Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
॥ सेनापतिपञ्चकवधः ॥
हतान्मन्त्रिसुतान्बुद्ध्वा वानरेण महात्मना ।
रावणः संवृताकारश्चकार मतिमुत्तमाम् ॥ १ ॥
स विरूपाक्षयूपाक्षौ दुर्धरं चैव राक्षसम् ।
प्रघसं भासकर्णं च पञ्च सेनाग्रनायकान् ॥ २ ॥
सन्दिदेश दशग्रीवो वीरान्नयविशारदान् ।
हनुमद्ग्रहणे व्यग्रान्वायुवेगसमान्युधि ॥ ३ ॥
यात सेनाग्रगाः सर्वे महाबलपरिग्रहाः ।
सवाजिरथमातङ्गाः स कपिः शास्यतामिति ॥ ४ ॥
यत्तैश्च खलु भाव्यं स्यात्तमासाद्य वनालयम् ।
कर्म चापि समाधेयं देशकालविरोधिनम् ॥ ५ ॥
न ह्यहं तं कपिं मन्ये कर्मणा प्रतितर्कयन् ।
सर्वथा तन्महद्भूतं महाबलपरिग्रहम् ॥ ६ ॥
भवेदिन्द्रेण वा सृष्टमस्मदर्थं तपोबलात् ।
सनागयक्षगन्धर्वा देवासुरमहर्षयः ॥ ७ ॥
युष्माभिः सहितैः सर्वैर्मया सह विनिर्जिताः ।
तैरवश्यं विधातव्यं व्यलीकं किञ्चिदेव नः ॥ ८ ॥
तदेव नात्र सन्देहः प्रसह्य परिगृह्यताम् ।
नावमान्यो भवद्भिश्च हरिर्धीरपराक्रमः ॥ ९ ॥
दृष्टा हि हरयः पूर्वं मया विपुलविक्रमाः ।
वाली च सहसुग्रीवो जाम्बवांश्च महाबलः ॥ १० ॥
नीलः सेनापतिश्चैव ये चान्ये द्विविदादयः ।
नैवं तेषां गतिर्भीमा न तेजो न पराक्रमः ॥ ११ ॥
न मतिर्न बलोत्साहौ न रूपपरिकल्पनम् ।
महत्सत्त्वमिदं ज्ञेयं कपिरूपं व्यवस्थितम् ॥ १२ ॥
प्रयत्नं महदास्थाय क्रियतामस्य निग्रहः ।
कामं लोकास्त्रयः सेन्द्राः ससुरासुरमानवाः ॥ १३ ॥
भवतामग्रतः स्थातुं न पर्याप्ता रणाजिरे ।
तथापि तु नयज्ञेन जयमाकाङ्क्षता रणे ॥ १४ ॥
आत्मा रक्ष्यः प्रयत्नेन युद्धसिद्धिर्हि चञ्चला ।
ते स्वामिवचनं सर्वे प्रतिगृह्य महौजसः ॥ १५ ॥
समुत्पेतुर्महावेगा हुताशसमतेजसः ।
रथैर्मत्तैश्च मातङ्गैर्वाजिभिश्च महाजवैः ॥ १६ ॥
शस्त्रैश्च विविधैस्तीक्ष्णैः सर्वैश्चोपचिता बलैः ।
ततस्तं ददृशुर्वीरा दीप्यमानं महाकपिम् ॥ १७ ॥
रश्मिमन्तमिवोद्यन्तं स्वतेजोरश्मिमालिनम् ।
तोरणस्थं महोत्साहं महासत्त्वं महाबलम् ॥ १८ ॥
महामतिं महावेगं महाकायं महाबलम् ।
तं समीक्ष्यैव ते सर्वे दिक्षु सर्वास्ववस्थिताः ॥ १९ ॥
तैस्तैः प्रहरणैर्भीमैरभिपेतुस्ततस्ततः ।
तस्य पञ्चायसास्तीक्ष्णाः शिताः पीतमुखाः शराः ॥ २० ॥
शिरस्युत्पलपत्राभा दुर्धरेण निपातिताः ।
स तैः पञ्चभिराविद्धः शरैः शिरसि वानरः ॥ २१ ॥
उत्पपात नदन्व्योम्नि दिशो दश विनादयन् ।
ततस्तु दुर्धरो वीरः सरथः सज्यकार्मुकः ॥ २२ ॥
किरन् शरशतैस्तीक्ष्णैरभिपेदे महाबलः ।
स कपिर्वारयामास तं व्योम्नि शरवर्षिणम् ॥ २३ ॥
वृष्टिमन्तं पयोदान्ते पयोदमिव मारुतः ।
अर्द्यमानस्ततस्तेन दुर्धरेणानिलात्मजः ॥ २४ ॥
चकार निनदं भूयो व्यवर्धत च वेगवान् । [कदनं]
स दूरं सहसोत्पत्य दुर्धरस्य रथे हरिः ॥ २५ ॥
निपपात महावेगो विद्युद्राशिर्गिराविव ।
ततः स मथिताष्टाश्वं रथं भग्नाक्षकूबरम् ॥ २६ ॥
विहाय न्यपतद्भूमौ दुर्धरस्त्यक्तजीवितः ।
तं विरूपाक्षयूपाक्षौ दृष्ट्वा निपतितं भुवि ॥ २७ ॥
सञ्जातरोषौ दुर्धर्षावुत्पेततुररिन्दमौ ।
स ताभ्यां सहसोत्पत्य विष्ठितो विमलेऽम्बरे ॥ २८ ॥
मुद्गराभ्यां महाबाहुर्वक्षस्यभिहतः कपिः ।
तयोर्वेगवतोर्वेगं विनिहत्य महाबलः ॥ २९ ॥
निपपात पुनर्भूमौ सुपर्णसमविक्रमः ।
स सालवृक्षमासाद्य तमुत्पाट्य च वानरः ॥ ३० ॥
तावुभौ राक्षसौ वीरौ जघान पवनात्मजः ।
ततस्तांस्त्रीन्हतान् ज्ञात्वा वानरेण तरस्विना ॥ ३१ ॥
अभिपेदे महावेगः प्रसह्य प्रघसो हरिम् ।
भासकर्णश्च सङ्क्रुद्धः शूलमादाय वीर्यवान् ॥ ३२ ॥
एकतः कपिशार्दूलं यशस्विनमवस्थितम् ।
पट्टसेन शिताग्रेण प्रघसः प्रत्ययोधयत् ॥ ३३ ॥
भासकर्णश्च शूलेन राक्षसः कपिसत्तमम् ।
स ताभ्यां विक्षतैर्गात्रैरसृग्दिग्धतनूरुहः ॥ ३४ ॥
अभवद्वानरः क्रुद्धो बालसूर्यसमप्रभः ।
समुत्पाट्य गिरेः शृङ्गं समृगव्यालपादपम् ॥ ३५ ॥
जघान हनुमान्वीरो राक्षसौ कपिकुञ्जरः ।
ततस्तेष्ववसन्नेषु सेनापतिषु पञ्चसु ॥ ३६ ॥
बलं तदवशेषं च नाशयामास वानरः ।
अश्वैरश्वान्गजैर्नागान्योधैर्योधान्रथै रथान् ॥ ३७ ॥
स कपिर्नाशयामास सहस्राक्ष इवासुरान् ।
हतैर्नागैश्च तुरगैर्भग्नाक्षैश्च महारथैः ।
हतैश्च राक्षसैर्भूमी रुद्धमार्गा समन्ततः ॥ ३९ ॥
ततः कपिस्तान्ध्वजिनीपतीन्रणे
निहत्य वीरान्सबलान्सवाहनान् ।
तदेव वीरः परिगृह्य तोरणं [समीक्ष्य]
कृतक्षणः काल इव प्रजाक्षये ॥ ३९ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे षट्चत्वारिंशः सर्गः ॥ ४६ ॥
सुन्दरकाण्ड सप्तचत्वारिंशः सर्गः (४७)>>
सम्पूर्ण वाल्मीकि सुन्दरकाण्ड पश्यतु ।
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

