Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ततोऽहं तुलसीदासः स्मरामि रघुन्दनम् ।
हनूमन्तं तत्पुरस्ताद्रक्षार्थे भक्तरक्षकम् ॥ १ ॥
हनूमन्नञ्जनासूनो वायुपुत्र महाबल ।
महालाङ्गूलनिक्षेपनिहताखिलराक्षस ॥ २ ॥
अक्षवक्षोविनिक्षेपकुलिशाग्रनखाञ्चित ।
श्रीरामहृदयानन्द विपत्तौ शरणं भव ॥ ३ ॥
उल्लङ्घ्य सागरं येन छायाग्राही निपातिता ।
सिंहनादहतामित्र विपत्तौ शरणं भव ॥ ४ ॥
लक्ष्मणे निहते भूमावानीय ह्यचलं ततः ।
यया जीवितवानद्य तां शक्तिं प्रकटी कुरु ॥ ५ ॥
येन लङ्केश्वरो वीरो निःशङ्कं विजितः स्वयम् ।
दुर्निरीक्ष्योऽपि देवानां तद्बलं दर्शयाधुना ॥ ६ ॥
यया लङ्कां प्रविश्य त्वं ज्ञातवान् जानकीं स्वयम् ।
रावणान्तःपुरेऽत्युग्रे तां बुद्धिं प्रकटी कुरु ॥ ७ ॥
रुद्रावतार भक्तार्तिविमोचन महाभुज ।
कपिराज प्रपन्नस्त्वां शरणं भव रक्ष माम् ॥ ८ ॥
इत्यष्टकं हनुमतो यः पठेच्छ्रद्धयान्वितः ।
सर्वकष्टविनिर्मुक्तो लभते वाञ्छितं फलम् ॥ ९ ॥
इति श्रीगोस्वामितुलसीदास कृत सङ्कटमोचनं नाम श्रीहनुमदष्टकम् ॥
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.