Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ब्रह्मोवाच ।
नामभिः संस्तुतो देवो यैरर्कः परितुष्यति ।
तानि ते कीर्तयाम्येष यथावदनुपूर्वशः ॥ १ ॥
नमः सूर्याय नित्याय रवये कार्यभानवे ।
भास्कराय मतङ्गाय मार्तण्डाय विवस्वते ॥ २ ॥
आदित्यायादिदेवाय नमस्ते रश्मिमालिने ।
दिवाकराय दीप्ताय अग्नये मिहिराय च ॥ ३ ॥
प्रभाकराय मित्राय नमस्तेऽदितिसम्भव ।
नमो गोपतये नित्यं दिशां च पतये नमः ॥ ४ ॥
नमो धात्रे विधात्रे च अर्यम्णे वरुणाय च ।
पूष्णे भगाय मित्राय पर्जन्यायांशवे नमः ॥ ५ ॥
नमो हितकृते नित्यं धर्माय तपनाय च ।
हरये हरिताश्वाय विश्वस्य पतये नमः ॥ ६ ॥
विष्णवे ब्रह्मणे नित्यं त्र्यम्बकाय तथात्मने ।
नमस्ते सप्तलोकेश नमस्ते सप्तसप्तये ॥ ७ ॥
एकस्मै हि नमस्तुभ्यमेकचक्ररथाय च ।
ज्योतिषां पतये नित्यं सर्वप्राणभृते नमः ॥ ८ ॥
हिताय सर्वभूतानां शिवायार्तिहराय च ।
नमः पद्मप्रबोधाय नमो द्वादशमूर्तये ॥ ९ ॥ [वेदादिमूर्तये]
कविजाय नमस्तुभ्यं नमस्तारासुताय च ।
भीमजाय नमस्तुभ्यं पावकाय च वै नमः ॥ १० ॥
धिषणाय नमो नित्यं नमः कृष्णाय नित्यदा ।
नमोऽस्त्वदितिपुत्राय नमो लक्ष्याय नित्यशः ॥ ११ ॥
एतान्यादित्यनामानि मया प्रोक्तानि वै पुरा ।
आराधनाय देवस्य सर्वकामेन सुव्रत ॥ १२ ॥
सायं प्रातः शुचिर्भूत्वा यः पठेत्सुसमाहितः ।
स प्राप्नोत्यखिलान् कामान् यथाहं प्राप्तवान् पुरा ॥ १३ ॥
प्रसादात्तस्य देवस्य भास्करस्य महात्मनः ।
श्रीकामः श्रियमाप्नोति धर्मार्थी धर्ममाप्नुयात् ॥ १४ ॥
आतुरो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् ।
राज्यार्थी राज्यमाप्नोति कामार्थी काममाप्नुयात् ॥ १५ ॥
एतज्जप्यं रहस्यं च सन्ध्योपासनमेव च ।
एतेन जपमात्रेण नरः पापात् प्रमुच्यते ॥ १६ ॥
इति श्रीभविष्यमहापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे ब्रह्मप्रोक्त सूर्य नाम वर्णनं नामैकसप्ततितमोऽध्यायः ॥
इतर श्री सूर्य स्तोत्राणि पश्यतु । इतर नवग्रह स्तोत्राणि पश्यतु ।
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.