Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
प्रणम्य देवं विप्रेशं प्रणम्य च सरस्वतीम् ।
प्रणम्य च मुनीन् सर्वान् सर्वशास्त्र विशारदान् ॥ १ ॥
श्रीकृष्णकवचं वक्ष्ये श्रीकीर्तिविजयप्रदम् ।
कान्तारे पथि दुर्गे च सदा रक्षाकरं नृणाम् ॥ २ ॥
स्मृत्वा नीलाम्बुदश्यामं नीलकुञ्चितकुन्तलम् ।
बर्हिपिञ्छलसन्मौलिं शरच्चन्द्रनिभाननम् ॥ ३ ॥
राजीवलोचनं राजद्वेणुना भूषिताधरम् ।
दीर्घपीनमहाबाहुं श्रीवत्साङ्कितवक्षसम् ॥ ४ ॥
भूभारहरणोद्युक्तं कृष्णं गीर्वाणवन्दितम् ।
निष्कलं देवदेवेशं नारदादिभिरर्चितम् ॥ ५ ॥
नारायणं जगन्नाथं मन्दस्मितविराजितम् ।
जपेदेवमिमं भक्त्या मन्त्रं सर्वार्थसिद्धये ॥ ६ ॥
सर्वदोषहरं पुण्यं सकलव्याधिनाशनम् ।
वसुदेवसुतः पातु मूर्धानं मम सर्वदा ॥ ७ ॥
ललाटं देवकीसूनुः भ्रूयुग्मं नन्दनन्दनः ।
नयनौ पूतनाहन्ता नासां शकटमर्दनः ॥ ८ ॥
यमलार्जुनहृत्कर्णौ कपोलौ नगमर्दनः ।
दन्तान् गोपालकः पातु जिह्वां हय्यङ्गवीणधृत् ॥ ९ ॥ [भुक्]
ओष्ठं धेनुकजित् पायादधरं केशिनाशनः ।
चिबुकं पातु गोविन्दो बलदेवानुजो मुखम् ॥ १० ॥
अक्रूरसहितः कण्ठं कक्षौ दन्तिवरान्तकः ।
भुजौ चाणूरहारिर्मे करौ कंसनिषूदनः ॥ ११ ॥
वक्षो लक्ष्मीपतिः पातु हृदयं जगदीश्वरः ।
उदरं मधुरानाथो नाभिं द्वारवतीपतिः ॥ १२ ॥
रुक्मिणीवल्लभः पृष्ठं जघनं शिशुपालहा ।
ऊरू पाण्डवदूतो मे जानुनी पार्थसारथिः ॥ १३ ॥
विश्वरूपधरो जङ्घे प्रपदे भूमिभारहृत् ।
चरणौ यादवः पातु पातु कृष्णोऽखिलं वपुः ॥ १४ ॥
दिवा पायाज्जगन्नाथो रात्रौ नारायणः स्वयम् ।
सर्वकालमुपासीनः सर्वकामार्थसिद्धये ॥ १५ ॥
इदं कृष्णबलोपेतं यः पठेत् कवचं नरः ।
सर्वदाऽऽर्तिभयान्मुक्तः कृष्णभक्तिं समाप्नुयात् ॥ १६ ॥
इति श्री कृष्ण कवचम् ।
इतर श्री कृष्ण स्तोत्राणि पश्यतु ।
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

