Sri Krishna Kavacham 3 (Trailokya Vijaya Kavacham) – श्री कृष्ण कवचम् (त्रैलोक्यविजयम्)



महादेव उवाच ।
त्रैलोक्यविजयस्यास्य कवचस्य प्रजापतिः ।
ऋषिश्छन्दश्च गायत्री देवो रासेश्वरः स्वयम् ॥ १ ॥

त्रैलोक्यविजयप्राप्तौ विनियोगः प्रकीर्तितः ।
परात्परं च कवचं त्रिषु लोकेषु दुर्लभम् ॥ २ ॥

ओम् । प्रणवो मे शिरः पातु श्रीकृष्णाय नमः सदा ।
पायात्कपालं कृष्णाय स्वाहा पञ्चाक्षरः स्मृतः ॥ ३ ॥

कृष्णेति पातु नेत्रे च कृष्ण स्वाहेति तारकम् ।
हरये नम इत्येवं भ्रूलतां पातु मे सदा ॥ ४ ॥

ओं गोविन्दाय स्वाहेति नासिकां पातु सन्ततम् ।
गोपालाय नमो गण्डौ पातु मे सर्वतः सदा ॥ ५ ॥

ओं नमो गोपाङ्गनेशाय कर्णौ पातु सदा मम ।
ओं कृष्णाय नमः शश्वत् पातु मेऽधरयुग्मकम् ॥ ६ ॥

ओं गोविन्दाय स्वाहेति दन्तौघं मे सदाऽवतु ।
पातु कृष्णाय दन्ताधो दन्तोर्ध्वं क्लीं सदाऽवतु ॥ ७ ॥

ओं श्रीकृष्णाय स्वाहेति जिह्विकां पातु मे सदा ।
रासेश्वराय स्वाहेति तालुकं पातु मे सदा ॥ ८ ॥

राधिकेशाय स्वाहेति कण्ठं पातु सदा मम ।
नमो गोपाङ्गनेशाय वक्षः पातु सदा मम ॥ ९ ॥

ओं गोपेशाय स्वाहेति स्कन्धं पातु सदा मम ।
नमः किशोरवेषाय स्वाहा पृष्ठं सदाऽवतु ॥ १० ॥

उदरं पातु मे नित्यं मुकुन्दाय नमः सदा ।
ओं ह्रीं क्लीं कृष्णाय स्वाहेति करौ पातु सदा मम ॥ ११ ॥

ओं विष्णवे नमो बाहुयुग्मं पातु सदा मम ।
ओं ह्रीं भगवते स्वाहा नखरं पातु मे सदा ॥ १२ ॥

ओं नमो नारायणायेति नखरन्ध्रं सदाऽवतु ।
ओं ह्रीं ह्रीं पद्मनाभाय नाभिं पातु सदा मम ॥ १३ ॥

ओं सर्वेशाय स्वाहेति कङ्कालं पातु मे सदा ।
ओं गोपीरमणाय स्वाहा नितम्बं पातु मे सदा ॥ १४ ॥

ओं गोपीरमणनाथाय पादौ पातु सदा मम ।
ओं ह्रीं श्रीं रसिकेशाय स्वाहा सर्वं सदाऽवतु ॥ १५ ॥

ओं केशवाय स्वाहेति मम केशान् सदाऽवतु ।
नमः कृष्णाय स्वाहेति ब्रह्मरन्ध्रं सदाऽवतु ॥ १६ ॥

ओं माधवाय स्वाहेति मे लोमानि सदाऽवतु ।
ओं ह्रीं श्रीं रसिकेशाय स्वाहा सर्वं सदाऽवतु ॥ १७ ॥

परिपूर्णतमः कृष्णः प्राच्यां मां सर्वदाऽवतु ।
स्वयं गोलोकनाथो मामाग्नेयां दिशि रक्षतु ॥ १८ ॥

पूर्णब्रह्मस्वरूपश्च दक्षिणे मां सदाऽवतु ।
नैरृत्यां पातु मां कृष्णः पश्चिमे पातु मां हरिः ॥ १९ ॥

गोविन्दः पातु मां शश्वद्वायव्यां दिशि नित्यशः ।
उत्तरे मां सदा पातु रसिकानां शिरोमणिः ॥ २० ॥

ऐशान्यां मां सदा पातु वृन्दावनविहारकृत् ।
वृन्दावनीप्राणनाथः पातु मामूर्ध्वदेशतः ॥ २१ ॥

सदैव माधवः पातु बलिहारी महाबलः ।
जले स्थले चान्तरिक्षे नृसिंहः पातु मां सदा ॥ २२ ॥

स्वप्ने जागरणे शश्वत् पातु मां माधवः सदा ।
सर्वान्तरात्मा निर्लिप्तः पातु मां सर्वतो विभुः ॥ २३ ॥

इति ते कथितं वत्स सर्वमन्त्रौघविग्रहम् ।
त्रैलोक्यविजयं नाम कवचं परमाद्भुतम् ॥ २४ ॥

इति श्रीब्रह्मवैवर्ते महापुराणे गणपतिखण्डे एकत्रिंशत्तमोऽध्यये श्री कृष्ण कवचम् ॥


इतर श्री कृष्ण स्तोत्राणि पश्यतु ।




స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed