Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
स्फुरद्विद्युद्वल्लीवलयितमगोत्सङ्गवसतिं
भवाप्पित्तप्लुष्टानमितकरुणाजीवनवशात् ।
अवन्तं भक्तानामुदयकरमम्भोधर इति
प्रमोदादावासं व्यतनुत मयूरोऽस्य सविधे ॥ १ ॥
सुब्रह्मण्यो यो भवेज्ज्ञानशक्त्या
सिद्धं तस्मिन्देवसेनापतित्वम् ।
इत्थं शक्तिं देवसेनापतित्वं
सुब्रह्मण्यो बिभ्रदेष व्यनक्ति ॥ २ ॥
पक्षोऽनिर्वचनीयो दक्षिण इति धियमशेषजनतायाः ।
जनयति बर्ही दक्षिणनिर्वचनायोग्यपक्षयुक्तोऽयम् ॥ ३ ॥
यः पक्षमनिर्वचनं याति समवलम्ब्य दृश्यते तेन ।
ब्रह्म परात्परममलं सुब्रह्मण्याभिधं परं ज्योतिः ॥ ४ ॥
षण्मुखं हसन्मुखं सुखाम्बुराशिखेलनं
सन्मुनीन्द्रसेव्यमानपादपङ्कजं सदा ।
मन्मथादिशत्रुवर्गनाशकं कृपाम्बुधिं
मन्महे मुदा हृदि प्रपन्नकल्पभूरुहम् ॥ ५ ॥
इति जगद्गुरु शृङ्गेरीपीठाधिप श्रीचन्द्रशेखरभारती श्रीपादैः विरचिता श्रीषण्मुखपञ्चरत्नस्तुतिः ।
इतर श्री सुब्रह्मण्य स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.