Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
सर्वेन्द्रियाणां प्रवरं विष्णोरंशं च मानसम् ।
तदेव कर्मणां बीजं तदुद्भव नमोऽस्तु ते ॥ १ ॥
स्वयमात्मा हि भगवान् ज्ञानरूपो महेश्वरः ।
नमो ब्रह्मन् जगत् स्रष्टस्तदुद्भव नमोऽस्तु ते ॥ २ ॥
सर्वाजित जगज्जेतर्जीवजीवमनोहर ।
रतिबीज रतिस्वामिन् रतिप्रिय नमोऽस्तु ते ॥ ३ ॥
शश्वद्योषिदधिष्ठान योषित्प्राणाधिकप्रियः ।
योषिद्वाहन योषास्त्र योषिद्बन्धो नमोऽस्तु ते ॥ ४ ॥
पतिसाध्यकराशेषरूपाधार गुणाश्रय ।
सुगन्धिवातसचिव मधुमित्र नमोऽस्तु ते ॥ ५ ॥
शश्वद्योनिकृताधार स्त्रीसन्दर्शनवर्धन ।
विदग्धानां विरहिणां प्राणान्तक नमोऽस्तु ते ॥ ६ ॥
अकृपा येषु तेऽनर्थस्तेषां ज्ञानविनाशनम् ।
अनूहरूप भक्तेषु कृपासिन्धो नमोऽस्तु ते ॥ ७ ॥
तपस्विनां च तपसां विघ्नबीजावलीलया ।
मनः सकामं मुक्तानां कर्तुं शक्त नमोऽस्तु ते ॥ ८ ॥
तपः साध्याश्चाऽऽराध्याश्च सदैवं पाञ्चभौतिकाः ।
पञ्चेन्द्रियकृताधारं पञ्चबाण नमोऽस्तु ते ॥ ९ ॥
मोहिनीत्येवमुक्त्वा तु मनसा सा विधेः पुरः ।
विरराम नम्रवक्त्रा बभूव ध्यानतत्परा ॥ १० ॥
उक्तं माध्यन्दिने कान्ते स्तोत्रमेतन्मनोहरम् ।
पुरा दुर्वाससा दत्तं मोहिन्यै गन्धमादने ॥ ११ ॥
स्तोत्रमेतन्महापुण्यं कामी भक्त्या यदा पठेत् ।
अभीष्टं लभते नूनं निष्कलङ्को भवेद्ध्रुवम् ॥ १२ ॥
चेष्टां न कुरुते कामः कदाचिदपि तं प्रियम् ।
भवेदरोगी श्रीयुक्तः कामदेवसमप्रभः ।
वनितां लभते साध्वीं पत्नीं त्रैलोक्यमोहिनीम् ॥ १३ ॥
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे एकत्रिंशोऽध्याये मोहिनीकृत श्री कृष्ण स्तोत्रम् ॥
इतर श्री कृष्ण स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.