Sri Damodara Stotram – श्री दामोदर स्तोत्रम्


सिन्धुदेशोद्भवो विप्रो नाम्ना सत्यव्रतः सुधीः ।
विरक्त इन्द्रियार्थेभ्यस्त्यक्त्वा पुत्रगृहादिकम् ॥ १ ॥

वृन्दावने स्थितः कृष्णमारराध दिवानिशम् ।
निःस्वः सत्यव्रतो विप्रो निर्जनेऽव्यग्रमानसः ॥ २ ॥

कार्तिके पूजयामास प्रीत्या दामोदरं नृप ।
तृतीयेऽह्नि सकृद्भुङ्क्ते पत्रं मूलं फलं तथा ॥ ३ ॥

एवं भावसमायुक्तो भक्त्या तद्गतमानसः ।
पूजयित्वा हरिं स्तौति प्रीत्या दामोदराभिधम् ॥ ४ ॥

सत्यव्रत उवाच ।
नमामीश्वरं सच्चिदानन्दरूपं
लसत्कुण्डलं गोकुले भ्राजमानम् ।
यशोदाभियोलूखले धावमानं
परामृष्टमत्यन्ततो दूतगोप्या ॥ ५ ॥

रुदन्तं मुहुर्नेत्रयुग्मं मृजन्तं
कराम्भोजयुग्मेन सातङ्कनेत्रम् ।
मुहुः श्वासकं पत्रिरेखाङ्ककण्ठं
स्थितं नौमि दामोदरं भक्तवन्द्यम् ॥ ६ ॥

वरं देव देहीश मोक्षावधिं वा
न चान्यं वृणेऽहं वरेशादपीह ।
इदं ते वपुर्नाथ गोपालबालं
सदा मे मनस्याविरास्तां किमन्यैः ॥ ७ ॥

इदं ते मुखाम्भोजमत्यन्तनीलै-
-र्वृतं कुन्तलैः स्निग्धवक्त्रैश्च गोप्या ।
मुहुश्चुम्बितं बिम्बरक्ताधरं मे
मनस्याविरास्तामलं लक्षलाभैः ॥ ८ ॥

नमो देव दामोदरानन्त विष्णो
प्रसीद प्रभो दुःखजालाब्धिमग्नम् ।
कृपादृष्टिवृष्ट्याऽतिदीनं च रक्ष
गृहाणेश मामज्ञमेवाक्षिदृश्यम् ॥ ९ ॥

कुबेरात्मजौ वृक्षमूर्ती च यद्व-
-त्त्वया मोचितौ भक्तिभाजौ कृतौ च ।
तथा प्रेमभक्तिं स्वकां मे प्रयच्छ
न मोक्षे ग्रहो मेऽस्ति दामोदरेह ॥ १० ॥

नमस्ते सुधाम्ने स्फुरद्दीप्तधाम्ने
तथोरःस्थविश्वस्य धाम्ने नमस्ते ।
नमो राधिकायै त्वदीयप्रियायै
नमोऽनन्तलीलाय देवाय तुभ्यम् ॥ ११ ॥

नारद उवाच ।
सत्यव्रतद्विजस्तोत्रं श्रुत्वा दामोदरो हरिः ।
विद्युल्लीलाचमत्कारो हृदये शनकैरभूत् ॥ १२ ॥

इति श्रीमहापुराणे सत्यव्रतकृत श्री दामोदर स्तोत्रम् ।


इतर श्री कृष्ण स्तोत्राणि पश्यतु ।


గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed