Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
॥ लक्ष्मणशङ्काप्रतिसमाधानम् ॥
सा तं सम्प्रेक्ष्य सुश्रोणी कुसुमान्यपचिन्वती ।
हैमराजतवर्णाभ्यां पार्श्वाभ्यामुपशोभितम् ॥ १ ॥
प्रहृष्टा चानवद्याङ्गी मृष्टहाटकवर्णिनी ।
भर्तारमभिचक्रन्द लक्ष्मणं चापि सायुधम् ॥ २ ॥
तयाऽऽहूतौ नरव्याघ्रौ वैदेह्या रामलक्ष्मणौ ।
वीक्षमाणौ तु तं देशं तदा ददृशतुर्मृगम् ॥ ३ ॥
शङ्कमानस्तु तं दृष्ट्वा लक्ष्मणो राममब्रवीत् ।
तमेवैनमहं मन्ये मारीचं राक्षसं मृगम् ॥ ४ ॥
चरन्तो मृगयां हृष्टाः पापेनोपाधिना वने ।
अनेन निहता राजन् राजानः कामरूपिणा ॥ ५ ॥
अस्य मायाविदो मायामृगरूपमिदं कृतम् ।
भानुमत् पुरुषव्याघ्र गन्धर्वपुरसन्निभम् ॥ ६ ॥
मृगो ह्येवं विधो रत्नविचित्रो नास्ति राघव ।
जगत्यां जगतीनाथ मायैषा हि न संशयः ॥ ७ ॥
एवं ब्रुवाणं काकुत्स्थं प्रतिवार्य शुचिस्मिता ।
उवाच सीता संहृष्टा चर्मणा हृतचेतना ॥ ८ ॥
आर्यपुत्राभिरामोऽसौ मृगो हरति मे मनः ।
आनयैनं महाबाहो क्रीडार्थं नो भविष्यति ॥ ९ ॥
इहाश्रमपदेऽस्माकं बहवः पुण्यदर्शनाः ।
मृगाश्चरन्ति सहिताः सृमराश्चमरास्तथा ॥ १० ॥
ऋक्षाः पृषतसङ्घाश्च वानराः किन्नरास्तथा ।
विचरन्ति महाबाहो रूपश्रेष्ठा मनोहराः ॥ ११ ॥
न चास्य सदृशो राजन् दृष्टपूर्वो मृगः पुरा ।
तेजसा क्षमया दीप्त्या यथाऽयं मृगसत्तमः ॥ १२ ॥
नानावर्णविचित्राङ्गो रत्नबिन्दुसमाचितः ।
द्योतयन् वनमव्यग्रं शोभते शशिसन्निभः ॥ १३ ॥
अहो रूपमहो लक्ष्मीः स्वरसम्पच्च शोभना ।
मृगोऽद्भुतो विचित्राङ्गो हृदयं हरतीव मे ॥ १४ ॥
यदि ग्रहणमभ्येति जीवन्नेव मृगस्तव ।
आश्चर्यभूतं भवति विस्मयं जनयिष्यति ॥ १५ ॥
समाप्तवनवासानां राज्यस्थानां च नः पुनः ।
अन्तःपुरविभूषार्थो मृग एष भविष्यति ॥ १६ ॥
भरतस्यार्यपुत्रस्य श्वश्रूणां मम च प्रभो ।
मृगरूपमिदं व्यक्तं विस्मयं जनयिष्यति ॥ १७ ॥
जीवन्न यदि तेऽभ्येति ग्रहणं मृगसत्तमः ।
अजिनं नरशार्दूल रुचिरं मे भविष्यति ॥ १८ ॥
निहतस्यास्य सत्त्वस्य जाम्बूनदमयत्वचि ।
शष्पबृस्यां विनीतायामिच्छाम्यहमुपासितुम् ॥ १९ ॥
कामवृत्तमिदं रौद्रं स्त्रीणामसदृशं मतम् ।
वपुषा त्वस्य सत्त्वस्य विस्मयो जनितो मम ॥ २० ॥
तेन काञ्चनरोम्णा तु मणिप्रवरशृङ्गिणा ।
तरुणादित्यवर्णेन नक्षत्रपथवर्चसा ॥ २१ ॥
बभूव राघवस्यापि मनो विस्मयमागतम् ।
एवं सीतावचः श्रुत्वा तं दृष्ट्वा मृगमद्भुतम् ॥ २२ ॥
लोभितस्तेन रूपेण सीताया च प्रचोदितः ।
उवाच राघवो हृष्टो भ्रातरं लक्ष्मणं वचः ॥ २३ ॥
पश्य लक्ष्मण वैदेह्याः स्पृहां मृगगतामिमाम् ।
रूपश्रेष्ठतया ह्येष मृगोऽद्य न भविष्यति ॥ २४ ॥
न वने नन्दनोद्देशे न चैत्ररथसंश्रये ।
कुतः पृथिव्यां सौमित्रे योऽस्य कश्चित्समो मृगः ॥ २५ ॥
प्रतिलोमानुलोमाश्च रुचिरा रोमराजयः ।
शोभन्ते मृगमाश्रित्य चित्राः कनकबिन्दुभिः ॥ २६ ॥
पश्यास्य जृम्भमाणस्य दीप्तामग्निशिखोपमाम् ।
जिह्वां मुखान्निःसरन्तीं मेघादिव शतह्रदाम् ॥ २७ ॥
मसारगल्लर्कमुखः शङ्खमुक्तानिभोदरः ।
कस्य नामाभिरूपोऽसौ न मनो लोभयेन्मृगः ॥ २८ ॥
कस्य रूपमिदं दृष्ट्वा जाम्बूनदमयं प्रभो ।
नानारत्नमयं दिव्यं न मनो विस्मयं व्रजेत् ॥ २९ ॥
[* किं पुनर्मैथिली सीता बाला नारी न विस्मयेत् । *]
मांसहेतोरपि मृगान् विहारार्थं च धन्विनः ।
घ्नन्ति लक्ष्मण राजानो मृगयायां महावने ॥ ३० ॥
धनानि व्यवसायेन विचीयन्ते महावने ।
धातवो विविधाश्चापि मणिरत्नसुवर्णिनः ॥ ३१ ॥
तत्सारमखिलं नॄणां धनं निचयवर्धनम् ।
मनसा चिन्तितं सर्वं यथा शुक्रस्य लक्ष्मण ॥ ३२ ॥
अर्थी येनार्थकृत्येन संव्रजत्यविचारयन् ।
तमर्थमर्थशास्त्रज्ञाः प्राहुरर्थ्याश्च लक्ष्मण ॥ ३३ ॥
एतस्य मृगरत्नस्य परार्ध्ये काञ्चनत्वचि ।
उपवेक्ष्यति वैदेही मया सह सुमध्यमा ॥ ३४ ॥
न कादली न प्रियकी न प्रवेणी न चाविकी ।
भवेदेतस्य सदृशी स्पर्शनेनेति मे मतिः ॥ ३५ ॥
एष चैव मृगः श्रीमान् यश्च दिव्यो नभश्चरः ।
उभावेतौ मृगौ दिव्यौ तारामृगमहीमृगौ ॥ ३६ ॥
यदि वाऽयं तथा यन्मां भवेद्वदसि लक्ष्मण ।
मायैषा राक्षसस्येति कर्तव्योऽस्य वधो मया ॥ ३७ ॥
एतेन हि नृशंसेन मारीचेनाकृतात्मना ।
वने विचरता पूर्वं हिंसिता मुनिपुङ्गवाः ॥ ३८ ॥
उत्थाय बहवो येन मृगयायां जनाधिपाः ।
निहताः परमेष्वासास्तस्माद्वध्यस्त्वयं मृगः ॥ ३९ ॥
पुरस्तादिह वातापिः परिभूय तपस्विनः ।
उदरस्थो द्विजान् हन्ति स्वगर्भोऽश्वतरीमिव ॥ ४० ॥
स कदाचिच्चिराल्लोभादाससाद महामुनिम् ।
अगस्त्यं तेजसा युक्तं भक्ष्यस्तस्य बभूव ह ॥ ४१ ॥
समुत्थाने च तद्रूपं कर्तुकामं समीक्ष्य तम् ।
उत्स्मयित्वा तु भगवान् वातापिमिदमब्रवीत् ॥ ४२ ॥
त्वयाविगण्य वातापे परिभूताः स्वतेजसा ।
जीवलोके द्विजश्रेष्ठास्तस्मादसि जरां गतः ॥ ४३ ॥
तदेतन्न भवेद्रक्षो वातापिरिव लक्ष्मण ।
मद्विधं योऽतिमन्येत धर्मनित्यं जितेन्द्रियम् ॥ ४४ ॥
भवेद्धतोऽयं वातापिरगस्त्येनेव मां गतः ।
इह त्वं भव सन्नद्धो यन्त्रितो रक्ष मैथिलीम् ॥ ४५ ॥
अस्यामायत्तमस्माकं यत्कृत्यं रघुनन्दन ।
अहमेनं वधिष्यामि ग्रहीष्याम्यपि वा मृगम् ॥ ४६ ॥
यावद्गच्छामि सौमित्रे मृगमानयितुं द्रुतम् ।
पश्य लक्ष्मण वैदेहीं मृगत्वचि गतस्पृहाम् ॥ ४७ ॥
त्वचा प्रधानया ह्येष मृगोऽद्य न भविष्यति ।
अप्रमत्तेन ते भाव्यमाश्रमस्थेन सीतया ॥ ४८ ॥
यावत्पृषतमेकेन सायकेन निहन्म्यहम् ।
हत्वैतच्चर्म चादाय शीघ्रमेष्यामि लक्ष्मण ॥ ४९ ॥
प्रदक्षिणेनातिबलेन पक्षिणा
जटायुषा बुद्धिमता च लक्ष्मण ।
भवाप्रमत्तः प्रतिगृह्य मैथिलीं
प्रतिक्षणं सर्वत एव शङ्कितः ॥ ५० ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे त्रिचत्वारिंशः सर्गः ॥ ४३ ॥
सम्पूर्ण वाल्मीकि रामायणे अरण्यकाण्ड पश्यतु ।
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

