Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
॥ युद्धारम्भः ॥
ततस्ते राक्षसास्तत्र गत्वा रावणमन्दिरम् ।
न्यवेदयन्पुरीं रुद्धां रामेण सह वानरैः ॥ १ ॥
रुद्धां तु नगरीं श्रुत्वा जातक्रोधो निशाचरः ।
विधानं द्विगुणं कृत्वा प्रासादं सोऽध्यरोहत ॥ २ ॥
स ददर्शावृतां लङ्कां सशैलवनकाननाम् ।
असङ्ख्येयैर्हरिगणैः सर्वतो युद्धकाङ्क्षिभिः ॥ ३ ॥
स दृष्ट्वा वानरैः सर्वां वसुधां कवलीकृताम् ।
कथं क्षपयितव्याः स्युरिति चिन्तापरोऽभवत् ॥ ४ ॥
स चिन्तयित्वा सुचिरं धैर्यमालम्ब्य रावणः ।
राघवं हरियूथांश्च ददर्शायतलोचनः ॥ ५ ॥
राघवः सह सैन्येन मुदितो नाम पुप्लुवे ।
लङ्कां ददर्श गुप्तां वै सर्वतो राक्षसैर्वृताम् ॥ ६ ॥
दृष्ट्वा दाशरथिर्लङ्कां चित्रध्वजपताकिनीम् ।
जगाम सहसा सीतां दूयमानेन चेतसा ॥ ७ ॥
अत्र सा मृगशाबाक्षी मत्कृते जनकात्मजा ।
पीड्यते शोकसन्तप्ता कृशा स्थण्डिलशायिनी ॥ ८ ॥
पीड्यमानां स धर्मात्मा वैदेहीमनुचिन्तयन् ।
क्षिप्रमाज्ञापयामास वानरान्द्विषतां वधे ॥ ९ ॥
एवमुक्ते तु वचने रामेणाक्लिष्टकर्मणा ।
सङ्घर्षमाणः प्लवगाः सिंहनादैरनादयन् ॥ १० ॥
शिखरैर्विकिरामैनां लङ्कां मुष्टिभिरेव वा ।
इति स्म दधिरे सर्वे मनांसि हरियूथपाः ॥ ११ ॥
उद्यम्य गिरिशृङ्गाणि शिखराणि महान्ति च ।
तरूंश्चोत्पाट्य विविधांस्तिष्ठन्ति हरियूथपाः ॥ १२ ॥
प्रेक्षतो राक्षसेन्द्रस्य तान्यनीकानि भागशः ।
राघवप्रियकामार्थं लङ्कामारुरुहुस्तदा ॥ १३ ॥
ते ताम्रवक्त्रा हेमाभा रामार्थे त्यक्तजीविताः ।
लङ्कामेवाभ्यवर्तन्त सालतालशिलायुधाः ॥ १४ ॥
ते द्रुमैः पर्वताग्रैश्च मुष्टिभिश्च प्लवङ्गमाः ।
प्राकाराग्राण्यरण्यानि ममन्थुस्तोरणानि च ॥ १५ ॥
परिखाः पूरयन्ति स्म प्रसन्नसलिलायुताः ।
पांसुभिः पर्वताग्रैश्च तृणैः काष्ठैश्च वानराः ॥ १६ ॥
ततः सहस्रयूथाश्च कोटियूथाश्च वानराः ।
कोटीशतयुताश्चान्ये लङ्कामारुरुहुस्तदा ॥ १७ ॥
काञ्चनानि प्रमृद्नन्तस्तोरणानि प्लवङ्गमाः ।
कैलासशिखराभाणि गोपुराणि प्रमथ्य च ॥ १८ ॥
आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः ।
लङ्कां तामभिधावन्ति महावारणसन्निभाः ॥ १९ ॥
जयत्यतिबलो रामो लक्ष्मणश्च महाबलः ।
राजा जयति सुग्रीवो राघवेणाभिपालितः ॥ २० ॥
इत्येवं घोषयन्तश्च गर्जन्तश्च प्लवङ्गमाः ।
अभ्यधावन्त लङ्कायाः प्राकारं कामरूपिणः ॥ २१ ॥
वीरबाहुः सुबाहुश्च नलश्च वनगोचरः ।
निपीड्योपनिविष्टास्ते प्राकारं हरियूथपाः ॥ २२ ॥
एतस्मिन्नन्तरे चक्रुः स्कन्धावारनिवेशनम् ।
पूर्वद्वारं तु कुमुदः कोटीभिर्दशभिर्वृतः ॥ २३ ॥
आवृत्य बलवांस्तस्थौ हरिभिर्जितकाशिभिः ।
साहाय्यार्थं तु तस्यैव निविष्टः प्रघसो हरिः ॥ २४ ॥
पनसश्च महाबाहुर्वानरैर्बहुभिर्वृतः ।
दक्षिणं द्वारमागम्य वीरः शतवलिः कपिः ॥ २५ ॥
आवृत्य बलवांस्तस्थौ विंशत्या कोटिभिर्वृतः ।
सुषेणः पश्चिमद्वारं गतस्तारापिता हरिः ॥ २६ ॥
आवृत्य बलवांस्तस्थौ षष्टिकोटिभिरावृतः ।
उत्तरं द्वारमासाद्य रामः सौमित्रिणा सह ॥ २७ ॥
आवृत्य बलवांस्तस्थौ सुग्रीवश्च हरीश्वरः ।
गोलाङ्गूलो महाकायो गवाक्षो भीमदर्शनः ॥ २८ ॥
वृतः कोट्या महावीर्यस्तस्थौ रामस्य पार्श्वतः ।
ऋक्षाणां भीमवेगानां धूम्रः शत्रुनिबर्हणः ॥ २९ ॥
वृतः कोट्या महावीर्यस्तस्थौ रामस्य पार्श्वतः ।
सन्नद्धस्तु महावीर्यो गदापाणिर्विभीषणः ॥ ३० ॥
वृतो यत्तैस्तु सचिवैस्तस्थौ तत्र महाबलः ।
गजो गवाक्षो गवयः शरभो गन्धमादनः ॥ ३१ ॥
समन्तात्परिधावन्तो ररक्षुर्हरिवाहिनीम् ।
ततः कोपपरीतात्मा रावणो राक्षसेश्वरः ॥ ३२ ॥
निर्याणं सर्वसैन्यानां द्रुतमाज्ञापयत्तदा ।
एतच्छ्रुत्वा ततो वाक्यं रावणस्य मुखोद्गतम् ॥ ३३ ॥
सहसा भीमनिर्घोषमुद्घुष्टं रजनीचरैः ।
ततः प्रचोदिता भेर्यश्चन्द्रपाण्डुरपुष्कराः ॥ ३४ ॥
हेमकोणाहता भीमा राक्षसानां समन्ततः ।
विनेदुश्च महाघोषाः शङ्खाः शतसहस्रशः ॥ ३५ ॥
राक्षसानां सुघोराणां मुखमारुतपूरिताः ।
ते बभुः शुभनीलाङ्गाः सशङ्खा रजनीचराः ॥ ३६ ॥
विद्युन्मण्डलसन्नद्धाः सबलाका इवाम्बुदाः ।
निष्पतन्ति ततः सैन्या हृष्टा रावणचोदिताः ॥ ३७ ॥
समये पूर्यमाणस्य वेगा इव महोदधेः ।
ततो वानरसैन्येन मुक्तो नादः समन्ततः ॥ ३८ ॥
मलयः पूरितो येन ससानुप्रस्थकन्दरः ।
शङ्खदुन्दुभिसङ्घुष्टः सिंहनादस्तरस्विनाम् ॥ ३९ ॥
पृथिवीं चान्तरिक्षं च सागरं चैव नादयन् ।
गजानां बृंहितैः सार्धं हयानां हेषितैरपि ॥ ४० ॥
रथानां नेमिघोषैश्च रक्षसां वदनस्वनः ।
एतस्मिन्नन्तरे घोरः सङ्ग्रामः समवर्तत ॥ ४१ ॥
रक्षसां वानराणां च यथा देवासुरे पुरा ।
ते गदाभिः प्रदीप्ताभिः शक्तिशूलपरश्वधैः ॥ ४२ ॥
निजघ्नुर्वानरान्घोराः कथयन्तः स्वविक्रमान् ।
वानराश्च महावीर्याः राक्षसान् जघ्नुराहवे ॥ ४३ ॥
जयत्यतिबलो रामः लक्षणश्च महाबलः ।
राजा जयति सुग्रीव इति शब्दो महानभूत् ॥ ४४ ॥
राजन् जय जयेत्युक्त्वा स्वस्वनामकथान्ततः ।
तथा वृक्षैर्महाकायाः पर्वताग्रैश्च वानराः ॥ ४५ ॥
निजघ्नुस्तानि रक्षांसि नखैर्दन्तैश्च वेगिताः ।
राक्षसास्त्वपरे भीमाः प्राकारस्था महीगतान् ॥ ४६ ॥
भिन्दिपालैश्च खड्गैश्च शूलैश्चैव व्यदारयन् ।
वानराश्चापि सङ्क्रुद्धाः प्राकारस्थान्महीगताः ॥ ४७ ॥
राक्षसान्पातयामासुः समाप्लुत्य प्लवङ्गमाः ।
स सम्प्रहारस्तुमुलो मांसशोणितकर्दमः ।
रक्षसां वानराणां च सम्बभूवाद्भुतोपमः ॥ ४८ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्विचत्वारिंशः सर्गः ॥ ४२ ॥
युद्धकाण्ड त्रिचत्वारिंशः सर्गः (४३) >>
सम्पूर्ण वाल्मीकि रामायणे युद्धकाण्ड पश्यतु ।
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.