Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
पञ्चवक्त्रं जटाजूटं पञ्चादशविलोचनम् ।
सद्योजाताननं श्वेतं वामदेवं तु कृष्णकम् ॥ १
अघोरं रक्तवर्णं तत्पुरुषं पीतवर्णकम् ।
ईशानं श्यामवर्णं च शरीरं हेमवर्णकम् ॥ २
दशबाहुं महाकायं कर्णकुण्डलमण्डितम् ।
पीताम्बरं पुष्पमाला नागयज्ञोपवीतनम् ॥ ३
रुद्राक्षमालाभरणं व्याघ्रचर्मोत्तरीयकम् ।
अक्षमालां च पद्मं च नागशूलपिनाकिनम् ॥ ४
डमरुं वीणां बाणं च शङ्खचक्रकरान्वितम् ।
कोटिसूर्यप्रतीकाशं सर्वजीवदयापरम् ॥ ५
देवदेवं महादेवं विश्वकर्म जगद्गुरुम् ।
प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये ॥ ६
अभीप्सितार्थसिद्ध्यर्थं पूजितो यस्सुरैरपि ।
सर्वविघ्नहरं देवं सर्वावज्ञाविवर्जितम् ॥ ७
आहुं प्रजानां भक्तानामत्यन्तं भक्तिपूर्वकम् ।
सृजन्तं विश्वकर्माणं नमो ब्रह्महिताय च ॥ ८
मन्त्रम् –
ओम् विश्वकर्माय नमः ।
इतर विविध स्तोत्राणि पश्यतु ।
పైరసీ ప్రకటన : నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ మరియు శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు కలిసి మా రెండు పుస్తకాలను ("శ్రీ వారాహీ స్తోత్రనిధి" మరియు "శ్రీ శ్యామలా స్తోత్రనిధి") ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.