Sri Hayagriva Ashtottara Shatanama Stotram – श्री हयग्रीव अष्टोत्तरशतनाम स्तोत्रम्


ध्यानम् ।
ज्ञानानन्दमयं देवं निर्मलं स्फटिकाकृतिम् ।
आधारं सर्वविद्यानां हयग्रीवमुपास्महे ॥

स्तोत्रम् ।
हयग्रीवो महाविष्णुः केशवो मधुसूदनः ।
गोविन्दः पुण्डरीकाक्षो विष्णुर्विश्वम्भरो हरिः ॥ १ ॥

आदित्यः सर्ववागीशः सर्वाधारः सनातनः । [आदीशः]
निराधारो निराकारो निरीशो निरुपद्रवः ॥ २ ॥

निरञ्जनो निष्कलङ्को नित्यतृप्तो निरामयः ।
चिदानन्दमयः साक्षी शरण्यः सर्वदायकः ॥ ३ ॥

श्रीमान् लोकत्रयाधीशः शिवः सारस्वतप्रदः ।
वेदोद्धर्ता वेदनिधिर्वेदवेद्यः पुरातनः ॥ ४ ॥

पूर्णः पूरयिता पुण्यः पुण्यकीर्तिः परात्परः ।
परमात्मा परञ्ज्योतिः परेशः पारगः परः ॥ ५ ॥

सर्ववेदात्मको विद्वान् वेदवेदाङ्गपारगः ।
सकलोपनिषद्वेद्यो निष्कलः सर्वशास्त्रकृत् ॥ ६ ॥

अक्षमालाज्ञानमुद्रायुक्तहस्तो वरप्रदः ।
पुराणपुरुषः श्रेष्ठः शरण्यः परमेश्वरः ॥ ७ ॥

शान्तो दान्तो जितक्रोधो जितामित्रो जगन्मयः ।
जन्ममृत्युहरो जीवो जयदो जाड्यनाशनः ॥ ८ ॥

जपप्रियो जपस्तुत्यो जपकृत्प्रियकृद्विभुः ।
[* जयश्रियोर्जितस्तुल्यो जापकप्रियकृद्विभुः । *]
विमलो विश्वरूपश्च विश्वगोप्ता विधिस्तुतः ॥ ९ ॥

विधिविष्णुशिवस्तुत्यः शान्तिदः क्षान्तिकारकः ।
श्रेयःप्रदः श्रुतिमयः श्रेयसां पतिरीश्वरः ॥ १० ॥

अच्युतोऽनन्तरूपश्च प्राणदः पृथिवीपतिः ।
अव्यक्तो व्यक्तरूपश्च सर्वसाक्षी तमोहरः ॥ ११ ॥

अज्ञाननाशको ज्ञानी पूर्णचन्द्रसमप्रभः ।
ज्ञानदो वाक्पतिर्योगी योगीशः सर्वकामदः ॥ १२ ॥

योगारूढो महापुण्यः पुण्यकीर्तिरमित्रहा ।
विश्वसाक्षी चिदाकारः परमानन्दकारकः ॥ १३ ॥

महायोगी महामौनी मौनीशः श्रेयसां निधिः ।
हंसः परमहंसश्च विश्वगोप्ता विराट् स्वराट् ॥ १४ ॥

शुद्धस्फटिकसङ्काशो जटामण्डलसम्युतः ।
आदिमध्यान्तरहितः सर्ववागीश्वरेश्वरः ।
प्रणवोद्गीथरूपश्च वेदाहरणकर्मकृत् ॥ १५ ॥

फलश्रुतिः ।
नाम्नामष्टोत्तरशतं हयग्रीवस्य यः पठेत् ।
स सर्ववेदवेदाङ्गशास्त्राणां पारगः कविः ॥ १६ ॥

इदमष्टोत्तरशतं नित्यं मूढोऽपि यः पठेत् ।
वाचस्पतिसमो बुद्ध्या सर्वविद्याविशारदः ॥ १७ ॥

महदैश्वर्यमाप्नोति कलत्राणि च पुत्रकान् ।
नश्यन्ति सकलाः रोगाः अन्ते हरिपुरं प्रजेत् ॥ १८ ॥

इति श्रीब्रह्माण्डपुराणे श्री हयग्रीवाष्टोत्तरशतनाम स्तोत्रम् ।


इतर श्री विष्णु स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed