Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ध्वान्तदन्तिकेसरी हिरण्यकान्तिभासुरः
कोटिरश्मिभूषितस्तमोहरोऽमितद्युतिः ।
वासरेश्वरो दिवाकरः प्रभाकरः खगो
भास्करः सदैव पातु मां विभावसू रविः ॥ १ ॥
यक्षसिद्धकिन्नरादिदेवयोनिसेवितं
तापसैरृषीश्वरैश्च नित्यमेव वन्दितम् ।
तप्तकाञ्चनाभमर्कमादिदैवतं रविं
विश्वचक्षुषं नमामि सादरं महाद्युतिम् ॥ २ ॥
भानुना वसुन्धरा पुरैव निर्मिता तथा
भास्करेण तेजसा सदैव पालिता मही ।
भूर्विलीनतां प्रयाति काश्यपेयवर्चसा
तं रवि भजाम्यहं सदैव भक्तिचेतसा ॥ ३ ॥
अंशुमालिने तथा च सप्तसप्तये नमो
बुद्धिदायकाय शक्तिदायकाय ते नमः ।
अक्षराय दिव्यचक्षुषेऽमृताय ते नमः
शङ्खचक्रभूषणाय विष्णुरूपिणे नमः ॥ ४ ॥
भानवीयभानुभिर्नभस्तलं प्रकाशते
भास्करस्य तेजसा निसर्ग एष वर्धते ।
भास्करस्य भा सदैव मोदमातनोत्यसौ
भास्करस्य दिव्यदीप्तये सदा नमो नमः ॥ ५ ॥
अन्धकारनाशकोऽसि रोगनाशकस्तथा
भो ममापि नाशयाशु देहचित्तदोषताम् ।
पापदुःखदैन्यहारिणं नमामि भास्करं
शक्तिधैर्यबुद्धिमोददायकाय ते नमः ॥ ६ ॥
भास्करं दयार्णवं मरीचिमन्तमीश्वरं
लोकरक्षणाय नित्यमुद्यतं तमोहरम् ।
चक्रवाकयुग्मयोगकारिणं जगत्पतिं
पद्मिनीमुखारविन्दकान्तिवर्धनं भजे ॥ ७ ॥
सप्तसप्तिसप्तकं सदैव यः पठेन्नरो
भक्तियुक्तचेतसा हृदि स्मरन् दिवाकरम् ।
अज्ञतातमो विनाश्य तस्य वासरेश्वरो
नीरुजं तथा च तं करोत्यसौ रविः सदा ॥ ८ ॥
इति श्री आपटीकरविरचितं सप्तसप्तिसप्तकं नाम श्री भास्कर सप्तकम् ।
इतर श्री सूर्य स्तोत्राणि पश्यतु । इतर नवग्रह स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.