Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
॥ रामागमनम् ॥
स रामो रथमास्थाय सम्प्रहृष्टसुहृज्जनः ।
पताकाध्वजसम्पन्नं महार्हागरुधूपितम् ॥ १ ॥
अपश्यन्नगरं श्रीमान्नानाजनसमाकुलम् ।
स गृहैरभ्रसङ्काशैः पाण्डुरैरुपशोभितम् ॥ २ ॥
राजमार्गं ययौ रामः मध्येनागरुधूपितम् ।
चन्दनानां च मुख्यानामगरूणां च सञ्चयैः ॥ ३ ॥
उत्तमानां च गन्धानां क्षौमकौशाम्बरस्य च ।
अविद्धाभिश्च मुक्ताभिरुत्तमैः स्फाटिकैरपि ॥ ४ ॥
शोभमानमसम्बाधैस्तं राजपथमुत्तमम् ।
संवृतं विविधैः पण्यैर्भक्ष्यैरुच्चावचैरपि ॥ ५ ॥
ददर्श तं राजपथं दिवि देवपथं यथा ।
दध्यक्षतहविर्लाजैर्धूपैरगरुचन्दनैः ॥ ६ ॥
नानामाल्योपगन्धैश्च सदाऽभ्यर्चितचत्वरम् ।
आशीर्वादान्बहून् शृण्वन्सुहृद्भिः समुदीरितान् ॥ ७ ॥
यथाऽर्हं चापि सम्पूज्य सर्वानेव नरान्ययौ ।
पितामहैराचरितं तथैव प्रपितामहैः ॥ ८ ॥
अद्योपादाय तं मार्गमभिषिक्तोऽनुपालय ।
यथा स्म लालिताः पित्रा यथा पूर्वैः पितामहैः ॥ ९ ॥
ततः सुखतरं रामे वत्स्यामः सति राजनि ।
अलमद्य हि भुक्तेन परमार्थैरलं च नः ॥ १० ॥
यथा पश्याम निर्यान्तं रामं राज्ये प्रतिष्ठितम् ।
ततो हि नः प्रियतरं नान्यत्किञ्चिद्भविष्यति ॥ ११ ॥
यथाभिषेको रामस्य राज्येनामिततेजसः ।
एताश्चान्याश्च सुहृदामुदासीनः कथाः शुभाः ॥ १२ ॥
आत्मसम्पूजनीः शृण्वन्ययौ रामो महापथम् ।
न हि तस्मान्मनः कश्चिच्चक्षुषी वा नरोत्तमात् ॥ १३ ॥
नरः शक्नोत्यपाक्रष्टुमतिक्रान्तेऽपि राघवे ।
यश्च रामं न पश्येत्तु यं च रामो न पश्यति ॥ १४ ॥
निन्दितः स वसेल्लोके स्वात्माऽप्येनं विगर्हते ।
सर्वेषां हि स धर्मात्मा वर्णानां कुरुते दयाम् ॥ १५ ॥
चतुर्णां हि वयस्थानां तेन ते तमनुव्रताः ।
चतुष्पथान्देवपथांश्चैत्यान्यायतनानि च ॥ १६ ॥
प्रदक्षिणं परिहरन्जगाम नृपतेः सुतः ।
स राजकुलमासाद्य मेघसङ्घोपमैः शुभैः ॥ १७ ॥
प्रासादशृङ्गैर्विविधैः कैलासशिखरोपमैः ।
आवारयद्भिर्गगनं विमानैरिव पाण्डरैः ॥ १८ ॥
वर्धमानगृहैश्चापि रत्नजालपरिष्कृतैः ।
तत्पृथिव्यां गृहवरं महेन्द्रभवनोपमम् ॥ १९ ॥
राजपुत्रः पितुर्वेश्म प्रविवेश श्रिया ज्वलन् ।
स कक्ष्या धन्विभिर्गुप्तास्तिस्रोऽतिक्रम्य वाजिभिः ॥ २० ॥
पदातिरपरे कक्ष्ये द्वे जगाम नरोत्तमः ।
स सर्वाः समतिक्रम्य कक्ष्या दशरथात्मजः ।
सन्निवर्त्य जनं सर्वं शुद्धान्तं पुनरभ्यगात् ॥ २१ ॥
ततः प्रविष्टे पितुरन्तिकं तदा
जनः स सर्वो मुदितो नृपात्मजे ।
प्रतीक्षते तस्य पुनर्विनिर्गमं
यथोदयं चन्द्रमसः सरित्पतिः ॥ २२ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे सप्तदशः सर्गः ॥ १७ ॥
अयोध्याकाण्ड अष्टादशः सर्गः (१८) >>
सम्पूर्ण वाल्मीकि रामायणे अयोध्यकाण्ड पश्यतु ।
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

