Kishkindha Kanda Sarga 12 – किष्किन्धाकाण्ड द्वादशः सर्गः (१२)



॥ सुग्रीवप्रत्ययदानम् ॥

एतच्च वचनं श्रुत्वा सुग्रीवेण सुभाषितम् ।
प्रत्ययार्थं महातेजा रामो जग्राह कार्मुकम् ॥ १ ॥

स गृहीत्वा धनुर्घोरं शरमेकं च मानदः ।
सालमुद्दिश्य चिक्षेप ज्यास्वनैः पूरयन् दिशः ॥ २ ॥

स विसृष्टो बलवता बाणः स्वर्णपरिष्कृतः ।
भित्त्वा सालान् गिरिप्रस्थे सप्त भूमिं विवेश ह ॥ ३ ॥

प्रविष्टश्च मुहूर्तेन धरां भित्त्वा महाजवः ।
निष्पत्य च पुनस्तूर्णं स्वतूणीं प्रविवेश ह ॥ ४ ॥

तान् दृष्ट्वा सप्त निर्भिन्नान् सालान् वानरपुङ्गवः ।
रामस्य शरवेगेन विस्मयं परमं गतः ॥ ५ ॥

स मूर्ध्ना न्यपतद्भूमौ प्रलम्बीकृतभूषणः ।
सुग्रीवः परमप्रीतो राघवाय कृताञ्जलिः ॥ ६ ॥

इदं चोवाच धर्मज्ञं कर्मणा तेन हर्षितः ।
रामं सर्वास्त्रविदुषां श्रेष्ठं शूरमवस्थितम् ॥ ७ ॥

सेन्द्रानपि सुरान् सर्वांस्त्वं बाणैः पुरुषर्षभ ।
समर्थः समरे हन्तुं किं पुनर्वालिनं प्रभो ॥ ८ ॥

येन सप्त महासाला गिरिर्भूमिश्च दारिताः ।
बाणेनैकेन काकुत्स्थ स्थाता ते को रणाग्रतः ॥ ९ ॥

अद्य मे विगतः शोकः प्रीतिरद्यः परा मम ।
सुहृदं त्वां समासाद्य महेन्द्रवरुणोपमम् ॥ १० ॥

तमद्यैव प्रियार्थं मे वैरिणं भ्रातृरूपिणम् ।
वालिनं जहि काकुत्स्थ मया बद्धोऽयमञ्जलिः ॥ ११ ॥

ततो रामः परिष्वज्य सुग्रीवं प्रियदर्शनम् ।
प्रत्युवाच महाप्राज्ञो लक्ष्मणानुमतं वचः ॥ १२ ॥

अस्माद्गच्छेम किष्किन्धां क्षिप्रं गच्छ त्वमग्रतः ।
गत्वा चाह्वय सुग्रीव वालिनं भ्रातृगन्धिनम् ॥ १३ ॥

सर्वे ते त्वरितं गत्वा किष्किन्धां वालिनः पुरीम् ।
वृक्षैरात्मानमावृत्य व्यतिष्ठन् गहने वने ॥ १४ ॥

सुग्रीवो व्यनदद्घोरं वालिनो ह्वानकारणात् ।
गाढं परिहितो वेगान्नादैर्भिन्दन्निवाम्बरम् ॥ १५ ॥

ननाद सुमहानादं पूरयन्वै नभः स्थलम् ।
तं श्रुत्वा निनदं भ्रातुः क्रुद्धो वाली महाबलः ॥ १६ ॥

निष्पपात सुसंरब्धो भास्करोऽस्ततटादिव ।
ततः सुतुमुलं युद्धं वालिसुग्रीवयोरभूत् ॥ १७ ॥

गगने ग्रहयोर्घोरं बुधाङ्गारकयोरिव ।
तलैरशनिकल्पैश्च वज्रकल्पैश्च मुष्टिभिः ॥ १८ ॥

जघ्नतुः समरेऽन्योन्यं भ्रातरौ क्रोधमूर्छितौ ।
ततो रामो धनुष्पाणिस्तावुभौ समुदीक्ष्य तु ॥ १९ ॥

अन्योन्यसदृशौ वीरावुभौ देवाविवाश्विनौ ।
यन्नावगच्छत् सुग्रीवं वालिनं वाऽपि राघवः ॥ २० ॥

ततो न कृतवान् बुद्धिं मोक्तुमन्तकरं शरम् ।
एतस्मिन्नन्तरे भग्नः सुग्रीवस्तेन वालिना ॥ २१ ॥

अपश्यन् राघवं नाथमृश्यमूकं प्रदुद्रुवे ।
क्लान्तो रुधिरसिक्ताङ्गः प्रहारैर्जर्जरीकृतः ॥ २२ ॥

वालिनाऽभिद्रुतः क्रोधात् प्रविवेश महावनम् ।
तं प्रविष्टं वनं दृष्ट्वा वाली शापभयार्दितः ॥ २३ ॥

मुक्तो ह्यसि त्वमित्युक्त्वा सन्निवृत्तो महाद्युतिः ।
राघवोऽपि सह भ्रात्रा सह चैव हनूमता ॥ २४ ॥

तदेव वनमागच्छत् सुग्रीवो यत्र वानरः ।
तं समीक्ष्यागतं रामं सुग्रीवः सहलक्ष्मणम् ॥ २५ ॥

ह्रीमान् दीनमुवाचेदं वसुधामवलोकयन् ।
आह्वयस्वेति मामुक्त्वा दर्शयित्वा च विक्रमम् ॥ २६ ॥

वैरिणा घातयित्वा च किमिदानीं त्वया कृतम् ।
तामेव वेलां वक्तव्यं त्वया राघव तत्त्वतः ॥ २७ ॥

वालिनं न निहन्मीति ततो नाहमितो व्रजे ।
तस्य चैवं ब्रुवाणस्य सुग्रीवस्य महात्मनः ॥ २८ ॥

करुणं दीनया वाचा राघवः पुनरब्रवीत् ।
सुग्रीव श्रूयतां तात क्रोधश्च व्यपनीयताम् ॥ २९ ॥

कारणं येन बाणोऽयं न मया स विसर्जितः ।
अलङ्कारेण वेषेण प्रमाणेन गतेन च ॥ ३० ॥

त्वं च सुग्रीव वाली च सदृशौ स्थः परस्परम् ।
स्वरेण वर्चसा चैव प्रेक्षितेन च वानर ॥ ३१ ॥

विक्रमेण च वाक्यैश्च व्यक्तिं वां नोपलक्षये ।
ततोऽहं रूपसादृश्यान्मोहितो वानरोत्तम ॥ ३२ ॥

नोत्सृजामि महावेगं शरं शत्रुनिबर्हणम् ।
जीवितान्तकरं घोरं सादृश्यात्तु विशङ्कितः ॥ ३३ ॥

मूलघातो न नौ स्याद्धि द्वयोरपि कृतो मया ।
त्वयि वीरे विपन्ने हि अज्ञानाल्लाघवान्मया ॥ ३४ ॥

मौढ्यं च मम बाल्यं च ख्यापितं स्याद्धरीश्वर ।
दत्ताभयवधो नाम पातकं महदुच्यते ॥ ३५ ॥

अहं च लक्ष्मणश्चैव सीता च वरवर्णिनी ।
त्वदधीना वयं सर्वे वनेऽस्मिन् शरणं भवान् ॥ ३६ ॥

तस्माद्युध्यस्व भूयस्त्वं निश्शङ्को वानरेश्वर ।
अस्मिन्मुहूर्ते सुग्रीव पश्य वालिनमाहवे ॥ ३७ ॥

निरस्तमिषुणैकेन वेष्टमानं महीतले ।
अभिज्ञानं कुरुष्व त्वमात्मनो वानरेश्वर ॥ ३८ ॥

येन त्वामभिजानीयां द्वन्द्वयुद्धमुपागतम् ।
गजपुष्पीमिमां फुल्लामुत्पाट्य शुभलक्षणाम् ॥ ३९ ॥

कुरु लक्ष्मण कण्ठेऽस्य सुग्रीवस्य महात्मनः ।
ततो गरितटे जातामुत्पाट्य कुसुमाकुलाम् ॥ ४० ॥

लक्ष्मणो गजपुष्पीं तां तस्य कण्ठे व्यसर्जयत् ।
स तया शुशुभे श्रीमान् लतया कण्ठसक्तया ॥ ४१ ॥

मालयेव बलाकानां ससन्ध्य इव तोयदः ।
विभ्राजमानो वपुषा रामवाक्यसमाहितः ।
जगाम सह रामेण किष्किन्धां वालिपालिताम् ॥ ४२ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे द्वादशः सर्गः ॥ १२ ॥


सम्पूर्ण वाल्मीकि रामायणे किष्किन्धकाण्ड पश्यतु ।


మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed