Sri Yantrodharaka Hanuman Stotram – श्री यन्त्रोधारक हनुमत् (प्राणदेवर) स्तोत्रम्



नमामि दूतं रामस्य सुखदं च सुरद्रुमम् ।
श्री मारुतात्मसम्भूतं विद्युत्काञ्चन सन्निभम् ॥ १

पीनवृत्तं महाबाहुं सर्वशत्रुनिवारणम् ।
रामप्रियतमं देवं भक्ताभीष्टप्रदायकम् ॥ २

नानारत्नसमायुक्तं कुण्डलादिविराजितम् ।
द्वात्रिंशल्लक्षणोपेतं स्वर्णपीठविराजितम् ॥ ३

त्रिंशत्कोटिबीजसम्युक्तं द्वादशावर्ति प्रतिष्ठितम् ।
पद्मासनस्थितं देवं षट्कोणमण्डलमध्यगम् ॥ ४

चतुर्भुजं महाकायं सर्ववैष्णवशेखरम् ।
गदाऽभयकरं हस्तौ हृदिस्थो सुकृताञ्जलिम् ॥ ५

हंसमन्त्र प्रवक्तारं सर्वजीवनियामकम् ।
प्रभञ्जनशब्दवाच्येण सर्वदुर्मतभञ्जकम् ॥ ६

सर्वदाऽभीष्टदातारं सतां वै दृढमहवे ।
अञ्जनागर्भसम्भूतं सर्वशास्त्रविशारदम् ॥ ७

कपीनां प्राणदातारं सीतान्वेषणतत्परम् ।
अक्षादिप्राणहन्तारं लङ्कादहनतत्परम् ॥ ८

लक्ष्मणप्राणदातारं सर्ववानरयूथपम् ।
किङ्कराः सर्वदेवाद्याः जानकीनाथस्य किङ्करम् ॥ ९

वासिनं चक्रतीर्थस्य दक्षिणस्थ गिरौ सदा ।
तुङ्गाम्भोदि तरङ्गस्य वातेन परिशोभिते ॥ १०

नानादेशगतैः सद्भिः सेव्यमानं नृपोत्तमैः ।
धूपदीपादि नैवेद्यैः पञ्चखाद्यैश्च शक्तितः ॥ ११

भजामि श्रीहनूमन्तं हेमकान्तिसमप्रभम् ।
व्यासतीर्थयतीन्द्रेण पूजितं च विधानतः ॥ १२

त्रिवारं यः पठेन्नित्यं स्तोत्रम् भक्त्या द्विजोत्तमः ।
वाञ्छितं लभतेऽभीष्टं षण्मासाभ्यन्तरे खलु ॥ १३

पुत्रार्थी लभते पुत्रं यशोऽर्थी लभते यशः ।
विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ॥ १४

सर्वथा माऽस्तु सन्देहो हरिः साक्षी जगत्पतिः ।
यः करोत्यत्र सन्देहं स याति नरकं ध्रुवम् ॥ १५

यन्त्रोधारकस्तोत्रम् षोडशश्लोकसम्युतम् ।
श्रवणं कीर्तनं वा सर्वपापैः प्रमुच्यते ॥ १६

इति श्री व्यासराजकृत यन्त्रोधारक हनुमत् स्तोत्रम् ॥


इतर श्री हनुमान् स्तोत्राणि पश्यतु ।


మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

One thought on “Sri Yantrodharaka Hanuman Stotram – श्री यन्त्रोधारक हनुमत् (प्राणदेवर) स्तोत्रम्



  1. Very good effort
    Let the knowledge. Abt our grt sanatana Dharma spread
    Thru ur medium
    Will do my best to spread this valuable work

Leave a Reply

error: Not allowed