Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
॥ गुहलक्ष्मणजागरणम् ॥
तं जाग्रतमदम्भेन भ्रातुरर्थाय लक्ष्मणम् ।
गुहः सन्तापसन्तप्तो राघवं वाक्यमब्रवीत् ॥ १ ॥
इयं तात सुखा शय्या त्वदर्थमुपकल्पिता ।
प्रत्याश्वसिहि साध्वस्यां राजपुत्र यथासुखम् ॥ २ ॥
उचितोऽयं जनः सर्वः क्लेशानां त्वं सुखोचितः ।
गुप्त्यर्थं जागरिष्यामः काकुत्स्थस्य वयं निशाम् ॥ ३ ॥
न हि रामात्प्रियतरो ममास्ति भुवि कश्चन ।
ब्रवीम्येतदहं सत्यं सत्येनैव च ते शपे ॥ ४ ॥
अस्य प्रसादादाशंसे लोकेऽस्मिन्सुमहद्यशः ।
धर्मावाप्तिं च विपुलामर्थावाप्तिं च केवलाम् ॥ ५ ॥
सोऽहं प्रियतमं रामं शयानं सह सीतया ।
रक्षिष्यामि धनुष्पाणिः सर्वतः ज्ञातिभिः सह ॥ ६ ॥
न हि मेऽविदितं किञ्चिद्वनेऽस्मिंश्चरतः सदा ।
चतुरङ्गं ह्यपि बलं सुमहत्प्रसहेमहि ॥ ७ ॥
लक्ष्मणस्तं तदोवाच रक्ष्यमाणास्त्वयाऽनघ ।
नात्र भीता वयं सर्वे धर्ममेवानुपश्यता ॥ ८ ॥
कथं दाशरथौ भूमौ शयाने सह सीतया ।
शक्या निद्रा मया लब्धुं जीवितं वा सुखानि वा ॥ ९ ॥
यो न देवासुरैः सर्वैः शक्यः प्रसहितुं युधि ।
तं पश्य सुखसंविष्टं तृणेषु सह सीतया ॥ १० ॥
यो मन्त्रतपसा लब्धो विविधैश्च परिश्रमैः ।
एको दशरथस्येष्टः पुत्रः सदृशलक्षणः ॥ ११ ॥
अस्मिन्प्रव्राजिते राजा न चिरं वर्तयिष्यति ।
विधवा मेदिनी नूनं क्षिप्रमेव भविष्यति ॥ १२ ॥
विनद्य सुमहानादं श्रमेणोपरताः स्त्रियः ।
निर्घोषोपरतं चातः मन्ये राजनिवेशनम् ॥ १३ ॥
कौसल्या चैव राजा च तथैव जननी मम ।
नाशंसे यदि जीवन्ति सर्वे ते शर्वरीमिमाम् ॥ १४ ॥
जीवेदपि हि मे माता शत्रुघ्नस्यान्ववेक्षया ।
तद्दुःखं यत्तु कौसल्या वीरसूर्विनशिष्यति ॥ १५ ॥
अनुरक्तजनाकीर्णा सुखालोकप्रियावहा ।
राजव्यसनसंसृष्टा सा पुरी विनशिष्यति ॥ १६ ॥
कथं पुत्रं महात्मानं ज्येष्ठं प्रियमपस्यतः ।
शरीरं धारयिष्यन्ति प्राणा राज्ञो महात्मनः ॥ १७ ॥
विनष्टे नृपतौ पश्चात्कौसल्या विनशिष्यति ।
अनन्तरं च माताऽपि मम नाशमुपैष्यति ॥ १८ ॥
अतिक्रान्तमतिक्रान्तमनवाप्य मनोरथम् ।
राज्ये राममनिक्षिप्य पिता मे विनशिष्यति ॥ १९ ॥
सिद्धार्थाः पितरं वृत्तं तस्मिन्कालेऽप्युपस्थिते ।
प्रेतकार्येषु सर्वेषु संस्करिष्यन्ति भूमिपम् ॥ २० ॥
रम्यचत्वरसंस्थानां सुविभक्तमहापथाम् ।
हर्म्यप्रासादसम्पन्नां गणिकावरशोभिताम् ॥ २१ ॥
रथाश्वगजसम्बाधां तूर्यनादविनादिताम् ।
सर्वकल्याणसम्पूर्णां हृष्टपुष्टजनाऽकुलाम् ॥ २२ ॥
आरामोद्यानसम्पन्नां समाजोत्सवशालिनीम् ।
सुखिता विचरिष्यन्ति राजधानीं पितुर्मम ॥ २३ ॥
अपि जीवेद्धशरथो वनवासात्पुनर्वयम् ।
प्रत्यागम्य महात्मानमपि पश्येम सुव्रतम् ॥ २४ ॥
अपि सत्यप्रतिज्ञेन सार्धङ्कुशलिना वयम् ।
निवृत्तवनवासेऽस्मिन्नयोध्यां प्रविशेमहि ॥ २५ ॥
परिदेवयमानस्य दुःखार्तस्य महात्मनः ।
तिष्ठतः राजपुत्रस्य शर्वरी साऽत्यवर्तत ॥ २६ ॥
तथाहि सत्यं ब्रुवति प्रजाहिते
नरेन्द्रपुत्रे गुरुसौहृदाद्गुहः ।
मुमोच बाष्पं व्यसनाभिपीडितो
ज्वरातुरो नाग इव व्यथाऽऽतुरः ॥ २७ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे एकपञ्चाशः सर्गः ॥ ५१ ॥
अयोध्याकाण्ड द्विपञ्चाशः सर्गः (५२) >>
सम्पूर्ण वाल्मीकि रामायणे अयोध्यकाण्ड पश्यतु ।
గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.