Sri Surya Stotram 1 (Shiva Proktam) – श्री सूर्य स्तोत्रम् – १ (शिव प्रोक्तम्)


ध्यानम् –
ध्यायेत्सूर्यमनन्तकोटिकिरणं तेजोमयं भास्करं
भक्तानामभयप्रदं दिनकरं ज्योतिर्मयं शङ्करम् ।
आदित्यं जगदीशमच्युतमजं त्रैलोक्यचूडामणिं
भक्ताभीष्टवरप्रदं दिनमणिं मार्ताण्डमाद्यं शुभम् ॥ १ ॥

कालात्मा सर्वभूतात्मा वेदात्मा विश्वतोमुखः ।
जन्ममृत्युजराव्याधिसंसारभयनाशनः ॥ २ ॥

ब्रह्मस्वरूप उदये मध्याह्ने तु महेश्वरः ।
अस्तकाले स्वयं विष्णुस्त्रयीमूर्तिर्दिवाकरः ॥ ३ ॥

एकचक्ररथो यस्य दिव्यः कनकभूषितः ।
सोऽयं भवतु नः प्रीतः पद्महस्तो दिवाकरः ॥ ४ ॥

पद्महस्तः परञ्ज्योतिः परेशाय नमो नमः ।
अण्डयोनिर्महासाक्षी आदित्याय नमो नमः ॥ ५ ॥

कमलासन देवेश भानुमूर्ते नमो नमः ।
धर्ममूर्तिर्दयामूर्तिस्तत्त्वमूर्तिर्नमो नमः ॥ ६ ॥

सकलेशाय सूर्याय क्षान्तेशाय नमो नमः । [छायेशाय]
क्षयापस्मारगुल्मादिदुर्दोषव्याधिनाशनम् ॥ ७ ॥

सर्वज्वरहरं चैव कुक्षिरोगनिवारणम् ।
एतत् स्तोत्रं शिव प्रोक्तं सर्वसिद्धिकरं परम् ।
सर्वसम्पत्करं चैव सर्वाभीष्टप्रदायकम् ॥ ८ ॥

इति श्री सूर्य स्तोत्रम् ।


इतर श्री सूर्य स्तोत्राणि पश्यतु । इतर नवग्रह स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed