Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
पुनः सङ्कल्पम् –
पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभतिथौ वाग्देव्याः अनुग्रहेण प्रज्ञामेधाभिवृद्ध्यर्थं, सकलविद्यापारङ्गता सिद्ध्यर्थं, मम विद्यासम्बन्धित सकलप्रतिबन्धक निवृत्त्यर्थं, श्री सरस्वती देवीं उद्दिश्य श्री सरस्वती देवता प्रीत्यर्थं यावच्छक्ति ध्यानावाहनादि षोडशोपचार पूजां करिष्ये ॥
ध्यानम् –
पुस्तकेतु यतोदेवी क्रीडते परमार्थतः
ततस्तत्र प्रकुर्वीत ध्यानमावाहनादिकम् ।
ध्यानमेवं प्रकुरीत्व साधनो विजितेन्द्रियः
प्रणवासनमारुढां तदर्थत्वेन निश्चिताम् ॥
अङ्कुशं चाक्ष सूत्रं च पाशं वीणां च धारिणीम् ।
मुक्ताहारसमायुक्तं मोदरूपां मनोहरम् ॥
ओं सरस्वत्यै नमः ध्यायामि ।
आवाहनम् –
अत्रागच्छ जगद्वन्द्ये सर्वलोकैकपूजिते ।
मया कृतमिमां पूजां गृहाण जगदीश्वरी ॥
ओं सरस्वत्यै नमः आवाहयामि ।
आसनम् –
अनेक रत्नसम्युक्तं सुवर्णेन विराजितम् ।
मुक्तामणियुतं चारु चाऽसनं ते ददाम्यहम् ॥
ओं सरस्वत्यै नमः आसनं समर्पयामि ।
पाद्यम् –
गन्धपुष्पाक्षतैः सार्थं शुद्ध तोयेनसम्युतम् ।
शुद्धस्फटिकतुल्याङ्गि पाद्यं ते प्रतिगृह्यताम् ॥
ओं सरस्वत्यै नमः पादयोः पाद्यं समर्पयामि ।
अर्घ्यम् –
भक्ताभीष्टप्रदे देवी देवदेवादिवन्दिते ।
धातृप्रिये जगद्धात्रि ददाम्यर्घ्यं गृहाण मे ॥
ओं सरस्वत्यै नमः हस्तयोः अर्घ्यं समर्पयामि ।
आचमनीयम् –
पूर्णचन्द्रसमानाभे कोटिसूर्यसमप्रभे ।
भक्त्या समर्पितं वाणी गृहाणाचमनीयकम् ॥
ओं सरस्वत्यै नमः आचमनीयं समर्पयामि ।
मधुपर्कम् –
कमलभुवनजाये कोटिसूर्यप्रकाशे
विशद शुचिविलासे कोमले हारयुक्ते ।
दधिमधुघृतयुक्तं क्षीररम्भाफलाढ्यं
सुरुचिर मधुपर्कं गृह्यतां देववन्द्ये ॥
ओं सरस्वत्यै नमः मधुपर्कं समर्पयामि ।
पञ्चामृत स्नानम् –
दधिक्षीरघृतोपेतं शर्करा मधुसम्युतं
पञ्चामृतस्नानमिदं स्वीकुरुष्व महेश्वरि ॥
ओं सरस्वत्यै नमः पञ्चामृतस्नानं समर्पयामि ।
शुद्धोदक स्नानम् –
शुद्धोदकेन सुस्नानं कर्तव्यं विधिपूर्वकम् ।
सुवर्णकलशानीतैः नानागन्ध सुवासितैः ॥
ओं सरस्वत्यै नमः शुद्धोदकस्नानं समर्पयामि ।
वस्त्रयुग्मम् –
शुक्लवस्त्रद्वयं देवी कोमलं कुटिलालके ।
मयि प्रीत्या त्वया वाणि ब्रह्माणि प्रतिगृह्यताम् ॥
ओं सरस्वत्यै नमः वस्त्रयुग्मं समर्पयामि ।
यज्ञोपवीतम् –
शब्दब्रह्मात्मिके देवी शब्दशास्त्रकृतालये ।
ब्रह्मसूत्रं गृहाण त्वं ब्रह्मशक्रादिपूजिते ॥
ओं सरस्वत्यै नमः यज्ञोपवीतं समर्पयामि ।
आभरणानि –
कटकमकुटहारैः नूपुरैः अङ्गदाण्यैः
विविधसुमणियुक्तैः मेखला रत्नहारैः ।
कमलदलविलसे कामदे सङ्गृहीष्व
प्रकटित करुणार्द्रे भूषितेः भूषणानि ॥
ओं सरस्वत्यै नमः आभरणानि समर्पयामि ।
गन्धम् –
चन्दनागरु कस्तूरी कर्पूराद्यैश्च सम्युतम् ।
गन्धं गृहाण त्वं देवि विधिपत्नि नमोऽस्तु ते ॥
ओं सरस्वत्यै नमः गन्धं समर्पयामि ।
अक्षतान् –
हरिद्राकुङ्कुमोपेतान् अक्षतान् शालिसम्भवान् ।
मया दत्ताननेकांश्च स्वीकुरुष्व महेश्वरि ॥
ओं सरस्वत्यै नमः अक्षतान् समर्पयामि ।
पुष्पाणि –
मन्दारादि सुपुष्पैश्च मल्लिकाभिर्मनोहरैः
करवीरैः मनोरम्यैः वकुलैः केतकैः शुभैः ।
पुन्नागैर्जातिकुसुमैः मन्दारैश्च सुशोभितैः
कल्पितानि च माल्यानि गृहाणाऽमरवन्दिते ॥
ओं सरस्वत्यै नमः पुष्पैः पूजयामि ।
अथ अङ्गपूजा –
ओं ब्रह्मण्यै नमः – पादौ पूजयामि ।
ओं भारत्यै नमः – गुल्फौ पूजयामि ।
ओं जगत्स्वरूपिण्यै नमः – जङ्घौ पूजयामि ।
ओं जगदाद्यायै नमः – जानूनी पूजयामि ।
ओं चारुविलासिन्यै नमः – ऊरू पूजयामि ।
ओं कमलभूमये नमः – कटिं पूजयामि ।
ओं जन्महीनायै नमः – जघनं पूजयामि ।
ओं गम्भीरनाभये नमः – नाभिं पूजयामि ।
ओं हरिपूज्यायै नमः – उदरं पूजयामि ।
ओं लोकमात्रे नमः – स्तनौ पूजयामि ।
ओं विशालवक्षसे नमः – वक्षस्थलं पूजयामि ।
ओं गानविचक्षणायै नमः – कण्ठं पूजयामि ।
ओं स्कन्दप्रपूज्यायै नमः – स्कन्दान् पूजयामि ।
ओं घनबाहवे नमः – बाहून् पूजयामि ।
ओं पुस्तकधारिण्यै नमः – हस्तान् पूजयामि ।
ओं श्रोत्रियबन्धवे नमः – श्रोत्रे पूजयामि ।
ओं वेदस्वरूपायै नमः – वक्त्रं पूजयामि ।
ओं सुनासिन्यै नमः – नासिकां पूजयामि ।
ओं बिम्बसमानोष्ठ्यै नमः – ओष्ठौ पूजयामि ।
ओं कमलचक्षुषे नमः – नेत्रे पूजयामि ।
ओं तिलकधारिण्यै नमः – फालं पूजयामि ।
ओं चन्द्रमूर्तये नमः – चिकुरं पूजयामि ।
ओं सर्वप्रदायै नमः – मुखं पूजयामि ।
ओं श्री सरस्वत्यै नमः – शिरः पूजयामि ।
ओं ब्रह्मरूपिण्यै नमः – सर्वाण्याङ्गानि पूजयामि ।
अष्टोत्तरशतनाम पूजा –
श्री सरस्वती अष्टोत्तरशतनामावली पश्यतु ॥
ओं सरस्वत्यै नमः नानाविध परिमल पुष्पाणि समर्पयामि ।
धूपम् –
दशाङ्गं गुग्गुलोपेतं सुगन्धं च मनोहरम् ।
धूपं गृहाण कल्याणि वरदे प्रतिगृह्यताम् ॥
ओं सरस्वत्यै नमः धूपमाघ्रापयामि ।
दीपम् –
घृतत्रिवर्तिसम्युक्तं दीपितं दीपमम्बिके ।
गृहाण चित्स्वरूपे त्वं कमलासनवल्लभे ॥
ओं सरस्वत्यै नमः दीपं दर्शयामि ।
धूपदीपानन्तरं शुद्ध आचमनीयं समर्पयामि ।
नैवेद्यम् –
अपूपान् विविधान् स्वादून् शालिपिष्टोपपाचितान्
मृदुलान् गुडसम्मिश्रान् सज्जीरक मरीचिकान् ।
कदली पनसाऽम्राणि च पक्वानि सुफलानि च
कन्दमूल व्यञ्जनानि सोपदंशं मनोहरम् ।
अन्नं चतुर्विधोपेतं क्षीरान्नं च घृतं दधि ।
भक्षभोज्यसमायुक्त नैवेद्यं प्रतिगृह्यताम् ॥
ओं सरस्वत्यै नमः नैवेद्यं समर्पयामि ।
ओं भूर्भुव॒स्सुव॑: । तत्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।
धियो॒ यो न॑: प्रचो॒दया᳚त् ॥
सत्यं त्वा ऋतेन परिषिञ्चामि ।
(सायङ्काले – ऋतं त्वा सत्येन परिषिञ्चामि)
अमृतमस्तु । अ॒मृ॒तो॒प॒स्तर॑णमसि ।
ओं प्रा॒णाय॒ स्वाहा᳚ । ओं अ॒पा॒नाय॒ स्वाहा᳚ ।
ओं व्या॒नाय॒ स्वाहा᳚ । ओं उ॒दा॒नाय॒ स्वाहा᳚ ।
ओं स॒मा॒नाय॒ स्वाहा᳚ ।
मध्ये मध्ये पानीयं समर्पयामि ।
अ॒मृ॒ता॒पि॒धा॒नम॑सि । उत्तरापोशनं समर्पयामि ।
हस्तौ प्रक्षालयामि । पादौ प्रक्षालयामि ।
शुद्धाचमनीयं समर्पयामि ।
ओं सरस्वत्यै नमः नैवेद्यं समर्पयामि ।
ताम्बूलम् –
ताम्बूलं च सकर्पूरं पूगनागदलैर्युतम् ।
गृहाण देवदेवेशि तत्त्वरूपी नमोऽस्तु ते ॥
ओं सरस्वत्यै नमः ताम्बूलं समर्पयामि ।
नीराजनम् –
नीराजनं गृहाण त्वं जगदानन्ददायिनि ।
जगत्तिमिरमार्ताण्डमण्डले ते नमो नमः ॥
ओं सरस्वत्यै नमः नीराजनं समर्पयामि ।
मन्त्रपुष्पम् –
(ऋग्वेदं ६।६१।४)
प्र णो॑ दे॒वी सर॑स्वती॒ वाजे॑भिर्वा॒जिनी॑वती ।
धी॒नाम॑वि॒त्र्य॑वतु ॥
यस्त्वा॑ देवि सरस्वत्युपब्रू॒ते धने॑ हि॒ते ।
इन्द्रं॒ न वृ॑त्र॒तूर्ये॑ ॥
त्वं दे॑वि सरस्व॒त्यवा॒ वाजे॑षु वाजिनि ।
रदा॑ पू॒षेव॑ नः स॒निम् ॥
उ॒त स्या न॒: सर॑स्वती घो॒रा हिर॑ण्यवर्तनिः ।
वृ॒त्र॒घ्नी व॑ष्टि सुष्टु॒तिम् ॥
या कुन्देन्दु तुषारहारधवला या शुभ्रवस्त्रावृता
या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना ।
या ब्रह्माच्युतशङ्करप्रभृतिभिर्देवैस्सदा पूजिता
सा मां पातु सरस्वती भगवती निश्शेषजाड्यापहा ॥
शारदे लोकमातस्त्वमाश्रिताभीष्टदायिनि ।
पुष्पाञ्जलिं गृहाण त्वं मया भक्त्या समर्पितम् ॥
ओं सरस्वत्यै नमः सुवर्णदिव्य मन्त्रपुष्पं समर्पयामि ।
प्रदक्षिण –
पाशाङ्कुशधरा वाणी वीणापुस्तकधारिणी
मम वक्त्रे वसेन्नित्यं दुग्धकुन्देन्दुनिर्मला ।
चतुर्दश सुविद्यासु रमते या सरस्वती
चतुर्दशेषु लोकेषु सा मे वाचि वसेच्चिरम् ॥
पाहि पाहि जगद्वन्द्ये नमस्ते भक्तवत्सले
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमो नमः ॥
ओं सरस्वत्यै नमः प्रदक्षिण नमस्कारान् समर्पयामि ।
क्षमाप्रार्थना –
यस्य स्मृत्या च नामोक्त्या तपः पूजाक्रियादिषु ।
न्यूनं सम्पूर्णतां याति सद्योवन्दे तमच्युतम् ॥
अपराध सहस्राणि क्रियन्तेऽहर्निशं मया ।
दासोऽयमिति मां मत्वा क्षमस्व परमेश्वरी ॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं महेश्वरि ।
यत्पूजितं मया देवी परिपूर्णं तदस्तुते ॥
समर्पणम् –
अनया ध्यानावाहनादि षोडशोपचार पूजया भगवती सर्वात्मिका श्री सरस्वती देवता सुप्रीता सुप्रसन्ना वरदा भवतु । मम इष्टकाम्यार्थ सिद्धिरस्तुः ॥
तीर्थप्रसाद ग्रहणम् –
अकालमृत्यहरणं सर्वव्याधिनिवारणम् ।
समस्तपापक्षयकरं श्री सरस्वती देवी पादोदकं पावनं शुभम् ॥
ओं श्री सरस्वती देव्यै नमः प्रसादं शीरसा गृह्णामि ।
ओं शान्तिः शान्तिः शान्तिः ॥
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

