Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
सौरिः शनैश्चरः कृष्णो नीलोत्पलनिभः शनिः ।
शुष्कोदरो विशालाक्षो दुर्निरीक्ष्यो विभीषणः ॥ १ ॥
शितिकण्ठनिभो नीलश्छायाहृदयनन्दनः ।
कालदृष्टिः कोटराक्षः स्थूलरोमावलीमुखः ॥ २ ॥
दीर्घो निर्मांसगात्रस्तु शुष्को घोरो भयानकः ।
नीलांशुः क्रोधनो रौद्रो दीर्घश्मश्रुर्जटाधरः ॥ ३ ॥
मन्दो मन्दगतिः खञ्जोऽतृप्तः संवर्तको यमः ।
ग्रहराजः कराली च सूर्यपुत्रो रविः शशी ॥ ४ ॥
कुजो बुधो गुरुः काव्यो भानुजः सिंहिकासुतः ।
केतुर्देवपतिर्बाहुः कृतान्तो नैरृतस्तथा ॥ ५ ॥
शशी मरुत् कुबेरश्च ईशानः सुर आत्मभूः ।
विष्णुर्हरो गणपतिः कुमारः काम ईश्वरः ॥ ६ ॥
कर्ता हर्ता पालयिता राज्येशो राज्यदायकः ।
छायासुतः श्यामलाङ्गो धनहर्ता धनप्रदः ॥ ७ ॥
क्रूरकर्मविधाता च सर्वकर्मावरोधकः ।
तुष्टो रुष्टः कामरूपः कामदो रविनन्दनः ॥ ८ ॥
ग्रहपीडाहरः शान्तो नक्षत्रेशो ग्रहेश्वरः ।
स्थिरासनः स्थिरगतिर्महाकायो महाबलः ॥ ९ ॥
महाप्रभो महाकालः कालात्मा कालकालकः ।
आदित्यभयदाता च मृत्युरादित्यनन्दनः ॥ १० ॥
शतभिद्रुक्षदयिता त्रयोदशीतिथिप्रियः ।
तिथ्यात्मकस्तिथिगणो नक्षत्रगणनायकः ॥ ११ ॥
योगराशिर्मुहूर्तात्मा कर्ता दिनपतिः प्रभुः ।
शमीपुष्पप्रियः श्यामस्त्रैलोक्यभयदायकः ॥ १२ ॥
नीलवासाः क्रियासिन्धुर्नीलाञ्जनचयच्छविः ।
सर्वरोगहरो देवः सिद्धो देवगणस्तुतः ॥ १३ ॥
अष्टोत्तरशतं नाम्नां सौरेश्छायासुतस्य यः ।
पठेन्नित्यं तस्य पीडा समस्ता नश्यति ध्रुवम् ॥ १४ ॥
इति श्रीभविष्यपुराणे श्री शनैश्चर अष्टोत्तरशतनाम स्तोत्रम् ।
इतर नवग्रह स्तोत्राणि पश्यतु |
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

