सोमसुन्दरम् ॥ ४ ॥
देवदेवं यमाराध्य मृकण्डुतनयो मुनिः ।
नित्यत्वमगमत्सद्यस्तं वन्दे सोमसुन्दरम् ॥ ५ ॥
निजनेत्राम्बुजकृतं पूजया परितोष्ययम् ।
श्रीपतिर्लभते चक्रं तं वन्दे सोमसुन्दरम् ॥ ६ ॥
येन सर्वं जगत्सृष्टं रक्षितं संहृतं क्रमात् ।
नत्वं विज्ञानमानन्दं तं वन्दे सोमसुन्दरम् ॥ ७ ॥
यस्मात्परं चापरं च किञ्चिद्वस्तु न विद्यते ।
ईश्वरं सर्वभूतानां तं वन्दे सोमसुन्दरम् ॥ ८ ॥
यस्मै वेदाश्च चत्वारो नमस्यन्त वपुर्धराः ।
ईशानं सर्वविद्यानां तं वन्दे सोमसुन्दरम् ॥ ९ ॥
यस्य प्रणाममात्रेण सन्ति सर्वाश्च सम्पदः ।
सर्वसिद्धिप्रदं शम्भुं तं वन्दे सोमसुन्दरम् ॥ १० ॥
यस्य दर्शनमात्रेण ब्रह्महत्यादि पातकम् ।
अवश्यं नश्यति क्षिप्रं तं वन्दे सोमसुन्दरम् ॥ ११ ॥
उत्तमाङ्गं च चरणं ब्रह्मणा विष्णुनापि च ।
न दृश्यते यस्य यत्नस्तं वन्दे सोमसुन्दरम् ॥ १२ ॥
इति श्रीहालास्यमाहात्म्ये इन्द्रकृतं श्रीसोमसुन्दराष्टकम् ।
इतर श्री शिव स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.