Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
बाला ऊचुः ।
यथा संरक्षितं ब्रह्मन् सर्वापत्स्वेव नः कुलम् ।
तथा रक्षां कुरु पुनर्दावाग्नेर्मधुसूदन ॥ १ ॥
त्वमिष्टदेवताऽस्माकं त्वमेव कुलदेवता ।
स्रष्टा पाता च संहर्ता जगतां च जगत्पते ॥ २ ॥
वह्निर्वा वरुणो वाऽपि चन्द्रो वा सूर्य एव च ।
यमः कुबेरः पवन ईशानाद्याश्च देवताः ॥ ३ ॥
ब्रह्मेशशेषधर्मेन्द्रा मुनीन्द्रा मनवः स्मृताः ।
मानवाश्च तथा दैत्या यक्षराक्षसकिन्नराः ॥ ४ ॥
ये ये चराचराश्चैव सर्वे तव विभूतयः ।
आविर्भावस्तिरोभावः सर्वेषां च तवेच्छया ॥ ५ ॥
अभयं देहि गोविन्द वह्निसंहरणं कुरु ।
वयं त्वां शरणं यामो रक्ष त्वं शरणागतान् ॥ ६ ॥
इत्येवमुक्त्वा ते सर्वे तस्थुर्ध्यात्वा पदाम्बुजम् ।
दूरीभूतस्तु दावाग्निः श्रीकृष्णामृतदृष्टितः ॥ ७ ॥
दूरीभूते च दावाग्नौ ननृतुस्ते मुदान्विताः ।
सर्वापदः प्रणश्यन्ति हरिस्मरणमात्रतः ॥ ८ ॥
इदं स्तोत्रं महापुण्यं प्रातरूत्थाय यः पठेत् ।
वह्नितो न भवेत्तस्य भयं जन्मनि जन्मनि ॥ ९ ॥
शत्रुग्रस्ते च दावाग्नौ विपत्तौ प्राणसङ्कटे ।
स्तोत्रमेतत् पठित्वा तु मुच्यते नाऽत्र संशयः ॥ १० ॥
शत्रुसैन्यं क्षयं याति सर्वत्र विजयी भवेत् ।
इह लोके हरेर्भक्तिमन्ते दास्यं लभेद्ध्रुवम् ॥ ११ ॥
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे एकोनविंशोऽध्याये बालकृत श्री कृष्ण स्तोत्रम् ॥
इतर श्री कृष्ण स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.