Balakanda Sarga 70 – बालकाण्ड सप्ततितमः सर्गः (७०)



॥ कन्यावरणम् ॥

ततः प्रभाते जनकः कृतकर्मा महर्षिभिः ।
उवाच वाक्यं वाक्यज्ञः शतानन्दं पुरोहितम् ॥ १ ॥

भ्राता मम महातेजा यवीयानतिधार्मिकः ।
कुशध्वज इति ख्यातः पुरीमध्यवसच्छुभाम् ॥ २ ॥

वार्याफलकपर्यन्तां पिबन्निक्षुमतीं नदीम् ।
साङ्काश्यां पुण्यसङ्काशां विमानमिव पुष्पकम् ॥ ३ ॥

तमहं द्रष्टुमिच्छामि यज्ञगोप्ता स मे मतः ।
प्रीतिं सोऽपि महातेजा इमां भोक्ता मया सह ॥ ४ ॥

एवमुक्ते तु वचने शतानन्दस्य सन्निधौ ।
आगताः केचिदव्यग्रा जनकस्तान्समादिशत् ॥ ५ ॥

शासनात्तु नरेन्द्रस्य प्रययुः शीघ्रवाजिभिः ।
समानेतुं नरव्याघ्रं विष्णुमिन्द्राज्ञया यथा ॥ ६ ॥

साङ्काश्यां ते समागत्य ददृशुश्च कुशध्वजम् ।
न्यवेदयन्यथावृत्तं जनकस्य च चिन्तितम् ॥ ७ ॥

तद्वृत्तं नृपतिः श्रुत्वा दूतश्रेष्ठैर्महाबलैः ।
आज्ञयाथ नरेन्द्रस्य आजगाम कुशध्वजः ॥ ८ ॥

स ददर्श महात्मानं जनकं धर्मवत्सलम् ।
सोऽभिवाद्य शतानन्दं राजानां चातिधार्मिकम् ॥ ९ ॥ [जनकं]

राजार्हं परमं दिव्यमासनं सोऽध्यरोहत ।
उपविष्टावुभौ तौ तु भ्रातरावमितौजसौ ॥ १० ॥

प्रेषयामासतुर्वीरौ मन्त्रिश्रेष्ठं सुदामनम् ।
गच्छ मन्त्रिपते शीघ्रमैक्ष्वाकममितप्रभम् ॥ ११ ॥

आत्मजैः सह दुर्धर्षमानयस्व समन्त्रिणम् ।
औपकार्यां स गत्वा तु रघूणां कुलवर्धनम् ॥ १२ ॥

ददर्श शिरसा चैनमभिवाद्येदमब्रवीत् ।
अयोध्याधिपते वीर वैदेहो मिथिलाधिपः ॥ १३ ॥

स त्वां द्रष्टुं व्यवसितः सोपाध्यायपुरोहितम् ।
मन्त्रिश्रेष्ठवचः श्रुत्वा राजा सर्षिगणस्तदा ॥ १४ ॥

सबन्धुरगमत्तत्र जनको यत्र वर्तते ।
स राजा मन्त्रिसहितः सोपाध्यायः सबान्धवः ॥ १५ ॥

वाक्यं वाक्यविदां श्रेष्ठो वैदेहमिदमब्रवीत् ।
विदितं ते महाराज इक्ष्वाकुकुलदैवतम् ॥ १६ ॥

वक्ता सर्वेषु कृत्येषु वसिष्ठो भगवानृषिः ।
विश्वामित्राभ्यनुज्ञातः सह सर्वैर्महर्षिभिः ॥ १७ ॥

एष वक्ष्यति धर्मात्मा वसिष्ठस्ते यथाक्रमम् ।
तूष्णीं‍भूते दशरथे वसिष्ठो भगवानृषिः ॥ १८ ॥

उवाच वाक्यं वाक्यज्ञो वैदेहं सपुरोहितम् । [पुरोधसम्]
अव्यक्तप्रभवो ब्रह्मा शाश्वतो नित्य अव्ययः ॥ १९ ॥

तस्मान्मरीचिः सञ्जज्ञे मरीचेः काश्यपः सुतः ।
विवस्वान्काश्यपाज्जज्ञे मनुर्वैवस्वतः स्मृतः ॥ २० ॥

मनुः प्रजापतिः पूर्वमिक्ष्वाकुस्तु मनोः सुतः ।
तमिक्ष्वाकुमयोध्यायां राजानं विद्धि पूर्वकम् ॥ २१ ॥

इक्ष्वाकोऽस्तु सुतः श्रीमान्कुक्षिरित्येव विश्रुतः ।
कुक्षेरथात्मजः श्रीमान्विकुक्षिरुदपद्यत ॥ २२ ॥

विकुक्षेस्तु महातेजा बाणः पुत्रः प्रतापवान् ।
बाणस्य तु महातेजा अनरण्यो महायशाः ॥ २३ ॥ [प्रतापवान्]

अनरण्यात्पृथुर्जज्ञे त्रिशङ्कुस्तु पृथोः सुतः ।
त्रिशङ्कोरभवत्पुत्रो धुन्धुमारो महायशाः ॥ २४ ॥

धुन्धुमारान्महातेजा युवनाश्वो महाबलः ।
युवनाश्वसुतस्त्वासीन्मान्धाता पृथिवीपतिः ॥ २५ ॥

मान्धातुस्तु सुतः श्रीमान्सुसन्धिरुदपद्यत ।
सुसन्धेरपि पुत्रौ द्वौ ध्रुवसन्धिः प्रसेनजित् ॥ २६ ॥

यशस्वी ध्रुवसन्धेस्तु भरतो नाम नामतः ।
भरतात्तु महातेजा असितो नाम जातवान् ॥ २७ ॥

यस्यैते प्रतिराजान उदपद्यन्त शत्रवः ।
हैहयास्तालजङ्घाश्च शूराश्च शशबिन्दवः ॥ २८ ॥

तांस्तु स प्रतियुध्यन्वै युद्धे राज्यात्प्रवासितः ।
हिमवन्तमुपागम्य भार्याभ्यां सहितस्तदा ॥ २९ ॥

असितोऽल्पबलो राजा कालधर्ममुपेयिवान् ।
द्वे चास्य भार्ये गर्भिण्यौ बभूवतुरिति श्रुतम् ॥ ३० ॥

एका गर्भविनाशाय सपत्न्यै सगरं ददौ ।
ततः शैलवरं रम्यं बभूवाभिरतो मुनिः ॥ ३१ ॥

भार्गवश्च्यवनो नाम हिमवन्तमुपाश्रितः ।
तत्रैका तु महाभागा भार्गवं देववर्चसम् ॥ ३२ ॥

ववन्दे पद्मपत्राक्षी काङ्क्षन्ती सुतमुत्तमम् । [आत्मनः]
तमृषिं साऽभ्युपागम्य कालिन्दी चाभ्यवादयत् ॥ ३३ ॥

स तामभ्यवदद्विप्रः पुत्रेप्सुं पुत्रजन्मनि ।
तव कुक्षौ महाभागे सुपुत्रः सुमहायशाः ॥ ३४ ॥ [बलः]

महावीर्यो महातेजा अचिरात्सञ्जनिष्यति ।
गरेण सहितः श्रीमान्मा शुचः कमलेक्षणे ॥ ३५ ॥

च्यवनं तु नमस्कृत्य राजपुत्री पतिव्रता ।
पतिशोकातुरा तस्मात्पुत्रं देवी व्यजायत ॥ ३६ ॥

सपत्न्या तु गरस्तस्यै दत्तो गर्भजिघांसया ।
सह तेन गरेणैव जातः स सगरोऽभवत् ॥ ३७ ॥

सगरस्यासमञ्जस्तु असमञ्जात्तथांशुमान् ।
दिलीपोऽम्शुमतः पुत्रो दिलीपस्य भगीरथः ॥ ३८ ॥

भगीरथात् ककुत्स्थोऽभूत् ककुत्स्थस्य रघुः सुतः ।
रघोस्तु पुत्रस्तेजस्वी प्रवृद्धः पुरुषादकः ॥ ३९ ॥

कल्माषपादो ह्यभवत्तस्माज्जातश्च शङ्खणः ।
सुदर्शनः शङ्खणस्य अग्निवर्णः सुदर्शनात् ॥ ४० ॥

शीघ्रगस्त्वग्निवर्णस्य शीघ्रगस्य मरुः सुतः ।
मरोः प्रशुश्रुकस्त्वासीदम्बरीषः प्रशुश्रुकात् ॥ ४१ ॥

अम्बरीषस्य पुत्रोऽभून्नहुषः सत्यविक्रमः । [पृथिवीपतिः]
नहुषस्य ययातिश्च नाभागस्तु ययातिजः ॥ ४२ ॥

नाभागस्य बभूवाजो अजाद्दशरथोऽभवत् ।
अस्माद्दशरथाज्जातौ भ्रातरौ रामलक्ष्मणौ ॥ ४३ ॥

आदिवंशविशुद्धानां राज्ञां परमधर्मिणाम् ।
इक्ष्वाकुकुलजातानां वीराणां सत्यवादिनाम् ॥ ४४ ॥

रामलक्ष्मणयोरर्थे त्वत्सुते वरये नृप ।
सदृशाभ्यां नरश्रेष्ठ सदृशे दातुमर्हसि ॥ ४५ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्ततितमः सर्गः ॥ ७० ॥

बालकाण्ड एकसप्ततितमः सर्गः (७१) >>


सम्पूर्ण वाल्मीकि रामायणे बालकाण्ड पश्यतु ।


మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed